SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 82 * वामध्वजकृता सृङ्केतटीका स्वार्थादिश्चेति। आदिग्रहणाच्छरीरादि / प्रयोगस्तु - ईश्वरो न कर्ता प्रयोजनरहितत्वाद् अशरीरत्वाद् वा मुक्तात्मवदिति / एवं संक्षिप्त[पू]र्वपक्षमुक्तम् / अनुपलब्धिर्बाधिकापि [त]थात्वे तु न प्रतिबन्धिरिति / स्वात्मैवेति / यदि तु स्वात्माऽनुपलब्ध्या निषिध्यत एवेति परोक्षया त्व(त)दा परं प्रति अनिष्टमाह - तथाहीति / ननु यदि योग्यः स्वात्मा किमिति नोपलभ्यत [71 B] ते पृच्छति - कस्येति / उत्तरम् - सामग्रीति / यथा योग्यो घटादि सहकारीन्द्रियसन्निकर्षाद्यु[प]धानादिविरहान्नोपलभ्यते तथा चात्मापि क्षणिकज्ञानाधुपधानसहकारिविरहान्नोपलभ्यत इत्यर्थः / ननु तस्यामवस्थायां ज्ञानमेव कुतो न भवतीत्याशङ्कते - ज्ञानमेवेति / प्रथममजननं पश्चाच्च जननमित्यनक्रमेण / परिहरति - मनस इति / उक्त(क्तं) सर्व(व) समर्थयितं परमतं [च] निराकर्तुमुपन्यस्यति - मनोवैभवेति / विभुत्वं प्रमाणैः परः साधयति - तथाहीति / द्रव्यत्वमात्रं परमाण्वादिभिरनेकान्तः, स्पर्शरहितत्वं च गुणादिभिरित्युभयोपादानम् / तथापि पाकनिक्षिप्तप्रथमक्षणवर्तिघटेनानैकान्त इत्यतः सर्वदेति / आत्मादि[वदि]ति दृष्टान्तो वेदितव्यः / द्वितीये च प्रयोगे पूर्ववद् विशेषणप्रयोजनं व्याख्येयं सर्वदेति चानुषंजनीयम् / [72 A] दिक्कालौ दृष्टान्तः / अनारम्भकं च तद्र्व्यं चेति अनारम्भकद्रव्यम्, तथा चासिद्धिर्मनसः / स्वसंवेत्त(स्वसमवेत)मूर्तामूर्तद्रव्याद्रव्यसंयोगविभागारम्भकत्वादेश्च नानवबोधात् द्रव्यारम्भकद्रव्यत्वादिति विवक्षितत्वात् / एवमपि घटेनानेकान्तः, न हि घटोऽपि स्वसमवेतद्रव्यमारभत इति / तदर्थम् [उक्तम्] - नित्यत्व इति / आकाशादिदृष्टान्तश्च तृतीये, चतुर्थे तु आत्मैव दृष्टान्तः स्पष्टत्वात् [त]दनभिधानम् / दृष्टान्तस्य ग्रन्थः - विवादे दृष्टान्तोऽवश्यं वक्तव्यः अन्यथा न्यूनमवयवादिना भवेदिति रहस्यम् / आदिशब्देन निरवयवेन्द्रियत्वाच्छोत्रवदिति द्रष्टव्यम् / तदेतत् साधनपञ्चकम् / द्रव्यत्वासिद्धौ स्वरूपासिद्धेन, तत्सिद्धौ च लिङ्गग्राहकप्रमाणबाधितत्वेन च निराचष्टे - नेति / स्वरूपासिद्धिं व्युत्पादयति - तथाहीति / अद्रळ व्यस्यापीति। अद्रव्यमपि हि [72 B] लिङ्गज्ञानं वाक्यज्ञानं चानुमितौ वाक्यार्थप्रतीतौ च करणमुपलभ्यते लोक इत्यर्थः / 65. अथासामेव साक्षात्कारितयेन्द्रियत्वेन तदनुमातव्यम् / तथापि व्यापकस्य निरुपाधेर्नेन्द्रियत्वमित्युपाधिर्वक्तव्यः / तत्र यदि कर्णशष्कुलीवन्नियतशरीरावयवस्योपाधित्वं तदा तावन्मात्रे वृत्तिलाभः / तद्दोषे च वृत्तिनिरोधः श्रोत्रवत् प्रसज्येत / ततः शरीरमात्रमुपाधिरवसेयः / तथा च तदवच्छेदेन वृत्तिलाभे शिरसि मे वेदना, पादे मे सुखमित्याद्यव्याप्यवृत्तित्वप्रतीतिविरोधः / असमवायिकारणानुरोधेन विभुकार्याणां प्रादेशिकत्वनियमात् / शरीरतदवयवादिपरमाणुपर्यन्तोपाधिकल्पनायां कल्पनागौरवप्रसङ्गो नियमानुपपत्तिश्चेति ततोऽन्यदेवैकं सूक्ष्ममुपाधित्वेनातीन्द्रियं कल्पनीयम् / तथा च तस्यैवेन्द्रियत्वे स्वाभाविकेऽधिककल्पनायां प्रमाणाभावात् धर्मिग्राहकप्रमाणबाधः / अथ ज्ञानक्रमेणेन्द्रियसहकारितया तदनुमानम्, ततः सुतरां प्रागुक्तदोषः / यदि च मनसो वैभवेऽप्यदृष्टवशात् क्रम उपपाद्येत तदा मनसोऽसिद्धेराश्रयासिद्धिरेव वैभवहेतूनामिति / अथ यत्रादृष्टस्य दृष्टकारणोपहारेणोपयोगः, तत्र तत्पूर्णतायां कार्यमुत्पद्यते एव / अन्यथा अन्त्यतन्तुसंयोगेभ्योऽपि कदाचित् पटो न जायेत, जातोऽपि वा कदाचिन्निर्गुणः स्यात्, बलवता कुलालेन दृढदण्डनुन्नमपि चक्रं न भ्राम्येत / यत्र तु दृष्टानुपहारेणादशव्यापारस्तत्र तदैगण्यात कार्यानदयः / यथा परमाणकर्मणः / तदिहापि यदि विषयेन्द्रियात्मनां समवधानमेव ज्ञानहेतुः, तदा तत्सद्भावे सदैव कार्यं स्यात्, न ह्येतदतिरिक्तमप्यदृष्टस्योपहरणीयमस्ति, न च सदैव ज्ञानोदयः, ततोऽतिरिक्तमपेक्षितव्यम् / तच्च यद्यपि सर्वाण्येवेन्द्रियाणि व्याप्नोति तथापि
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy