________________ 75 * न्यायकुसुमाञ्जलि स्तबकः 2 लिङ्गानुमानम् / तत्र यदि लिङ्गप्रतीति विनैवाचारकर्तव्यतावगम(मा)नुमानं तावल्लिङ्गेऽवगतेऽऽचारकर्तव्यताज्ञानमिति अनुमानम् आचारकर्तव्यताज्ञाने च लिङ्गानुमान[66A]मितीतरेतराश्रयत्वमिति / एतदपि तुल्यतया परिहरति - शब्दप्रतीतिरपीति / आचारकर्तव्यताज्ञानेन शब्दानुमानम्, तेन चाचारकर्तव्यता / यदि च शब्दप्रतीति विना आचारकर्तव्यतावगमस्तदा व्यर्थमनुमानमिति तुल्यमित्यर्थः / ननु न शिष्टाचार[प्र]माणमूलत्वमात्रमनुमीयते येन प्रत्यक्षादिना सिद्धसाधनावकाशः स्यात् किन्तु वेदप्रमाणमूलत्वमेवेत्याशयवान् शङ्कते - आचारस्वरूपेणेति / एतदपि परिहरति - नेति / अयमाशय: - आचारस्वरूपसिद्ध्यर्थं वा वेदानुमानम्, आचारकर्तव्यताबोधार्थं वा अविनाभावमात्रेण वा ? नाद्यः / तत्र प्रत्यक्षस्यैव मूलत्वादित्यत आह - प्रत्यक्षसिद्धत्वेनेति / न द्वितीयः / कर्तव्यतायामप्रतीतायां वेदाननुमानात् प्रतीतायां च तत्प्रतिपादकस्य वेदस्यानुमानशब्दर्थ(मानवैयर्थ्य)मित्याह - तदिति / संछेदमाशङ्कते - तथा च किं तेनेति / न हि दर्शपूर्णमासादिव्यवहारस्यागममूलत्वदर्शनेन सर्वव्यवहारस्य तत्पूर्वकत्वाविनाभावसिद्धिः, सहचारमात्रेण तदभावात्, भावे वा पौरुषेयवाक्यस्येव वैदिकवाक्यस्यापि प्रत्यक्षानुमानमूलविवक्षाधीनवचनरूपत्वप्रसङ्ग इत्याशयवान् परिहरति - अत एवेति / आगमत्वादेव देव(वेद)स्य प्रत्यक्षानुमानमूलत्वमनुमीयतामित्यर्थः / अत्रोपाधिमाह - आदिमत इति / आगमस्येत्यर्थः / तत्त्वमिति प्रत्यक्षानुमानमूलत्वम् / अयं आगम इत्यर्थः / अयं चोपाधिः / प्रत्यक्षादिपूर्वकत्व इवागमपूर्वकत्वेऽपि [66B] साध्यं मन्वानः परिहरति - आचारोऽपीति / आगममूलस्य प्रथममनुमीयमानोऽऽचारः / इदं प्रथम[मागमपूर्वकत्वम्] / पूर्वपूर्वाचारपरम्परोपलम्भमात्राधीनस्तु [आगम: ।]आगममुपलभ्यानुष्ठितोऽनादिस्तत्रेदं प्रथमागमपूर्वकत्वं दृष्टम्, अयं पुनरनादिरागमनिरपेक्षो भविष्यतीत्यर्थः / एवं प्रपञ्चतो नित्यानुमेयवेदपक्षक्षतिमावेद्यं(द्य) स्वसिद्धान्तमपश्यन् वैलक्ष्यविजृम्भिकामिषेण यथाकथञ्चन प्रत्यवतिष्ठते - आचारेति / आचारेण कर्तव्यता, [कर्तव्य]तया चाचारस्तेन पुनः कर्तव्यतेत्यादिचोदना चेत्यत्रापि छिन्नम् इति मन्तव्यम् / अनुमानस्यापि धर्मे प्रमाणत्वाभ्युपगमादिति हृदयम्, ततस्तद्विच्छेदः, तथाप्यागममूलत्वमेव व्याप्तिवशाद् यथा अश्वमेधादयः आचाराः पूर्वमनुष्ठिता अपीदानीमुच्छिन्नास्तथाऽन्येऽप्याचाराः आचारत्वेनैवोच्छेदमेष्यन्ति / एवं वा घूकाद्याचाराणामप्यनादिभावेऽश्वमेधाद्याचारवदागममूलत्वमत्र विधि(धे)यम् / अथवा मा वा नित्यानुमेयो वेद इत्याह - अथायमिति / न चैवमेवेति / न राजसयादिप्रतिपादकस्याप्रामाण्यमेवेत्यर्थः / दर्शति / नित्यनिर्दोषतया चाप्तोक्तत्वेन वाऽप्रामाण्यव्यदासस्योभयत्रापि समानत्वादित्यर्थः / तथाऽन्येऽपीति / अश्र(श्रू)यमाणवेदवाक्या इत्यर्थः / तद्वदिति / राजसूयादिवदित्यर्थः / एजदुक्तं भवति / विवादाध्यासिता आचारा वेदमूलाः, [67A] उच्छेदानन्तरभाविप्रवाहरूपत्वात्, राजसूयाश्वमेधादिवदिति / न प्रत्यक्षादिना सिद्धसाधनम्, नाप्यात्यन्तिक उच्छेद इति / एतदयमपि पराभिमतं दूषयति - एवं तीति / आचारो हि तयोलिङ्गम्, स च विच्छेदानन्तरं मूलाभावादनुपपन्नः / अष्टकाद्याचाराणामुच्छिन्नत्वादाचारस्य लिङ्गस्याभावे तत्कर्तव्यतागमानुमानाभावादसत्यां प्रत्यक्षश्रुतावनुष्ठानमेव न स्यादित्यसिद्धो हेतुरित्यर्थः / परप्रमाणमसिद्धमुक्त्वा स्वप्रमाणनिर्वाहायोपसंहरति - तस्मादिति / 61. अधुनाप्यस्ति सान्यत्रेति चेत्, अत्र कथं नास्ति ? किमुपाध्यायवंशानामन्यत्र गमनात्, तेषामेवोच्छेदाद् वा, आहोस्वित् स्वाध्यायविच्छेदात् / न प्रथमद्वितीयौ / सर्वेषामन्यत्र गमने उच्छेदे वा नियमेन भारतवर्षे शिष्टाचारस्याप्युच्छेदप्रसङ्गात्, तस्याध्येतृसमानकर्तृकत्वात् / अन्यत आगतैराचारप्रवर्तने अध्ययनप्रवर्तनमपि स्यात् / न तृतीयः / आध्यात्मिकशक्तिसम्पन्नानामन्तेवासिनामविच्छेदे तस्यासम्भवात् / तस्मादायुरारोग्यबलवीर्यश्रद्धाशमदमग्रहणधारणादिशक्तेरहरहरपचीयमानत्वात् स्वाध्यायानुष्ठाने शीर्यमाणे