________________ 88 * वामध्वजकृता सङ्केतटीका विपरीतमस्ति / न चेश्वरादयस्तथा / ततो न सन्तीत्येतदेव ज्यायः / एवमनुमानादिविलोप इति चेत् / नेदमनिष्टम् / तथा च लोकव्यवहारोच्छेद इति चेत्, न / सम्भावनामात्रेण तत्सिद्धेः / संवादेन च प्रामाण्याभिमानादिति / __ 69. यदेश्वरे कर्तृत्वनिषेधः तदाधिकरणत्वमीश्वरस्य / यदा त्वीश्वरो नास्ति तदा विश्वे धर्मप्रतियोगित्वमित्यर्थः / ननूक्तक्रमेण यदि कल्पितस्य तन्निषेध्यत्वं तदा कथं शशशृङ्ग नास्तीति / शशशृङ्गस्यैव कल्पितस्य निषेध्यत्वं सर्वजनसिद्धमित्याशयेन शङ्कते - कथमिति / न शश[शृङ्गस्य] कल्पितस्य निषेध्यत्वं प्रामाणिकजनसिद्धमित्याशयवान् परिहरति - न कथञ्चिदिति / न निषिध्यत इति हृदि निधायेतरनिषेधव्यवहारसमानतामाह - स हीति / प्रामाणिके तु निषेधे प्रमाणसिद्धनिषेध्यव्यवस्थितिरित्याह - न चेति / शशशृङ्गस्य [प्र]माणतोऽधिगतिरप्रमाणेन निषेध [77 A] इत्याह - न चेति / योग्यानुपलम्भनश्व(म्भश्च) भावनि[षेधप्र]त्ययमुपजनयति, नानुपलम्भमात्रमित्युभयसिद्धम् / न च प्रमाणतः क्वचिदनवगतस्य योग्यत्वम्, न च तथाभूतस्याऽऽभासप्रतिपन्नत्वम्, न चाभासप्रतिपन्नस्य निषेधकानुपलम्भः, न च त[द्] विना निषेधसम्भव इत्याशयवतोक्तम् - अपि चेति / दुष्टोपलम्भसामग्री वा योग्यपदसन्निधानमेव / केनेति / किमनुपलम्भमात्रेण योग्यताविशिष्टेन वा / आद्यः सर्वैरनभ्युपगमाद् दुस्थ: / द्वितीयस्तु प्रमाणतः शशशृङ्गस्य क्वचिदसिद्धरसिद्धः / ततो न केनापीत्यर्थः / एतदेवाह - सर्वथेति / प्रमाणत इति भावः / ननूपलब्धिमात्रविषयीकृतमेव रूपं निषिध्यते न तु प्रमाविषयीकृतमाभासोपलब्धरजतादेनिषेधदर्शनादित्यत आह - तदितरेति / रजतादेः क्वचित्प्रमाणसिद्धत्वेन योग्यत्वात् निश्चितं ततश्च सदृशस्यानुपलम्भेन निषेधो न त्वाभासप्रतिपन्नरजतस्य तस्याभासप्रतीतिसामग्रीसमये निषेधकानुपलम्भाभावादनुपलम्भसमये च योग्यत्वविशेषणाभावादिति / समानन्यायेनाह - नन्विति / एवं निवारिताभिमानो मीमांसकः स्वपक्षरागबाहुल्यात् प्रकारान्तरेणेश्वरनिषेधकानुमानमाशङ्कते - स्यादेतदिति / तद्व्यक्तं परमिति पूर्वप्रतिज्ञायामेव / [77 B] प्रमेयत्वादिकमपि वार्तिककृतोक्तम् - प्रत्यक्षाद्यविसंवादि प्रमेयत्वादि यस्य तु / सद्भाववारणेनोक्तं(णे शक्तं) को नु तं कल्पयिष्यति // [श्लो० वा० चोदनासूत्र 132] इति ततोऽपि सार्वज्ञ(श्य)क्षितिकर्तृत्वनिषेध इत्यर्थः / इदमपि अनुमानमनाश्रयमिति सङ्ग्रहेण निवारयति - तदेतदिति / सिद्धसाधनमप्याश्रयासिद्ध्यन्तर्भूतमिति भावः / विवरणमि(म)तिरोहितार्थम् / आमि(त्म)त्वस्यापि सा(स)र्वज्ञसर्वकर्तृनिषेधे सिद्धसाधनमिति उत्क(क्त)माशकंदितं(माशंकितं) दृष्ट्वा प्रकारान्तरेण शङ्कते - अन्वे(थे)ति / जिज्ञासितधर्मसिद्धत्वादत्र च तदभावादसिद्धतया असिद्धिरित्यर्थः / एवं तावन्नैयायिकमीमांसकसिद्धनिषेधकयोग्यानुपलम्भबलेनैव निषेधो न त्वन्यथेति समर्थितम् / प्रमाणसिद्धत्वाच्चायं मार्गोऽवश्यमभ्युपगन्तव्योऽन्येनाप्यन्यथा समस्तलोकव्यवहारोपप्लव इति / समानन्यायेन बोधाय तु अत्र विप्रतिपन्नचार्वाकमुत्थापयति - चार्वाक इति / भाविस्मरणानुकूलानुभा(भ)वादित्यर्थः / अथवा मनसा स्मरणगोचरानुभवादिति / ननु चक्षुरादीनामपि सोपलम्भकाल एव सत्त्वमन्यदा त्व[सत्त्व] मेवास्त्वित्याह - न चेति / 70. अत्रोच्यते - दृष्टयदृष्ट्योः क्व सन्देहो भावाभावविनिश्चयात् / अदृष्टिबाधिते हेतौ प्रत्यक्षमपि दुर्लभम् // 6 //