SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ 23 * न्यायकुसुमाञ्जलिः स्तबकः 1 सिद्धसाधनात् / असतां तेषां कथमुत्पादकत्वमिति चेत्, तदेतदभिमन्त्रणादिष्वपि तुल्यम् / तस्माद् भावभूतमतिशयं जनयन्त एव प्रोक्षणादयः कालान्तरभाविने फलाय कल्पन्ते, प्रमाणतस्तदर्थमुपादीयमानत्वात्, यागकृषिचिकित्सावदिति / अन्यथा कृष्यादयो दुर्घटाः प्रसज्येरन् / बीजादीनामापरमाण्वन्तभङ्गात् तेषु चावान्तरजातेरभावान्नियतजातीयकार्यारम्भानुपपत्तेः / __24. आस्तां [23A] तावत् सहजशक्तिराधेयशक्तिस्तु दुष्परिहरेत्याशयेन शङ्कते - स्यादेतदिति / नत्वेषाऽपि प्रमाणाभावेनानुपपन्नैवेत्यत: प्रमाणमर्थापत्तिमाह - दृश्यते हीति / एतेन संस्कार्यकर्मता दर्शिता / 'व्रीहिन् प्रोक्षति' इत्यत्र कर्मत्वान्यथानुपपत्तिमाह / न च प्रकारान्तरेण कर्मत्वमुपपद्यत इति हृदयम् / कालान्तरे तथाभूतानामुपादानान्यथानुपपत्तिरूपमर्थापत्त्यन्तरं प्रमाणमाह - कथमिति / अनन्तरार्थापत्तेरन्यथोपपत्तिमाशङ्क्य निराकरोति - न चेति / पुनराशङ्क्यानिष्टमाह - नापीति / 'प्रोक्षितैर्वीहिभिर्यजेत' इत्यत्र विशिष्टानामेव व्रीहीणामुपयोगदर्शनात् प्रोक्षणस्य च तावत्कालानवस्थानाद् विशिष्टत्वानुपपत्त्या तज्जनितसंस्कारव[त्]त्वेन विशिष्टत्वमित्यत्र विशेषणपक्षं विहायोपलक्षणतामुपादाय तद्व्यवहारो भविष्यतीत्याशङ्कते - स्यादेतदिति / नात्र व्यवहारमात्रं येन तथाभतेरेव किन्तु कारणत्वं कथं तहर्यपलक्षितत्वव्यवहारो भवेदित्यत आह - व्यवहारमात्रमिति / ननु तज्ज्ञानमपि कथमित्यत आह - तज्ज्ञानमपीति / ननु स्वकारणमपि तदेवेत्यत आह - न त्विति / निरन्वयध्वस्तेन अनुत्पादितव्यापारध्वस्तेनेत्यर्थः / अथवा तत्राप्यतिशयोऽस्त्वस्माकमनिष्टाभावादित्यत आह - अस्त्विति / उपलक्षणपक्षस्वीकारे अपरमप्यनिष्टमित्यत आह - यद्वेति / अत्रादृष्टस्वीकारत्वा[त् तज्]जमनुमानमस्तीत्यभिमान(नं) परस्योत्थापयति - न चेति / स्वगुणाकृष्टा इति / स्वगुणसहकारिण इति साध्यार्थः / स्वगुणोत्पादिता इति वा / आद्ये सिद्धसाधनमित्याह - इच्छेति / द्वितीयमाशय निराचष्टे - नापीति / विशेषणमुपादायाशङ्क्य परिहरति - नापीति / उपलक्षणैज(ज)न्मान्तरज्ञानादित्यर्थः / [23B] अयमभिप्रायो देवतोद्देशेन द्रव्यपरित्यागयन्तो(युक्तो) हि यागः / स्वद्रव्यस्य परस्थत्वापत्ति(प्ति)फलकश्च प्रयत्नो दानार्थः / यागादीनां च धर्मार्जनद्वारेण शरीरजनकत्वं साध्यं तत्र सिध्यति यागादिभिरेव स्वगुणैरू(रु)पलक्षणैः / शरीरादेर्भोगसाधनस्योत्पादना[त्] सिद्धसाधनमिति / असतामुत्पादकत्वं न दृष्टमित्याशङ्कते - असतामिति / प्रकृतेऽपि तुल्यत्वेन परिहरति - तदेतदिति / पूर्वोक्तमर्थं प्रमाणयन्नुपसंहरति - तस्मादिति / ननु कृष्यादयो नैवमित्यत आह - अन्यथेति / 25. अत्रोच्यते - संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः / स्वगुणाः परमाणूनां विशेषाः पाकजादयः // 11 // यथा हि देवताविशेषोद्देशेन हुताशने हविराहुतयः समन्त्राः प्रयुक्ताः पुरुषमभिसंस्कुर्वते, न वह्निं नापि देवताः; तथा व्रीह्याद्युद्देशेन प्रयुज्यमानः प्रोक्षणादिः पुरुषमेव संस्कुरुते, न तम् / यथा च कारीरीजनितसंस्काराधारपुरुषसंयोगाज्जलमुचां सञ्चरणजलक्षरणरूपा क्रिया तथा व्रीह्यादीनां तत्तदुत्तरक्रियाविशेषाः / यथा चैकत्र कर्तृकर्मसाधनवैगुण्यात् फलाभावस्तथा परत्रापि / आगमिकत्वस्योभयत्रापि तुल्यत्वात् / न तर्हि बर्हिष इव व्रीह्यादेः पुनरुपयोगान्तरं स्यात्, उपयोगे वा तज्जातीयान्तरमप्युपादीयेत, अविशेषात् / न / विचित्रा ह्यभिसंस्काराः केचिद् व्याप्रियमाणोद्देश्यसहकारिण एव कार्ये उपयुज्यन्ते /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy