Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 23 * न्यायकुसुमाञ्जलिः स्तबकः 1 सिद्धसाधनात् / असतां तेषां कथमुत्पादकत्वमिति चेत्, तदेतदभिमन्त्रणादिष्वपि तुल्यम् / तस्माद् भावभूतमतिशयं जनयन्त एव प्रोक्षणादयः कालान्तरभाविने फलाय कल्पन्ते, प्रमाणतस्तदर्थमुपादीयमानत्वात्, यागकृषिचिकित्सावदिति / अन्यथा कृष्यादयो दुर्घटाः प्रसज्येरन् / बीजादीनामापरमाण्वन्तभङ्गात् तेषु चावान्तरजातेरभावान्नियतजातीयकार्यारम्भानुपपत्तेः / __24. आस्तां [23A] तावत् सहजशक्तिराधेयशक्तिस्तु दुष्परिहरेत्याशयेन शङ्कते - स्यादेतदिति / नत्वेषाऽपि प्रमाणाभावेनानुपपन्नैवेत्यत: प्रमाणमर्थापत्तिमाह - दृश्यते हीति / एतेन संस्कार्यकर्मता दर्शिता / 'व्रीहिन् प्रोक्षति' इत्यत्र कर्मत्वान्यथानुपपत्तिमाह / न च प्रकारान्तरेण कर्मत्वमुपपद्यत इति हृदयम् / कालान्तरे तथाभूतानामुपादानान्यथानुपपत्तिरूपमर्थापत्त्यन्तरं प्रमाणमाह - कथमिति / अनन्तरार्थापत्तेरन्यथोपपत्तिमाशङ्क्य निराकरोति - न चेति / पुनराशङ्क्यानिष्टमाह - नापीति / 'प्रोक्षितैर्वीहिभिर्यजेत' इत्यत्र विशिष्टानामेव व्रीहीणामुपयोगदर्शनात् प्रोक्षणस्य च तावत्कालानवस्थानाद् विशिष्टत्वानुपपत्त्या तज्जनितसंस्कारव[त्]त्वेन विशिष्टत्वमित्यत्र विशेषणपक्षं विहायोपलक्षणतामुपादाय तद्व्यवहारो भविष्यतीत्याशङ्कते - स्यादेतदिति / नात्र व्यवहारमात्रं येन तथाभतेरेव किन्तु कारणत्वं कथं तहर्यपलक्षितत्वव्यवहारो भवेदित्यत आह - व्यवहारमात्रमिति / ननु तज्ज्ञानमपि कथमित्यत आह - तज्ज्ञानमपीति / ननु स्वकारणमपि तदेवेत्यत आह - न त्विति / निरन्वयध्वस्तेन अनुत्पादितव्यापारध्वस्तेनेत्यर्थः / अथवा तत्राप्यतिशयोऽस्त्वस्माकमनिष्टाभावादित्यत आह - अस्त्विति / उपलक्षणपक्षस्वीकारे अपरमप्यनिष्टमित्यत आह - यद्वेति / अत्रादृष्टस्वीकारत्वा[त् तज्]जमनुमानमस्तीत्यभिमान(नं) परस्योत्थापयति - न चेति / स्वगुणाकृष्टा इति / स्वगुणसहकारिण इति साध्यार्थः / स्वगुणोत्पादिता इति वा / आद्ये सिद्धसाधनमित्याह - इच्छेति / द्वितीयमाशय निराचष्टे - नापीति / विशेषणमुपादायाशङ्क्य परिहरति - नापीति / उपलक्षणैज(ज)न्मान्तरज्ञानादित्यर्थः / [23B] अयमभिप्रायो देवतोद्देशेन द्रव्यपरित्यागयन्तो(युक्तो) हि यागः / स्वद्रव्यस्य परस्थत्वापत्ति(प्ति)फलकश्च प्रयत्नो दानार्थः / यागादीनां च धर्मार्जनद्वारेण शरीरजनकत्वं साध्यं तत्र सिध्यति यागादिभिरेव स्वगुणैरू(रु)पलक्षणैः / शरीरादेर्भोगसाधनस्योत्पादना[त्] सिद्धसाधनमिति / असतामुत्पादकत्वं न दृष्टमित्याशङ्कते - असतामिति / प्रकृतेऽपि तुल्यत्वेन परिहरति - तदेतदिति / पूर्वोक्तमर्थं प्रमाणयन्नुपसंहरति - तस्मादिति / ननु कृष्यादयो नैवमित्यत आह - अन्यथेति / 25. अत्रोच्यते - संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः / स्वगुणाः परमाणूनां विशेषाः पाकजादयः // 11 // यथा हि देवताविशेषोद्देशेन हुताशने हविराहुतयः समन्त्राः प्रयुक्ताः पुरुषमभिसंस्कुर्वते, न वह्निं नापि देवताः; तथा व्रीह्याद्युद्देशेन प्रयुज्यमानः प्रोक्षणादिः पुरुषमेव संस्कुरुते, न तम् / यथा च कारीरीजनितसंस्काराधारपुरुषसंयोगाज्जलमुचां सञ्चरणजलक्षरणरूपा क्रिया तथा व्रीह्यादीनां तत्तदुत्तरक्रियाविशेषाः / यथा चैकत्र कर्तृकर्मसाधनवैगुण्यात् फलाभावस्तथा परत्रापि / आगमिकत्वस्योभयत्रापि तुल्यत्वात् / न तर्हि बर्हिष इव व्रीह्यादेः पुनरुपयोगान्तरं स्यात्, उपयोगे वा तज्जातीयान्तरमप्युपादीयेत, अविशेषात् / न / विचित्रा ह्यभिसंस्काराः केचिद् व्याप्रियमाणोद्देश्यसहकारिण एव कार्ये उपयुज्यन्ते /
Loading... Page Navigation 1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210