SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 78 * वामध्वजकृता सङ्केतटीका तस्मादेवं विच्छेदसम्भवे कस्य केन परिग्रहो यतः प्रामाण्यं स्यात् / ज्ञापकश्चायमर्थो न कारकः ततः कारकाभावान्निवर्तमानं कार्यं ज्ञापकाभिमतः कथङ्कारमास्थापयेत् / स्यादेतत् सन्तु कपिलादय एव साक्षात्कृतधर्माणः कर्मयोगसिद्धास्ते एव संसाराङ्गारेषु पच्यमानान् प्राणिनः पश्यन्तः परमकारुणिकाः प्रियहितोपदेशेनानुग्रहीष्यन्ति, कृतं परमेश्वरेणानपेक्षितकीटादिसंख्यापरिज्ञानवतेति चेत्, न / तदन्यस्मिन्ननाश्वासात् / तथा ह्यतीन्द्रियार्थदर्शनोपायो भावना इत्यभ्युपगमेऽपि नासौ सत्यमेव साक्षात्कारमुत्पादयति यतः समाश्वसिमः / प्रमाणान्तरसंवादादिति चेत्, न / अहिंसादि हितसाधनमित्यत्र तदभावात् / आगमोऽस्तीति चेत्, न, भावनामात्रमूलत्वेन तस्याप्यनाश्वासविषयत्वात् / एकदेशसंवादेनापि प्रवृत्तिरिति चेत्, न, स्वप्नाख्यानवदन्यथापि सम्भवात् / न चानुपलब्धे भावनाऽपि / चौरसर्पादयो ह्युपलब्धा एव भीरुभिर्भाव्यन्ते / न च कर्मयोगयोहितसाधनत्वं कुतश्चिदुपलब्धम् / 62. महाजनपरिग्रहं प्रश्नपूर्वकमादर्शयति / कः पुनरिति / उभयोरिति / अस्य पूर्वार्धम् - 'अत्यन्तमलिनः कायो देही चात्यन्तनिर्मलः' इति / एवं सर्वस्मिन् समर्थितावान्तरविशेषप्रतिपादनपरतया तत्तद्वादिमतपक्षनिरसनेन इष्टमतं समाध्येयमित्यभिप्रायवांस्तत्तद्वादिपक्षं चात्र संभावयति - स्यादेतदिति / ननु वर्तमानोपाध्यभावेऽप्यतीतानां सूर्यसञ्चरणानामुपाधीनामुपलक्षणत्वं भविष्यतीत्यत आह - असञ्चारेति / कुत इत्याह - सर्वदेति / तथा च प्रलयानन्तरमेव कार्यजन्म स्यादिति विशेषमाशङ्क्य परिहरति - न चेति / स्वमतोपपादकसमाधिमाह - नेति / यथा सुषुप्तौ कर्मणां युगपवृत्तिनिरोधेन श्वाससन्तानानुवृत्तिवशात् कदाचित् प्रबोधस्तथा परमाणूनां कर्मसन्तानानुवृत्तिवशादेव कदाचित् सर्ग इत्यर्थः / प्रचयेति / यावत् प्रचयाख्यः संयोगोऽनवर्तते तावत कर्मसन्तानानवत्तिरित्यर्थः / प्रचयाख्यसंयोगो दयणकारम्भकसंयोगपर्यन्तः / आगमप्रसिद्धिवशेन ब्रह्मवर्षशतपर्यन्तोपाधिरित्याह - कियानसाविति / अथवा प्रकृतब्रह्माण्डव्यतिरिक्तब्रह्माण्डान्तरवृत्तव्यवहारविशेषावच्छिन्नकाले सर्ग इत्याह - ब्रह्माण्डान्तरेति / अनेकब्रह्माण्डानि आगमप्रसिद्धरवसेयानीत्याह - यथेति / [69A] एवं महाजनानां वेदस्य चाभावेनोभयस्याप्यसिद्धेरिति यदुक्तं तत् समर्थितम् / किञ्च, महाजनपरिग्रहस्य प्रामाण्यज्ञापकत्वं न तूत्पादकत्वम् अत: कारणाभावादविद्यमानं कथं ज्ञापयिष्यतीत्याह - ज्ञापकश्चेति / अयमिति महाजनपरिग्रहरूपः / कथंकारं कथंकृत्वेत्यर्थः / एवं निर्दोषवेदद्वारको धर्मसम्प्रदायो भविष्यतीति पक्षं निरस्य योगकर्मसिद्धसर्वज्ञद्वारको वेति पक्षमाशङ्क्यते - स्यादेतदिति / तदेतदनाश्वासेन परिहरति - नेति / अनाश्वासं व्युत्पादयति - तथाहीति / संवादेनाश्वासमाशङ्कते - प्रमाणेति / प्रमाणान्न समाश्वासिम इत्यनुपंजीवीयां / भवेदेवं यदि प्रमाणं स्यान्न त्वस्तीत्याह - नेति / आगमप्रमाणमाशय परिहरति - एकदेशेति / एकदेशेति पूर्वभावनामनङ्गीकृत्योक्तम् / सम्प्रति भावनाऽपि न भवतीत्याह - न चेति / साधनेतिकर्तव्यतायारित्यर्थः / अनुज्ञानं भावयतीति भावनाऽऽत्मन्ये(न्य)तिर(ती)न्द्रिये मनसा संयोगः, तस्य साध्यत्वं साक्षात्कारोत्पादनं दृष्टशिष्टाचारानुष्ठानादिना चेष्टसहकारिवशात् / दृष्टवत् साधनेतिकर्तव्यताप्रत्ययोत्पादेऽपि शक्तिरप्रतिहता / न हि चौरसर्पादिवद् दर्शनपूर्वैवोपलब्धिः सर्वत्र / तथा सत्यदृष्टचराः परमाण्वादयो योगिनां प्रत्यक्षा भवेयुः / यथोक्तम् - चौरसादय इति / न तु भाव्यन्त इति / स्मर्यत इति सिद्धसाधनम् / स्मृतेरनुभवपूर्वकत्वनियमात् / न चैवं तावता योगिनां मनसा इन्द्रियेण वा अपूर्वार्थगोचरं ज्ञानं जनयितव्यम् / अथ गृह्यत इत्यर्थः / तथा 1. भष्टः पाठः /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy