SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 76 * वामध्वजकृता सृङ्केतटीका कथञ्चिदनुवर्तते / विश्वपरिग्रहाच्च न सहसा सर्वोच्छेद इति युक्तमुत्पश्यामः / गतानुगतिको लोक इत्यप्रामाणिक एवाचारः, न तु शाखोच्छेदः, अनेकशाखागतेतिकर्तव्यतापूरणीयत्वात्, एकस्मिन्नपि कर्मण्यनाश्वासप्रसङ्गादिति चेत् / एवं हि महाजनपरिग्रहस्योपप्लवसम्भवे वेदा अपि गतानुगतिकतयैव लोकैः परिगृह्यन्ते इति न वेदाः प्रमाणं स्युः, तथा च वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः / एतमेव च कालक्रमभाविनमनाश्वासमाशङ्कमानैर्महर्षिभिः प्रतिविहितमतो नोक्तदोषोऽपि, न चायमुच्छेदो ज्ञानक्रमेण येन श्लाघ्यः स्यात्, अपि तु प्रमादमदमानालस्यनास्तिक्यपरिपाकक्रमेण, ततश्चोच्छेदानन्तरं पुनः प्रवाहः, तदनन्तरश्च पुनरुच्छेद इति सारस्वतमिव स्रोतः, अन्यथा कृतहानप्रसङ्गात् / तथा च भाविप्रवाहवद् भवन्नप्ययमुच्छेदपूर्वक इत्यनुमीयते / स्मरति च भगवान् व्यासो गीतासु भगवद्वचनम् यदा यदा हि धर्मस्य ग्लानिर्भवति भारत / अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् // परित्राणाय साधूनां विनाशाय च दुष्कृताम् / / धर्मसंस्थापनार्थाय सम्भवामि युगे युगे // इति // 61. तदेवं नित्यानुमेयवेदपक्षं निराकृत्य विप्रकीर्णशाखवेदपक्षमाशङ्क्य निराकरोति - अधुनापीति / आयुः कालविशेषावच्छिन्नप्राणवायुसम्बन्धः / आरोग्यं रोगाभावः / बलं सामर्थ्यम् / अङ्गप्रत्यङ्गपूर्णता / तथाभूतस्यास्योत्साहो वीर्यम् अनुष्ठानसहत्वमिति यावत् / श्रद्धा आस्तिक्यज्ञानम् / शमः कर्मेन्द्रियनियमः अहिंसा / जिह्वामनसोनियमो दम: कार्यव्रतादिर्वा / 'त्कदि त्पहेतुः(?) प्राचीनप्राचीनसंस्कारो ग्रहणम् / गृहीताविस्मरणहेतुः संस्कारो धारणा / अत्र शङ्कते - गतानुगतिक इति / शाखोच्छेदसम्भावनाया बाधकमाह - अनेकशाखेति / अस्य प्रस्तुतस्य कस्यचित् कर्मणोऽपीतिकर्तव्यतोच्छिन्नशाखां प्रतिपाद्येदानीं न ज्ञायत इत्यसम्पूर्णकर्मकत्वं [67B] फलदातृ भविष्यतीति प्रचूरतरवित्तव्ययायाससाध्ये पारलौकिके कर्मणि कथमेकोऽपि प्रवर्तेतेत्यर्थः / महाजनपरिगृहीतत्वेनास्याच(चा)रस्य न गतानुगतिकता, तथाभूतस्यापि गतानुगतिकत्वे अग्निष्टोमाद्याचाराणामपि तथात्वप्रसक्तौ वेदानामप्रामाण्यप्रसङ्ग इत्याशयवान् परिहरति - वृश्चिकेति / उच्छिन्नशाखवे नानुष्ठानम् / वृश्चिकभिया पलायमानत्वं गतानुगतिकत्वेनाप्रामाणिकत्वम्, तस्याशीविषमुखे निपातः सर्ववेदाप्रामाण्यप्रसङ्गे निपात इत्यर्थः / यत् तु अनेकेत्याधुक्तं तत्र परिहारमाह - एतमेवेति / नोक्तदोषोऽननुष्ठानलक्षण उच्छिन्नशाखार्थस्य स्मतिप्रतिपादितत्वात अदोष इत्यर्थः / अत एव सह-निहितकारणस्मतिमाचारः कार्यतयाऽनुमापयति, तया च श्रुतिकल्पना, तया चाव्यवहितकारणमागममिति / तथा पठन्ति - 'आचारात् स्मृति ज्ञात्वा स्मृतेश्च श्रुतिकल्पनम्'इति / ननु यद्ययमाचार: प्रामाणिक [उच्छिन्न]शाखा तस्य मूलं तदा शाखान्तरवत् तच्छाखाऽप्यन्तेवासिभिर्गृह्येत तथा च नोच्छेदः / स चेन्नुनं समुद्रतरणोपदेशवच्छाखैवाप्रमाणमिति / बुद्धिपूर्वकोच्छित्तिप्रमाणत्वे तु अन्तेवासिभिरभियोगनौ(तो) गृह्यमाणा [68A] कथमुच्छेत्स्यतीत्यत आह - न चेति / शक्तस्य कर्तव्यताऽकरणम्, कर्तव्यताऽकरणे बाधः प्रमादः / मद उन्मत्ततादिना विद्यमानाविद्यमानगुणाध्यारोपेण कस्मादध्येतव्यम् / न हि मत्तः कश्चिद् उत्कर्षवानुपाध्य(ध्या)य इत्यात्मन्युत्कर्षप्रत्ययो मानः। आलस्यं प्रयत्नविरहः / नास्तिक्यं किमपि नास्ति किमपि न सत्यमित्यादिज्ञानम् / तदेवं सिद्धं हासदर्शनतो हासः 1. भष्टः पाठः /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy