SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ 77 * न्यायकुसुमाञ्जलि स्तबकः 2 सम्प्रदायस्य मीयतामित्युपसंहरति - ततश्चेति / श्रूयमाणा अपि वेदाः सार्थ[म्] उच्छेत्स्यन्ति वेदत्वादाचारानुमितवेदवदिति / न च दिनरात्रिहासैरनेकान्तता पक्षत्वात् / यथोक्तम् - “निष्प्रभेऽस्मिन्निरालोके'त्यादि। एवं तनु-तरु-गिरि-सागरादिप्रवाहविच्छेदो वस्तुत्वादिभ्यः / न च विपक्षे बाधकाभावः कार्यवध्याण्डविनाशेन विनाशाव-श्यंभावनियमप्रसाधनादिति / ननु सिद्ध्यतु वर्तमानप्रवाहोच्छेदो भाविप्रवाह[उच्छेद]स्तु कुतस्त्य इत्यत आह - अन्यथेति / पुनर्देहप्रवाहानुत्पत्ताविह कृतं कर्म विफलं प्रसज्येतेत्यर्थः / विवादाध्यासितं कर्म फलवदचीर्णप्रायश्चित्तकर्मत्वादारब्धदेहकर्मवदिति / विप्रतिपन्नं फलं शरीरादिकारणकं फलत्वात् संप्रतिपन्नफलवदिति प्रयोगो वेदितव्यः / नन्वेवमपि प्रवाहविच्छेदासिद्धौ परतन्त्रपुरुषपूर्वोऽनादिरेवायं सम्प्रदाय इत्यत्र न किञ्चिदनिष्टमित्यत आह - तथा चेति / अत्रापि प्रयोगः - वर्तमानप्रवाह उच्छेदपूर्वक: प्रवाहत्वात्, भाविप्रवाहवदिति / अत्रैव स्मृतिसंवादमाह - स्मरति चेति / धर्मस्येति चोदनालक्षितत्वाद् यागादेः / ग्लानिरुच्छेदः / अधर्मस्येति अचोदनाभिलक्षितत्वात् मण्डलीकरणादेः / अभ्युत्थानमुत्पत्तिः / साधूनामिति त्रयीमार्गा[त्] त्रिवृत्तानाम् / दुष्कृतां त्रयीनिषिद्धाचरणरतानामिति / धर्मसंस्थापनायेति यागादिकर्मनियमायेत्यर्थः / / ____62. कः पुनरयं महाजनपरिग्रहः ? हेतुदर्शनशून्यैर्ग्रहणधारणार्थानुष्ठानादिः, स ह्यत्र न स्याद् ऋते निमित्तम् / न ह्यत्रालस्यादिनिमित्तम् / दुःखमयकर्मप्रधानत्वात् / नाप्यन्यत्र सिद्धप्रामाण्येऽभ्युपायेऽनधिकारेणास्मिन्ननन्यगतिकतयाऽनुप्रवेशः / परैः पूज्यानामप्यत्राप्रवेशात् / नापि भक्ष्यपेयाद्यद्वैतरागः, तद्विभागव्यवस्थापरत्वात् / नापि कुतर्काभ्यासाहितव्यामोहः, आकुमारं प्रवृत्तेः / नापि सम्भवद्विप्रलम्भपाषण्डसंसर्गः, पित्रादिक्रमेण प्रवर्तनात् / नापि योगाभ्यासाभिमानेनाव्यग्रताभिसन्धिः, प्राथमिकस्य कर्मकाण्डे सुतरां व्यग्रत्वात् / नापि जीविका, प्रागुक्तेन न्यायेन दृष्टफलाभावात् / नापि कुहकवञ्चना, प्रकृते तदसम्भवात् / सम्भवन्ति चैते हेतवो बौद्धाद्यागमपरिग्रहे / तथा हि / भूयस्तत्र कर्मलाघवमित्यलसाः / इतः पतितानामप्यनुप्रवेश इत्यनन्यगतिकाः / भक्ष्याद्यनियम इति रागिणः / स्वेच्छया परिग्रह इति कुतर्काभ्यासिनः / पित्रादिक्रमाभावात् प्रवृत्तिरिति पाषण्डसंसर्गिणः / 'उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते' इत्यादिश्रवणादव्यग्रताभिमानिनः / सप्तघटिकाभोजनादिसिद्धेर्जीविकेत्ययोग्याः। आदित्यस्तम्भनम्, पाषाणपाटनम्, शाखाभङ्गः, भूतावेशः, प्रतिमाजल्पनम्, धातुवादः, इत्यादिधन्धनात् कुहकवञ्चिताः / ततस्तान् परिगृह्णन्तीति सम्भाव्यते / अतो न ते महाजनपरिगृहीता इति विभागः / स्यादेतत् / यद्येवं सर्वकर्मणां वृत्तिनिरोधो न किञ्चिदुत्पद्यते, न किञ्चिद् विनश्यति इति स्तिमिताकाशकल्पे जगति कुतो विशेषात् पुनः सर्गः ? प्रकृतिपरिणतेरिति साङ्ख्यानां शोभते / ब्रह्मपरिणतेरिति भास्करगोत्रे युज्यते / वासनापरिपाकादिति सौगतमतमनुधावति / कालविशेषादिति चोपाधिविशेषाभावादयुक्तम् / असतां चोपलक्षणानां न विशेषकत्वम्, सर्वदा तुल्यरूपत्वात् / न च ज्ञानद्वारा / अनित्यस्य तस्य तदानीमभावात् / नित्यस्य च विषयतः स्वरूपतश्च अविशेषादिति चेत्, न / शरीरसंक्षोभश्रमजनितनिद्राणां प्राणिनामायुःपरिपाकक्रमसम्पादनैकप्रयोजनश्वाससन्तानानुवृत्तिवद् महाभूतसंप्लवसंक्षोभलब्धसंस्काराणां परमाणूनां मन्दतरतमादिभावेन कालावच्छेदैकप्रयोजनस्य प्रचयाख्यसंयोगपर्यन्तस्य कर्मसन्तानस्येश्वरनिःश्वसितस्यानुवृत्तेः / कियानसावित्यत्राविरोधादागमप्रसिद्धिमनतिक्रम्य तावन्तमेव कालमित्यनुमन्यते / ब्रह्माण्डान्तरव्यवहारो वा कालोपाधिः / तदवच्छिन्ने काले पुनः सर्गः / यथा खल्वलाबुलतायां विततानि फलानि, तथा परमेश्वरशक्तावनुस्यूतानि सहस्रशोऽण्डानि इति श्रूयते /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy