Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 73 * न्यायकुसुमाञ्जलि स्तबकः 2 59. जन्मादिहासप्रतिपादनेन वेदहासदर्शनवशेन श्रूयमाणवेदस्याप्युच्छेदोऽनुमातव्य इति मन्वानो जन्मादिहासमुदाहरणेन स्फुटयति - पूर्वं हीति / समाधायिषतेति सम्यगाहिता इत्यर्थः / सहस्रशाख इत्यादिना वेदहासो दर्शितस्तथा तेन दृष्टान्तेन श्रूयमाणवेदा उच्छेदमुपयास्यन्ति वेदत्वाद् वाक्यत्वाद् वा उच्छिन्नशाखवेदवदिति प्रयोगा द्रष्टव्याः / ऋतं सत्यम्, तद्वृत्तयः / अथवा - ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् / [मृतं तु याचितं] भैक्ष्यं प्रमृतं कर्षणं स्मृतम् / / सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते / सेवा श्ववृत्तिराख्याता [तां तु] परिवर्जयेत् // कुसीदं कलान्तरम् / पाशुपाल्यं गोरक्षादिः / श्ववृत्तिः सेवा / अमृतं देवानां हुतं यज्ञशेषः / विघसः अतिथिभुक्तशेष इति / अघभुज इति / भुञ्जन्ते ते त्वघं पापा: पचन्ति ये स्वकारणात् / चतुष्पादिति / तपोज्ञानमिज्यादानानि चत्वारः पादः / दुरागतं दुष्टादुपायात् स्वबलादन्याक्षोपायादेरागतं धनम् / विपादिका पादरोगः / उक्तमर्थमसहमानो मीमांसकः शङ्कते - इदानीमिति / यथेदानीं दृश्यते तथा पूर्वमग्रे च, न तु पूर्वदृष्टोऽधुनोच्छिन्नस्तथाऽग्रेऽप्युच्छेत्स्यति / तथा च साध्यविकल इत्यभिसन्धि निराकरोति - नेति / [64B] ननु स्मृतेराचारस्य वा किमर्थं वेदमूलत्वमास्थीयत इत्यत आह - स्वातन्त्र्येणेति / ननु तेऽप्यतीन्द्रियार्थद्रष्टारो भविष्यन्तीत्यत आह - मन्वादीनामिति / प्रमाणाभावादित्यनाश्वासादिति भावः / ननु मा भूदेषामतीन्द्रियार्थद्रष्टुत्वे समाश्वासः / भूयोभूयः स्वदृष्टशिष्टाचारपरिचयात् स्मृतिप्रणयनम्, ततः पुनरिदानीं शिष्टाचारपरम्परा भविष्यतीति किमनेनोक्तं(क्ते)न शेषानुमानेनेत्याशङ्क्याप्रमाणमूलतया परिहरति - अन्धपरम्परेति / उभयोरप्यप्रमाणमूलत्वेनाव्यवस्थापकत्वात् / प्राभाकरास्तु नित्यमाचारलिङ्गानुमेयं पठितमेव संसारे सहस्रशाखं वेदमनुमन्यन्ते न त्वपठितमुच्छिन्नशाखम्, तदुत्थाप्य व्याघातेन दूषयति - आसंसारमिति / व्याघातमेव विशदयति - उत्पत्तित इति / तथाहि विविधधर्मवेदनाद् वेदः, ज्ञातस्य च तस्य तद्वेदकत्वम्, ज्ञान(त)[स्य] चोत्पन्नस्य वा यथाऽस्मद्दर्शने, अभिव्यक्तस्य च यथा त्वन्मते, उभयमते वा यथाभिप्रायस्य, उभयं त्रितयमप्यनुपपन्नम्, नानभ्युपगमात् / ततस्त्रिभिरपि प्रकारैरनवच्छेदाद् वर्णमात्रं स्यात् / तच्च कचटतपादिवदनर्थकत्वं(नर्थक) वेदत्वमिति भावः / नन्वस्य नित्यानुमेयस्य मा भूतामुत्पत्त्यभिव्यक्ती, अत एव नाभिप्रायाव्यवच्छेदोऽपि, अनुत्पन्नानभिव्यक्तया(यो)रभिप्रायानारोहात् / तदेभिस्त्रितयैरनवच्छेदो नित्यानुमेयस्य नु [65A] दूषणम् सत्तामात्रं तु शिष्टाचारानुमितकर्तव्यत्वलिङ्गवेद्यमिति किमनेनोक्तेनेत्याह- यदि चेति / गुरुमते हि कर्तव्यताज्ञानं विना न प्रवृत्तिः, तच्च वेदाद् वाऽनुमानाद् वा भवतु न कश्चिद् विशेषः / तथा च शिष्टाचारत्वलिङ्गप्रसूतकार्यताज्ञाने किमवशिष्यते यदर्थं वेदानुमानस्वीकारः / प्रवृत्तेरपि तावतैवोपपत्तेः / न च वेद एव कर्तव्यताधियमादधातीति युक्तम् / तथा सति जले तज्जातीयतया श्रेयःसाधनतामनुमापा(या)पि कर्तव्यताबोधाभावात् प्रवृत्त्यनुपपत्तिप्रसङ्गात् तदर्थस्येतिकर्तव्यताज्ञानात् प्रवृत्तेरित्यर्थः / ननु धर्मवेदकत्वनिबन्धनो वेदव्यवहारः सर्वत्र, त्स(स) च शिष्टाचारत्वादित्यत्र लिङ्गेऽप्यस्ति, ततस्तस्यापि धर्मवेदकत्वेन नित्यानुमेयवेदपदेनाभिधानमित्याशक्य निराकरोति - न चेति / नित्यानुमेयो हि वेदोऽभ्युपगतः / लिङ्गं च प्रत्यक्षम् / धर्मवेदकश्च शब्दः / अतः कथं लिङ्ग(ङ्गेन) नित्यानुमेयो वेदो भविष्यतीत्यर्थः /
Loading... Page Navigation 1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210