Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 79 * न्यायकुसुमाञ्जलि स्तबकः 2 सत्यनवस्थानाद् [69B] अचिरोत्पन्नपदार्थग्रहणप्रसङ्गाच्चेति / अतो मनोयोगादतीन्द्रियार्थज्ञानोपायो भविष्यति ....... स्यादित्यत आह - न चेति / अत्र मनोयोग एव भावनेति च योग इति च / अस्तु तावत् स्वतो हितसाधनत्वमप्यस्तु च कर्मणोऽपि च योगसहाक्य(साहाय्य)त्वेन हि तत्साधनत्वं किन्त्वेतदेवाप्रतीतं न प्रवृत्तौ कल्प्यते / न चाप्रवृत्तौ योगसंभवोऽसंभवे नातीन्द्रियार्थसमुत्पाद इति भावः / ननु प्रतीयते अतीन्द्रियप्रदेशे मनसो योगः, तत्कर्मापि तदनुरूपजीवनमात्रनिमित्तं लोकव्यवहारत एव दृश्यत इत्यर्थः / 63. न चैतयोः स्वरूपेणोपलम्भः क्वचिदुपयुज्यते, भावनासाध्यो वा / न चास्मिन्नन्वयव्यतिरेको सम्भवतः / देहान्तरभोग्यत्वात् फलस्याप्रतीततया तदनुष्ठाने तदभावाच्च / न च कर्तृभोक्तृरूपोभयदेहप्रतिसन्धानादेव तदुपपद्यते / तदभावात् / न तस्य पूर्वकर्मणः फलमिदमनुभवामीति कश्चित् प्रतिसन्धत्ते / केचित् तथा भविष्यन्तीति सम्भावनामात्रेऽप्यनाश्वासात् / विनिगमनायां प्रमाणाभावात् / प्रतिपन्निशीथनिद्राणप्रातःप्रतिबुद्धसमस्तोपाध्यायवदन्योन्यसंवादात् कपिलादिषु समाश्वास इति चेत्, न / एकजन्मप्रतिसन्धानवत् जन्मान्तरप्रतिसन्धाने प्रमाणाभावात् / तथापि च अधिकारिविशेषेण ब्राह्मणत्वाद्यप्रतिसन्धानेऽनुष्ठानरूपस्याश्वासस्याभावात् / न हि पूर्वजन्मनि मातापित्रोर्ब्राह्मण्यात् तदुत्तरत्र ब्राह्मण्यमिति नियमः येन सर्गादौ वर्णादिधर्मव्यवस्था स्यात् / ईश्वरवद् अदृष्टविशेषोपनिबद्धभूतविशेषानुपलम्भात् / अतीन्द्रियार्थदर्शित्वे चानाश्वासस्योक्तत्वात् / एतेन ब्रह्माण्डान्तरसञ्चारिवर्णव्यवस्थया सम्प्रदायप्रवर्तनमपास्तम् / सञ्चारशक्तेरभावात् / वर्षान्तरसञ्चरणमेव हि दुष्करम्, कुतो लोकान्तरसञ्चारः, कुतस्तरां च ब्रह्माण्डान्तरगमनम् / अणिमादिसम्पत्तेरेवमपि स्यादिति चेत्, न / अत्रापि प्रमाणाभावात् सम्भावनामात्रेण समाश्वासानुपपत्तेः / आद्यमहाजनपरिग्रहान्यथानुपपत्तिरेवात्र प्रमाणमिति चेत् / न / एवम्भूतैककल्पनयैवोपपत्तौ भूयः कल्पनायां गौरवप्रसङ्गात् / विदेहनिर्माणशक्तेरणिमादिविभूतेश्चावश्याभ्युपगन्तव्यत्वात् / अस्तु एक एवेति चेत्, न त_श्वरमन्तरेणान्यत्र समाश्वासः / कारं कारमलौकिकाद्भुतमयं मायावशात् संहरन् हारं हारमपीन्द्रजालमिव यः कुर्वन् जगत् क्रीडति / तं देवं निरवग्रहस्फुरदभिध्यानानुभावं भवं / विश्वासैकभुवं शिवं प्रति नमन् भूयासमन्तेष्वपि // 4 // 63. प्रतीतो योगो भाव्यते तस्मात् अतीन्द्रियो भविष्यतीत्यत आह - न चैतयोरिति / हितसाधनत्वज्ञानाद् विप्रतिपत्तिः न तु वस्तुमात्रज्ञानादतिप्रसङ्गादित्यर्थः / ननु यथाऽन्वयव्यतिरेकाभ्यां साधनभावोऽवधार्यते अन्यत्र तथाऽत्रापि तथैव साधनत्वनिश्चयो भविष्यतीत्यत आह - न चास्मिन्निति / कुत इत्यत आह - देहान्तरेति / अपि च प्रवृत्तौ सत्यां कर्मयोगान्वये सति फलदर्शने दृष्टफलत्वे च इष्टसाधनत्वनिश्चयात् प्रवृत्तिरित्याशयवानाह - अप्रतीततयेति / हितसाधनत्वेनेति शेषः / तदभावात् फलाभावादित्यर्थः / देहान्तरोपभोग्यत्वात् फलस्येत्याशङ्कां परिहरति - केचिदिति / शङ्कते - प्रतिपदिति / परिहरति - पक्षेति / यथैकजन्मनि कार्यभेदे प्रतिसन्धिः प्रत्यक्षस्तद्वत् तथा जन्मान्तरप्रतिसन्धिरित्यर्थः / अस्तु वा संवादात् समाश्वासस्तथाप्यन्यत्र निषिद्धाश्वासा वर्णा इति / [70A] त्रैवर्णाचारात् तद्भेदा ब्राह्मण-क्षत्रिय-वैश्यजातयः कथं प्रतिसन्धेयाः / अप्रतिसन्धाने च कथमनुष्ठानाधिकृतकर्तृतायां सर्वशक्तौ समर्थितत्वादित्याह - तथापि चेति / नन्विदानीमिव
Loading... Page Navigation 1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210