SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ 79 * न्यायकुसुमाञ्जलि स्तबकः 2 सत्यनवस्थानाद् [69B] अचिरोत्पन्नपदार्थग्रहणप्रसङ्गाच्चेति / अतो मनोयोगादतीन्द्रियार्थज्ञानोपायो भविष्यति ....... स्यादित्यत आह - न चेति / अत्र मनोयोग एव भावनेति च योग इति च / अस्तु तावत् स्वतो हितसाधनत्वमप्यस्तु च कर्मणोऽपि च योगसहाक्य(साहाय्य)त्वेन हि तत्साधनत्वं किन्त्वेतदेवाप्रतीतं न प्रवृत्तौ कल्प्यते / न चाप्रवृत्तौ योगसंभवोऽसंभवे नातीन्द्रियार्थसमुत्पाद इति भावः / ननु प्रतीयते अतीन्द्रियप्रदेशे मनसो योगः, तत्कर्मापि तदनुरूपजीवनमात्रनिमित्तं लोकव्यवहारत एव दृश्यत इत्यर्थः / 63. न चैतयोः स्वरूपेणोपलम्भः क्वचिदुपयुज्यते, भावनासाध्यो वा / न चास्मिन्नन्वयव्यतिरेको सम्भवतः / देहान्तरभोग्यत्वात् फलस्याप्रतीततया तदनुष्ठाने तदभावाच्च / न च कर्तृभोक्तृरूपोभयदेहप्रतिसन्धानादेव तदुपपद्यते / तदभावात् / न तस्य पूर्वकर्मणः फलमिदमनुभवामीति कश्चित् प्रतिसन्धत्ते / केचित् तथा भविष्यन्तीति सम्भावनामात्रेऽप्यनाश्वासात् / विनिगमनायां प्रमाणाभावात् / प्रतिपन्निशीथनिद्राणप्रातःप्रतिबुद्धसमस्तोपाध्यायवदन्योन्यसंवादात् कपिलादिषु समाश्वास इति चेत्, न / एकजन्मप्रतिसन्धानवत् जन्मान्तरप्रतिसन्धाने प्रमाणाभावात् / तथापि च अधिकारिविशेषेण ब्राह्मणत्वाद्यप्रतिसन्धानेऽनुष्ठानरूपस्याश्वासस्याभावात् / न हि पूर्वजन्मनि मातापित्रोर्ब्राह्मण्यात् तदुत्तरत्र ब्राह्मण्यमिति नियमः येन सर्गादौ वर्णादिधर्मव्यवस्था स्यात् / ईश्वरवद् अदृष्टविशेषोपनिबद्धभूतविशेषानुपलम्भात् / अतीन्द्रियार्थदर्शित्वे चानाश्वासस्योक्तत्वात् / एतेन ब्रह्माण्डान्तरसञ्चारिवर्णव्यवस्थया सम्प्रदायप्रवर्तनमपास्तम् / सञ्चारशक्तेरभावात् / वर्षान्तरसञ्चरणमेव हि दुष्करम्, कुतो लोकान्तरसञ्चारः, कुतस्तरां च ब्रह्माण्डान्तरगमनम् / अणिमादिसम्पत्तेरेवमपि स्यादिति चेत्, न / अत्रापि प्रमाणाभावात् सम्भावनामात्रेण समाश्वासानुपपत्तेः / आद्यमहाजनपरिग्रहान्यथानुपपत्तिरेवात्र प्रमाणमिति चेत् / न / एवम्भूतैककल्पनयैवोपपत्तौ भूयः कल्पनायां गौरवप्रसङ्गात् / विदेहनिर्माणशक्तेरणिमादिविभूतेश्चावश्याभ्युपगन्तव्यत्वात् / अस्तु एक एवेति चेत्, न त_श्वरमन्तरेणान्यत्र समाश्वासः / कारं कारमलौकिकाद्भुतमयं मायावशात् संहरन् हारं हारमपीन्द्रजालमिव यः कुर्वन् जगत् क्रीडति / तं देवं निरवग्रहस्फुरदभिध्यानानुभावं भवं / विश्वासैकभुवं शिवं प्रति नमन् भूयासमन्तेष्वपि // 4 // 63. प्रतीतो योगो भाव्यते तस्मात् अतीन्द्रियो भविष्यतीत्यत आह - न चैतयोरिति / हितसाधनत्वज्ञानाद् विप्रतिपत्तिः न तु वस्तुमात्रज्ञानादतिप्रसङ्गादित्यर्थः / ननु यथाऽन्वयव्यतिरेकाभ्यां साधनभावोऽवधार्यते अन्यत्र तथाऽत्रापि तथैव साधनत्वनिश्चयो भविष्यतीत्यत आह - न चास्मिन्निति / कुत इत्यत आह - देहान्तरेति / अपि च प्रवृत्तौ सत्यां कर्मयोगान्वये सति फलदर्शने दृष्टफलत्वे च इष्टसाधनत्वनिश्चयात् प्रवृत्तिरित्याशयवानाह - अप्रतीततयेति / हितसाधनत्वेनेति शेषः / तदभावात् फलाभावादित्यर्थः / देहान्तरोपभोग्यत्वात् फलस्येत्याशङ्कां परिहरति - केचिदिति / शङ्कते - प्रतिपदिति / परिहरति - पक्षेति / यथैकजन्मनि कार्यभेदे प्रतिसन्धिः प्रत्यक्षस्तद्वत् तथा जन्मान्तरप्रतिसन्धिरित्यर्थः / अस्तु वा संवादात् समाश्वासस्तथाप्यन्यत्र निषिद्धाश्वासा वर्णा इति / [70A] त्रैवर्णाचारात् तद्भेदा ब्राह्मण-क्षत्रिय-वैश्यजातयः कथं प्रतिसन्धेयाः / अप्रतिसन्धाने च कथमनुष्ठानाधिकृतकर्तृतायां सर्वशक्तौ समर्थितत्वादित्याह - तथापि चेति / नन्विदानीमिव
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy