SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ 83 * न्यायकुसुमाञ्जलि स्तबकः 3 करणधर्मत्वेन क्रियाक्रमः सङ्गच्छते / अकल्पिते तु तस्मिन्नायं न्यायः / प्रतिपत्तुरकरणत्वात् चक्षुरादीनामनेकत्वादिति चेत् / 65. अथासामेवेति / तथा चेन्द्रियत्वेन चक्षुरादिवद् द्रव्यत्वसिद्धिरित्याशयः / अथवा अनीश्वरसाक्षात्कारिप्रतीतिर्द्रव्यकरणिकेत्यभिमतमिति साक्षात्कारित्वं च ज्ञानत्वावान्तरसामान्य(न्या)त् व्यवस्थापकं वा ज्ञायमानकरणजन्यत्वमिति द्रष्टव्यम् / तत्र चानीश्वरसाक्षात्कारिप्रतीतित्वद्रव्यकरणत्वयोर्वा विपक्षे बाधकाभावात् सहभावमात्रेण व्याप्त्यसिद्धेः / अन्यथा अनित्यत्वं विशेषगुणवत्त्वं च मनसि प्रसह्य(ज्य)ते, ततो ज्ञानक्रियया अनुमितकरणं द्रव्याद्यन्यतमतद्व्यापकं वेति संदिह्यते / तत्र नाद्यो व्यासङ्गकालाकलितप्रत्यर्थनियतोपलम्भक्रमानुपपत्तिप्रसङ्गात् / बुभुत्साविशेषादुपलम्भे क्रम इति चेत् / अत्र च वक्ष्यते - न ह्येष बुभुत्साया इति / द्वितीये शरीरव्यापकं वा / नाद्यः पूर्ववदेव / द्वितीये सक्रियं निष्क्रियं वा ? / क्रियावदपि सावयवमन्यथा वा ? / नाद्यः हेत्वसिद्धिप्राप्तेः / द्वितीये तु लिङ्गग्राहकप्रमाणविरोधः / निष्क्रियत्वे तु साध्यमेव पक्षीकरणे हेतुनामसिद्धिः / तदतिरिक्तानां पक्षीकरणे अन्वाश्रयासिद्धिरिति तात्पर्या(र्यम्) / नियमानुपपत्तिश्चेति / सर्वेषां करणादीनामुपाधित्वे कुतो विशेषान्नियतदेशसुखाद्युत्पत्तिरित्यर्थः / शङ्कते - अथेति / परिहरति तत इति / प्रागुक्तदोष इति / व्यापकत्वे व्यासङ्गप्रत्यर्थनियतबुद्धिक्रमानुपपत्त्यादिरित्यर्थः / [73 A] नन्वदृष्टमाहात्म्यादेवोक्तदोषानवकाश इति यदि तदा तत एव ज्ञानक्रमो भविष्यतीति / मनःसद्भावे न किञ्चित् प्रमाणमस्तीत्याशयेन प्रमाणान्तरमाह - यदि चेति / ननु तत्रादृष्टमाहात्म्यमुपरप्येते(मुपगम्येत) यत्राश्रयासिद्धिः स्यात् / किन्तु तत्सिद्धौ युगपद्विज्ञानकारणसद्भावे ज्ञानयोगपद्यप्रसङ्गं पुरस्कृत्य न ज्ञानक्रमिकत्वप्रमाणबलेन मनःसिद्धौ करणधर्मत्वेन च कार्यक्रम इति मन्वानः शङ्कते - अथेति / ननु मनस्यकल्पितेऽपि प्रतिपत्तृनियमाच्चक्षुरादिकारणनियमाद् व्यापकस्य तत्तदिन्द्रियसम्बन्धात् सिद्धिः विभिन्नदेशोपलभ्यमानसुखदुःखादेरनुपपत्तिश्चेति स्थितेऽभ्युच्चययुक्तिमात्रं निरू(रु)पाधिनेन्द्रियत्वमित्याशयवानाह - तथापीति / बहिनियता(त)देशसंसृष्टश्र(स्र)गादिनियमादेव नियमोपपत्त्ये(त्यै) असमवादायी(वायी)ति एकव[च]नमाह / असमवायिकारणदेशनियमवशेन विभुकार्याणां देशनियमः / किं नाम सुखादिकार्योपार्जनानुकूलसामग्रीशक्तिवा(ो)[प]लभ्यम(मा)नदेशनियमः सुखादीनाम् / रथादिसंयोगेष्वपि स्वजनकसामग्रीशक्तिबलेन नियतदेशाच्च [अ]समवायिकारणसामर्थ्यनान्यथा रथमात्रवृत्तित्वमेव संयोगस्य स्यात् / असमवायिनः कर्मणस्तन्मात्रदेशत्वात् / न तु रथाकाशावृत्तित्वम् / एवं च सति शरीरमात्मन उपाधिरस्तु, शरीरोपहिते [73 B] आत्मनि तत्र तत्र सामग्रीबलेन तेषु तेषु देशेषु सुखादय उत्पत्स्यन्ते / मनस्तु निरुपहितमेवेन्द्रियमस्तु / तथा च कुतो धर्मिग्राहकप्रमाणबाधः / उच्यते - तत्तच्छरीरावयवानाम् इन्द्रियादित्वे कस्यचित् परमाणोर्वा तेषां कार्यक्रमो भविष्यतीत्याशङ्क्य परिहरति - अकल्पिते त्विति / 66. नन्वेवमपि युगपद् ज्ञानानि मा भूवन्, युगपद् ज्ञानं तु केन वार्यते / भवत्येव समूहालम्बनमेकं ज्ञानमिति चेत्, न / एकेन्द्रियग्राह्येष्विव नानेन्द्रियग्राह्येष्वपि प्रसङ्गात् / तेष्वपि भवत्येवेति चेत्, न / व्यासङ्गकाले ज्ञानक्रमेण विवादविषये क्रमानुमानात् / बुभुत्साविशेषेण व्यासङ्गे क्रियाक्रम इति चेत्, मैवम् / न ह्येष बुभुत्साया महिमा यदबुभुत्सिते विषये ज्ञानसामग्यां सत्यामपि न ज्ञानमपि तु न तत्र संस्कारातिशयाधायकः प्रत्ययः स्यात् / यदि त्वबुभुत्सिते विषये सामग्रीमेव सा निरुन्ध्यात्, घटायोन्मीलितं चक्षुः पटं नैव दर्शयेत् तस्माद् बुभुत्सापीन्द्रियान्तरादाकृष्य बुभुत्सितार्थग्राहिणीन्द्रिये मनो निवेशयन्ती युगपज्ज्ञानानुत्पत्तावुपयुज्यते, न स्वरूपतः / विभुनोऽपि मनसो व्यापारक्रमात् क्रम इति
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy