SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ तृतीयः स्तबकः // ॐ नमः शिवाय // क्षित्यादौ शशमस्तके च मतिमत्कर्तृत्वशृङ्गत्वयोबर्बाधादेव न सिद्धिरस्ति यदि वा सिद्धिस्ततस्तुल्यता / इत्थं चालितमप्यहो पदयुगं यस्य प्रतिद्वन्द्विभि र्धत्ते निश्चलतामतीव तमहं वन्दे महेशं गुरुम् // 1 // [71 A] 64. नन्वेतदपि कथम्, तत्र बाधकसम्भवात् / तथाहि / यदि स्यादुपलभ्येत / अयोग्यत्वात् सन्नपि नोपलभ्यते इति चेदेवं तर्हि शशशृङ्गमप्ययोग्यत्वान्नोपलभ्यते इति स्यात् / नैतदेवम् / शृङ्गस्य योग्यतयैव व्याप्तत्वादिति चेत् / चेतनस्यापि योग्योपाधिमत्तयैव व्याप्तत्वात् तद्बाधे सोऽपि बाधित एवेति तुल्यम् / व्यापकस्वार्थाद्यनुपलम्भेनाप्यनुमीयते नास्तीति / को हि प्रयोजनमन्तरेण किञ्चित् कुर्यादिति / उच्यते - योग्यादृष्टिः कुतोऽयोग्ये प्रतिबन्धिः कुतस्तराम् / . क्वायोग्यं बाध्यते शृङ्गं क्वानुमानमनाश्रयम् // 1 // स्वात्मैव तावद् योग्यानुपलब्ध्या प्रतिषेद्धं न शक्यते, कुतस्त्वयोग्यः परमात्मा / तथाहि सुषुप्त्यवस्थायामात्मानमनुपलभमानो नास्तीत्यवधारयेत् / कस्यापराधेन पुनर्योग्योऽप्यात्मा तदानीं नोपलभ्यते ? सामग्रीवैगुण्यात् / ज्ञानादिक्षणिकविशेषगुणोपधानो ह्यात्मा गृह्यते इत्यस्य स्वभावः / ज्ञानमेव कुतो न जायते इति चिन्त्यते / पश्चाद् वा कथमुत्पत्स्यते इति चेत्, मनसोऽनिन्द्रियप्रत्यासन्नतयाऽजननात् तत्प्रत्यासत्तौ च पशात् जननात् / मनोवैभववादिनामिदमसंमतम् / तथाहि / मनो विभु, सर्वदा स्पर्शरहितद्रव्यत्वात्, सर्वदा विशेषगुणशून्यद्रव्यत्वात्, नित्यत्वे सत्यनारम्भकद्रव्यत्वात्, ज्ञानासमवायिकारणसंयोगाधारत्वादित्यादेरिति चेत्, न / सर्वेषामापाततः स्वरूपासिद्धत्वात् / तथाहि / यदि रूपाद्युपलब्धीनां क्रियात्वेन करणतया मनोऽनुमितिर्न तदा द्रव्यत्वसिद्धिः / अद्रव्यस्यापि करणत्वात् / 64. एवं द्वितीयां विप्रतिपत्तिं विस्तरतो निरस्य तृतीयां विप्रतिपत्तिं निराकर्तुमुत्थापयति - नन्विति / यत्किञ्चित् ईश्वरे प्रमाणमुच्यते तत् सर्वं बाधितविषयतया न प्रमाणपद्धतिमध्यास्ते / तथा च पदयुगस्य बाधितविषयतया न मननसम्पादकत्वमिति रहस्यम् / तत्रानुपलभ्यमानस्यापि [स] त्त्वमिति मन्यमानः प्रतितर्कमाह - तथा हीति / पराभिप्रायमाशक्य निवारयति - अयोग्यत्वादिति / कर्तृशृङ्गयोरयोग्यतया अनुपलभ्यताबाधकमाशङ्क्य समानत्वमुपदर्श्य [अन्] उपलब्धिबाधमुपसंहरति - शृङ्गस्येति / तदेवं सन्तान(सत्तामात्राव)स्थितानुपलम्भविरोधमाशङ्क्य संप्रति व्यापकानुपलम्भकानुमानविरोधमाशङ्कते - व्यापकस्वेति / व्यापकश्चासौ
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy