________________ 89 * न्यायकुसुमाञ्जलि स्तबकः 3 सम्भावना हि सन्देह एव / तस्माच्च व्यवहारस्तस्मिन् सति स्यात् / स एव तु कुतः ? दर्शनदशायां भावनिश्चयात्, अदर्शनदशायामभावावधारणात् / तथा च गृहाद् बहिर्गतश्चार्वाको वराको न निवर्तेत / प्रत्युत पुत्रदारधनाद्यभावावधारणात् सोरस्ताडं शोकविकलो विक्रोशेत् / स्मरणानुभवानैवमिति चेत्, न / प्रतियोगिस्मरण एवाभावपरिच्छेदात्, परावृत्तोऽपि कथं पुनरासादयिष्यति / सत्त्वादिति चेदनुपलम्भकालेऽपि तर्हि सन्तीति न तावन्मात्रेणाभावावधारणम् / तदैवोत्पन्ना इति चेत्, न / अनुपलम्भनहेतूनां बाधात् / अबाधे वा स एव दोषः / अत एव प्रत्यक्षमपि न स्यात्, तद्धेतूनां चक्षुरादीनामनुपलम्भबाधितत्वात् / उपलभ्यन्त एव गोलकादय इति चेत्, न / तदुपलब्धेः पूर्वं तेषामनुपलम्भात् / न च यौगपद्यनियमः / कार्यकारणभावादिति / एतेन न परमाणवः सन्ति अनुपलब्धेः / न ते नित्या निरवयवा वा पार्थिवत्वात् घटादिवत् / न पाथसीयपरमाणुरूपादयो नित्याः, रूपादित्वात्, दृश्यमानरूपादिवत् / न रूपत्वपार्थिवत्वादि नित्याकार्यातीन्द्रियसमवायि जातित्वात् शृङ्गत्ववत् / नेन्द्रियाणि सन्ति योग्यानुपलब्धेः / अयोग्यानि च शशशृङ्गप्रतिबन्धिनिरसनीयानीत्येवं स्वर्गापूर्वदेवतानिराकरणं नास्तिकानां निरसनीयम् / मीमांसकश्च तोषयितव्यो भीषयितव्यश्चेति / यद्येवमनुपलम्भेनादृश्यप्रतिषेधो नेष्यते, अनुपलभ्योपाधिप्रतिषेधोऽपि तर्हि नेष्टव्यः / तथा च कथं तथाभूतार्थसिद्धिरपि अनुमानबीजप्रतिबन्धासिद्धेः / तदभावे शब्दादेरप्यभावः / प्रामाण्यासिद्धेः / सेयमुभयतः पाशारज्जुः / अत्र कश्चिदाह / मा भूदुपाधिविधूननम्, चतुःपञ्चरूपसम्पत्तिमात्रेणैव प्रतिबन्धनिर्वाहात् / तस्याश्च सपक्षासपक्षदर्शनादर्शनमात्रप्रमाणकत्वात् / यत्र तु तद्भङ्गः तत्र प्रमाणभङ्गोऽप्यावश्यकः / न ह्यस्ति सम्भवो दर्शनादर्शनयोरविप्लवे हेतुरुपप्लवत इति / अप्रयोजकोऽपि तर्हि हेतुः स्यादिति चेत्, भूयोदर्शनाविप्लवे कोऽयमप्रयोजको नाम ? न तावत् साध्यं प्रत्यकार्यमकारणं वा / सामान्यतोदृष्टानुमानस्वीकारात् / नापि सामग्र्यां कारणैकदेशः / पूर्ववदभ्युपगमात् / नापि व्यभिचारी / तदनुपलम्भात् / व्यभिचारोपलम्भे वा स एव दोषः / न च शङ्कितव्यभिचारः / निर्बीजशङ्कायाः सर्वत्र सुलभत्वात् / नापि व्याप्यान्तरसहवृत्तिः / एकत्रापि साध्येऽनेकसाधनोपगमात् / नाप्यल्पविषयः, धूमादेस्तथाभावेऽपि हेतुत्वात् / ननु धूमो वह्निमात्रे अप्रयोजक एव, तन्निवृत्तावपि तदनिवृत्तेः / आइँन्धनवन्तं वह्निविशेष प्रति तु प्रयोजकः, तन्निवृत्तौ तस्यैव निवृत्तेरित्येतदप्ययुक्तम् / सामान्याप्रयोजकतायां विशेषसाधकत्वायोगात् तदसिद्धौ तस्यासिद्धिनियमात् / सिद्धौ वा सामान्यविशेषभावानुपपत्तेः / नापि क्लृप्तसामर्थ्यऽन्यस्मिन् कलानीयसामर्थ्योऽप्रयोजकः, नाशे कार्यत्वसावयवत्वयोरपि हेतुभावादिति / 70. कुतः? कार्येति / उपलम्भेन्द्रिययोरिति शेषः / एतेनेपि / परात्मन्यनुपलम्भमात्रस्यासाधकत्वेन हेत्वन्तरस्य चाश्रयासिद्ध्यादिप्रसङ्गेनेत्यर्थः / [78 A] यदि च परमेश्वरविद्वेषान्मीमांसका अपि पाखण्डिपक्षमालम्बनीनाश्चार्वाकमुत्थाप्यास्मान् भीषयितुं प्रवृत्तास्तदा वयवम(वयम)पि तानेवोत्थाप्य तान् भीषयितुं विवदाम [इ]त्याशयवानाह - मीमांसकश्चेति / चार्वाकमतस्वीकार-तिरस्काराभ्याम् भीषणस्तोषण इत्यर्थः / न त्वनुपलम्भमात्राद् निषेधस्वीकारे उपाध्यनुपलम्भेनापि नोपाधिविरहनिश्चयस्तथा सति नानुमानादिव्यवस्थितिरिति भिन्नलोकमर्यादा[मा]ह - यद्येवमिति / उभयत इति / अनुलम्भमात्रस्य निषेधकत्वेऽनिषेधकत्वे चेत्यर्थः / यद्यनुपलम्भ यभावावधारणं तदेश्वराद्यभावावधारणमपि / न चेत तथा तदा नोपाध्यभावनिश्चय इत्यर्थः / चार्वाकप्रागल्भ्यमुपलभ्य नायं पन्था किन्त्वन्य एवेति केचिदित्याह - अत्रेति / चिरन्तननैयायिका एवमुचुरित्यर्थः /