SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 90 * वामध्वजकृता सङ्केतटीका तद्भङ्ग इति / उक्तरूपसम्पत्तिभङ्ग इत्यर्थः / प्रमाणभङ्ग इति / दर्शनादर्शने प्रमाणभङ्ग इत्यर्थः / एतदेव स्पष्टयति - न हीति / पूर्ववदिति / कारणलैङ्गिकानुमानमित्यर्थः / पूर्वं कारणं तद् यस्यास्ति विषयतया परामर्शज्ञानस्य तत् तथा, तथा च कारणैकदेशं दृष्ट्वा कार्यमनुमि[त]त्वात् / वादिनौ नैवं वक्तुमर्हत इत्यर्थः / तन्निवृत्तौ धूमनिवृत्तौ तदनिवृत्तेर्वह्नयनिवृत्तेवढ्यवस्थितेरिति यावत् / तस्यैवेति / आर्टेन्धनववढेरेवेत्यर्थः / ___71. तदेतदपेशलम् / कथं हि विशेषाभावात् कश्चिद् व्यभिचरति, कश्चिच्च नेति शक्यमवगन्तुम् / अतो निर्णायकाभावे सति साहित्यदर्शनमेव शङ्काबीजमिति क्वासौ निर्बीजा / एवं सत्यतिप्रसक्तिरपि चार्वाकनन्दिनो नोपलम्भाय / स्वभावादेव कश्चित् किञ्चिद् व्यभिचरति, कश्चिच्च नेति स्वभाव एव विशेष इति चेत्, केन चिह्नेन पुनरसौ निर्णेय इति निपुणेन भावनीयम् / भूयोदर्शनस्य शतशः प्रवृत्तस्यापि भङ्गदर्शनात् / यत्र भङ्गो न दृश्यते तत्र तत् तथेति चेत् / आपाततो न दृश्यते इति सर्वत्र कालक्रमेणापि न द्रक्ष्यते इति को नियन्तेति / तस्मादुपाधितद्विरहावेव व्यभिचाराव्यभिचारनिबन्धनम्, तदवधारणं चाशक्यमिति / ननु यः सर्वैः प्रमाणैः सर्वदाऽस्मदादिभिर्यद्वत्तया नोपलभ्यते नासौ तद्वान् / यथा बकः श्यामिकया, नोपलभ्यते च वह्नौ धूम उपाधिमत्तयेति शक्यमिति चेत्, न। अस्याप्यनुमानतया तदपेक्षायामनवस्थानात् / 'सर्वादृष्टेश्च सन्देहात् स्वादृष्टेर्व्यभिचारतः' सर्वदेत्यसिद्धेः। तादात्म्यतदुत्पत्तिभ्यां नियम इत्यन्ये / तत्र तादात्म्यं विपक्षे बाधकाद् भवति / तदुत्पत्तिश्च पौर्वापर्येण प्रत्यक्षानुपलम्भाभ्याम् / न ह्येवं सति शङ्कापिशाच्यवकाशमासादयति, अशङ्कयमानकारणभावस्यापि पिशाचादेरेतल्लक्षणाविरोधेनैव तत्त्वनिर्वाहादिति / न / एवमप्युभयगामिनोऽव्यभिचारनिबन्धनस्यैकस्याविवेचनात्, प्रत्येकं चाव्यापकत्वात् / कुतश्च कार्यात्मानौ कारणमात्मानं च न व्यभिचरत इति / अत्रोच्यते - शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् / व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः // 7 // कालान्तरे कदाचिद् व्यभिचरिष्यतीति कालं भाविनमाकलय्य शङ्कयेत तदाकलनं च नानुमानमवधीर्य कस्यचित् / मुहूर्तयामाहोरात्रपक्षमासर्वयनसंवत्सरादयो हि भाविनो भवन्मुहूर्ताद्यनुमेया एव / अनवगतेषु स्मरणस्याप्यनाशङ्कनीयत्वात् / अनाकलने वा, कमाश्रित्य व्यभिचारः शङ्कयेत / तथा च सुतरामनुमानस्तीकारः / / 71. कश्चिदिति दृष्टसाहित्या(योऽ)पीत्यर्थः / [78 B] अत इति / यथाहुश्चार्वाकाः / अवश्यं शङ्कया भाव्यं नियामकमपश्यतामिति / एवमिति / व्यभिचारशङ्कायामपि गमकत्वे सतीत्यर्थः / ननु कार्यकारण[स्वभा]वत एव कश्चिद् व्याप्यो व्यापकश्च कश्चिदित्याशक्य अयं स्वधा(भा)वः कुतोऽवधारणीय इति परिहरति - स्वभावादेवेति / अनन्यगतिकतयोपाधिविरह एवोपायः, न चासाववधारयितुं शक्य इत्युपसंहरति - तस्मादिति / चिरन्तनसमस्तमास्कन्दितं दृष्ट्वा नूतनैरभिहितमुपायमुत्थाप्य निवारयति - नन्विति / अत्र बौद्धोक्तमप्युपायमुपन्यस्य दूषयति - तादात्म्येति / किं तादात्म्यतदुत्पत्ती मिलिते प्रत्येकं वा प्रतिबन्धावधारणे उपाय: / नाद्यः, असिद्धेः / न द्वितीयः, अव्यापकत्वादिति / दूषणान्तरमाह - कुतश्चेति / ततोऽनन्यगतिकतया भवद्भिरपि स्वभाव एवोत्तरीकर्तव्य इति भावः / बौद्धोक्तमपि चार्वाकशङ्काकलङ्कितं न व्यवतिष्ठत इति /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy