________________ 74 * वामध्वजकृता सृङ्केतटीका 60. अथ शिष्टाचारत्वात् प्रमाणमूलोऽयमिति चेत् / ततः सिद्धसाधनम् / प्रत्यक्षमूलत्वाभ्युपगमात् / तदसम्भवेऽप्यनुमानसम्भवात् / नित्यमज्ञायमानत्वात् तदप्रत्यायकम्, कथमनुमानम्, कथं च मूलमिति चेत् / वेदः किमज्ञायमानः प्रत्यायकोऽप्रत्यायक एव वा मूलं येन जडतम ! तमाद्रियसे / अनुमितत्वाज्जायमान एव इति चेत् / लिङ्गमप्येवमेवास्तु / अनुमेयप्रतीतेः प्राक्तनी लिङ्गप्रतीतिरपेक्षिता, कारणत्वात्, न तु पश्चात्तनीति चेत् / शब्दप्रतीतिरप्येवमेव / आचारस्वरूपेण शब्दमूलत्वमनुमीयते, तेन तु शब्देन कर्तव्यता प्रतीयते इति चेत्, न / आचारस्वरूपस्य प्रत्यक्षसिद्धत्वेन मूलान्तरानपेक्षणात् / तत्कर्तव्यतायास्तु प्रत्यक्षाभावादप्रमिततया च शब्दानुमानानवकाशात् प्रत्यक्षश्रुतेरसम्भवाच्छिष्टाचारत्वेनैव कर्तव्यतामनुमाय तया मूलशब्दानुमानम्, तथा च किं तेन ? तदर्थस्य प्रागेव सिद्धेः / तथाप्यागममूलत्वेनैव तस्य व्याप्तेरिति चेत् / अत एव तर्हि तस्य प्रत्यक्षानुमानमूलत्वमनुमेयम् / आदिमतस्तत्त्वं स्यादयं त्वनादिरिति चेत् / आचारोऽपि तर्हि प्रथमतस्तथा स्यादयं त्वनादिविनाऽप्यागमं भविष्यति / आचारकर्तव्यतानुमानयोरेवमनादित्वमस्तु किं नश्छिन्नमिति चेत् / प्रथमं तावन्नित्यानुमेयो वेद इति, द्वितीयं च देशनैव धर्मे प्रमाणमिति / अथायमाशयः / वैदिका अप्याचारा राजसूयाश्वमेधादयः समुच्छिद्यमाना दृश्यन्ते, यत इदानीं नानुष्ठीयन्ते, न चैते प्रागपि नानुष्ठिता एव, तदर्थस्य वेदराशेरप्रामाण्यप्रसङ्गात्, समुद्रतरणोपदेशवत् / न चैवमेवास्तु, दर्शाद्युपदेशेन तुल्ययोगक्षेमत्वात् / एवं पुनः स कश्चित् कालो भविता यत्रैते अनुष्ठास्यन्ते, तथाऽन्येऽप्याचाराः समुच्छेत्स्यन्ते अनुष्ठास्यन्ते चेति न विच्छेदः / ततस्तद्वद् आगममूलतेति चेत् / एवं तर्हि प्रवाहादौ लिङ्गाभावे कर्तव्यत्वागमयोरननुमानादसत्यां प्रत्यक्षश्रुतौ आचारसङ्कथाऽपि कथमिति सर्वविप्लवः / तस्मात् प्रत्यक्षश्रुतिरेव मूलमाचारस्य, सा चेदानीं नास्तीति शाखोच्छेदः / / ___60. सामान्येन प्रमाणमूलत्वेऽवगते पक्षधर्मतया वेदस्य सिद्धिर्भविष्यतीत्याशयेन शङ्कते - अथेति / सिद्धसाधनमुक्तं प्रतिपादयति - प्रत्यक्षेति / व्यवहारस्य प्रमाणमूलतामात्रमन्यतमप्रमाणमूलतामात्रमपि निर्वहति / न च यो यावान् व्यवहारः स सर्वः प्रमाणमूल इति व्याप्तिरस्ति भोजनादिव्यवहारेणानेकान्तात् / तथा च प्रत्यक्षसिद्धे वाऽऽचारे प्रत्यक्षमेव मूलमित्येव, तदुपपन्नावपेक्षितप्रमाणमूलता न सिद्धयतीत्याशयः / नन्वाचारस्वरूपे प्रत्यक्षमूलता [65B] संभाव्यते / न तु तस्येष्टसाधनत्व[म्] इत्यत आह - तदसंभवेऽपीति / यथाहि अन्नपानाद्याहारभेदस्य जीवनसाधनत्वे प्रत्यक्षासंभवमप्यनुमानमूलं तथाऽत्रापि भविष्यतीत्यर्थः / ननु सामान्यतो ज्ञानानुमानमस्तीत्यनुमेयम्, न तु विशेषलिङ्गावभासोऽस्ति, विशेषतोऽनिश्चितं च लिङ्गमगमकमतोऽगमकं सन्नैतदनुमानं नापि मूलमित्याशयवान् शङ्कते - नित्यमिति / अज्ञायमानत्वाद्विशेषाकार(रे)णेत्यर्थः / तदप्रत्यायकमाचाराप्रत्यायकम् / विशेषतोऽविनिश्चितस्यैव लिङ्गस्यानिश्चायकत्वादिति भावः / वाक्यमपि हि तद्विशेषाकारेण प्रतिसहितमेवार्थप्रत्यायकं न तु वाक्यत्वमात्रेण प्रतिसहितम् / नित्यानुमेयवेदपक्षे च विशेषाकारेण वेदप्रतिभासो नास्त्यतोऽप्रतिपादकस्य कथं वेदत्वम् ? कथं चानुमेयमिति? परिहरति - वेदः किमिति / अत्रापि विशेषत इति शेषः / सामान्यतस्तु त[ज्] ज्ञानं वेद इवानुमानेऽपि समानमिति भावः / एतदेवाशक्य परिहरति - अनुमितत्वादिति / सामान्येनेत्यर्थः / लिङ्गमपीति / यथाहि सामान्येन ज्ञातो वेदोऽस्य प्रतीति(तिः) तथा लिङ्गमपीत्यर्थः / शङ्कते - अनुमानप्रतीतिरिति / अयमाशयः / आचारस्य हि तत्साधनत्वे कर्तव्यत्वे वाऽनुमानं प्रसाधनीयम् एवं चानुमानविषयादस्मादपूर्वभाविनी लिङ्गप्रतीतिर्वक्तव्या / इह चाचारकर्तव्यताविशेषेणैव