Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 74 * वामध्वजकृता सृङ्केतटीका 60. अथ शिष्टाचारत्वात् प्रमाणमूलोऽयमिति चेत् / ततः सिद्धसाधनम् / प्रत्यक्षमूलत्वाभ्युपगमात् / तदसम्भवेऽप्यनुमानसम्भवात् / नित्यमज्ञायमानत्वात् तदप्रत्यायकम्, कथमनुमानम्, कथं च मूलमिति चेत् / वेदः किमज्ञायमानः प्रत्यायकोऽप्रत्यायक एव वा मूलं येन जडतम ! तमाद्रियसे / अनुमितत्वाज्जायमान एव इति चेत् / लिङ्गमप्येवमेवास्तु / अनुमेयप्रतीतेः प्राक्तनी लिङ्गप्रतीतिरपेक्षिता, कारणत्वात्, न तु पश्चात्तनीति चेत् / शब्दप्रतीतिरप्येवमेव / आचारस्वरूपेण शब्दमूलत्वमनुमीयते, तेन तु शब्देन कर्तव्यता प्रतीयते इति चेत्, न / आचारस्वरूपस्य प्रत्यक्षसिद्धत्वेन मूलान्तरानपेक्षणात् / तत्कर्तव्यतायास्तु प्रत्यक्षाभावादप्रमिततया च शब्दानुमानानवकाशात् प्रत्यक्षश्रुतेरसम्भवाच्छिष्टाचारत्वेनैव कर्तव्यतामनुमाय तया मूलशब्दानुमानम्, तथा च किं तेन ? तदर्थस्य प्रागेव सिद्धेः / तथाप्यागममूलत्वेनैव तस्य व्याप्तेरिति चेत् / अत एव तर्हि तस्य प्रत्यक्षानुमानमूलत्वमनुमेयम् / आदिमतस्तत्त्वं स्यादयं त्वनादिरिति चेत् / आचारोऽपि तर्हि प्रथमतस्तथा स्यादयं त्वनादिविनाऽप्यागमं भविष्यति / आचारकर्तव्यतानुमानयोरेवमनादित्वमस्तु किं नश्छिन्नमिति चेत् / प्रथमं तावन्नित्यानुमेयो वेद इति, द्वितीयं च देशनैव धर्मे प्रमाणमिति / अथायमाशयः / वैदिका अप्याचारा राजसूयाश्वमेधादयः समुच्छिद्यमाना दृश्यन्ते, यत इदानीं नानुष्ठीयन्ते, न चैते प्रागपि नानुष्ठिता एव, तदर्थस्य वेदराशेरप्रामाण्यप्रसङ्गात्, समुद्रतरणोपदेशवत् / न चैवमेवास्तु, दर्शाद्युपदेशेन तुल्ययोगक्षेमत्वात् / एवं पुनः स कश्चित् कालो भविता यत्रैते अनुष्ठास्यन्ते, तथाऽन्येऽप्याचाराः समुच्छेत्स्यन्ते अनुष्ठास्यन्ते चेति न विच्छेदः / ततस्तद्वद् आगममूलतेति चेत् / एवं तर्हि प्रवाहादौ लिङ्गाभावे कर्तव्यत्वागमयोरननुमानादसत्यां प्रत्यक्षश्रुतौ आचारसङ्कथाऽपि कथमिति सर्वविप्लवः / तस्मात् प्रत्यक्षश्रुतिरेव मूलमाचारस्य, सा चेदानीं नास्तीति शाखोच्छेदः / / ___60. सामान्येन प्रमाणमूलत्वेऽवगते पक्षधर्मतया वेदस्य सिद्धिर्भविष्यतीत्याशयेन शङ्कते - अथेति / सिद्धसाधनमुक्तं प्रतिपादयति - प्रत्यक्षेति / व्यवहारस्य प्रमाणमूलतामात्रमन्यतमप्रमाणमूलतामात्रमपि निर्वहति / न च यो यावान् व्यवहारः स सर्वः प्रमाणमूल इति व्याप्तिरस्ति भोजनादिव्यवहारेणानेकान्तात् / तथा च प्रत्यक्षसिद्धे वाऽऽचारे प्रत्यक्षमेव मूलमित्येव, तदुपपन्नावपेक्षितप्रमाणमूलता न सिद्धयतीत्याशयः / नन्वाचारस्वरूपे प्रत्यक्षमूलता [65B] संभाव्यते / न तु तस्येष्टसाधनत्व[म्] इत्यत आह - तदसंभवेऽपीति / यथाहि अन्नपानाद्याहारभेदस्य जीवनसाधनत्वे प्रत्यक्षासंभवमप्यनुमानमूलं तथाऽत्रापि भविष्यतीत्यर्थः / ननु सामान्यतो ज्ञानानुमानमस्तीत्यनुमेयम्, न तु विशेषलिङ्गावभासोऽस्ति, विशेषतोऽनिश्चितं च लिङ्गमगमकमतोऽगमकं सन्नैतदनुमानं नापि मूलमित्याशयवान् शङ्कते - नित्यमिति / अज्ञायमानत्वाद्विशेषाकार(रे)णेत्यर्थः / तदप्रत्यायकमाचाराप्रत्यायकम् / विशेषतोऽविनिश्चितस्यैव लिङ्गस्यानिश्चायकत्वादिति भावः / वाक्यमपि हि तद्विशेषाकारेण प्रतिसहितमेवार्थप्रत्यायकं न तु वाक्यत्वमात्रेण प्रतिसहितम् / नित्यानुमेयवेदपक्षे च विशेषाकारेण वेदप्रतिभासो नास्त्यतोऽप्रतिपादकस्य कथं वेदत्वम् ? कथं चानुमेयमिति? परिहरति - वेदः किमिति / अत्रापि विशेषत इति शेषः / सामान्यतस्तु त[ज्] ज्ञानं वेद इवानुमानेऽपि समानमिति भावः / एतदेवाशक्य परिहरति - अनुमितत्वादिति / सामान्येनेत्यर्थः / लिङ्गमपीति / यथाहि सामान्येन ज्ञातो वेदोऽस्य प्रतीति(तिः) तथा लिङ्गमपीत्यर्थः / शङ्कते - अनुमानप्रतीतिरिति / अयमाशयः / आचारस्य हि तत्साधनत्वे कर्तव्यत्वे वाऽनुमानं प्रसाधनीयम् एवं चानुमानविषयादस्मादपूर्वभाविनी लिङ्गप्रतीतिर्वक्तव्या / इह चाचारकर्तव्यताविशेषेणैव
Loading... Page Navigation 1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210