SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 22 * वामध्वजकृता सङ्केत्तटीका तद्धर्मों वा, धर्मान्तरं वा जन्यते, न जन्यते वा किमपि ? इति पक्षाः / तत्राकिञ्चित्करस्य प्रतिबन्धकत्वानुपपत्तेः / विपरीतधर्मान्तरजनने तदभावे सत्येव कार्यमित्यभावस्य कारणत्वस्वीकारः प्रागभावादिविकल्पावकाशश्च / तद्विनाशे तद्धर्मविनाशे वा पुनरुत्तम्भकेन तज्जननेऽनियतहेतुकत्वम्, पूर्वं स्वरूपोत्पादकादिदानीमुत्तम्भकादुत्पत्तेः / न च समानशक्तिकतया तुल्यजातीयत्वान्नैवमिति साम्प्रतम् / विजातीयेषु समानशक्तिनिषेधात् / न च प्रतिबन्धकशक्तिमेवोत्तम्भको विरुणद्धि, न तु भावशक्तिमुत्पादयतीति साम्प्रतम् / तदनुत्पादप्रसङ्गात् / कालविशेषात् तदुत्पादे तदेवानियतहेतुकत्वमिति // 10 // 23. एकदेशिमतं निराकर्तुमुपन्यस्यति - ये त्विति / निराकर[णं] स्पष्टयति - तथाहीति / प्रथमपक्षेऽनुत्पाद्यस्य जन्यत्वविरोधो जन्यत्वे वाऽनुत्पाद्यत्वस्वरूपक्षतिरिति तात्पर्यम् / द्वितीये स च कालश्चेत्यतोऽतिरिक्तस्य प्रमाणस्याभाव इत्यर्थः / न तु कालोपाधिः कालशब्दवाच्यः / तच्च(त्र) मन्त्र(न्त्रः) [किं] का(क)रोतीत्यत आह - तदुपाधिरिति / यद्यपि कालमात्रोपाधिर्मन्त्रमन्तरेणापि भवति तथापि प्रागभावावच्छेदकतदुपाधिर्मन्त्रमपेक्षिष्यत इत्याशङ्कते - प्रागिति / प्रागभावावच्छेदकश्च कालोपाधिश्चेति कर्मधारयः / एतदपि मन्त्रकार्यत्वेन निरस्यति - नेति / मन्त्रात् प्रागिति वदता तदकार्यत्वमुक्तम् / ननु यद्यनादित्वेन कार्याभावस्यानुत्पाद्यत्वं कथं तर्हि लोके कारणाभावात् कार्याभाव इति, निरुक्तिहेतुत्वाभावाच्च कथं पञ्चम्यपीति हृदि निधायोपचारेणोभयमुपसंहरन्] समर्थयात(यति) / अवश्यमेवास्मदुक्तसमाधानमङ्गीकर्तव्यमन्यथा तवापि शक्तिस्वीकारे त्वदुक्तदोषप्रसङ्ग इत्याह - न चेदेवमिति / पूर्वमिति / येनैव हेतुना वस्तुस्वरूपमुत्पादिता(तं) प्राक् तेनैव ततोऽभिन्ना शक्तिरपीत्यर्थः / मीमांसका(क)व्युत्पादितं स्वमतं दाढ्र्येन परिहरति - न चेति / प्रकारान्तरेण परमतमाशङ्क्यानिष्टप्रदर्शनेन निषेधति - न चेति / पुनराशय पूर्वोक्तदोषं स्मारयति - कालेति / 24. स्यादेतत् / मा भूत् सहजशक्तिः, आधेयशक्तिस्तु स्यात् / दृश्यते हि प्रोक्षणादिना व्रीह्यादेरभिसंस्कारः / कथमन्यथा कालान्तरे तादृशानामेव कार्यविशेषोपयोगः / न च मन्त्रादीनेव सहकारिणः प्राप्य ते कार्यकारिण इति साम्प्रतम् / तेषु चिरध्वस्तेष्वपि कार्योत्पादात् / नापि प्रध्वंससहायास्ते तथा। एवं हि यागादिप्रध्वंसा एव स्वर्गादीनुत्पादयन्तु, कृतमपूर्वकल्पनया / तेषामनन्तत्वादनन्तफलप्रवाहः प्रसज्यत इति चेत्, अपूर्वेऽपि कल्पिते तावानेव फलप्रवाह इति कुतः। अपूर्वस्वाभाव्यादिति चेत् तुल्यमिदमिहापि / तावतापि तत्प्रध्वंसो न विनश्यतीति विशेषः / स्यादेतत् / उपलक्षणं प्रोक्षणादयः, न तु विशेषणम् / तथा चाविद्यमानैरपि तैरुपलक्षिता व्रीह्यादयस्तत्र तत्रोपयोक्ष्यन्ते यथा गुरुणा टीका कुरुणा क्षेत्रमिति चेत्, तदसत् / न हि स्वरूपव्यापारयोरभावेऽपि उपलक्षणस्य कारणत्वं कश्चिदिच्छति, अतिप्रसङ्गात् / व्यवहारमात्रं तु तज्ज्ञानसाध्यम्, न तु तत्साध्यम् / तज्ज्ञानमपि स्वकारणाधीनम्, न तु तेन निरन्वयध्वस्तेन जन्यते / अस्तु वा तत्राप्यतिशयकल्पना किं नश्छिन्नम् / यद्वा यागादेरप्युपलक्षणत्वमस्तु तदुपलक्षितः कालो यज्वा वा स्वर्गादि साधयिष्यति, कृतमपूर्वेण / न च देवदत्तस्य स्वगुणाऽऽकृष्टाः शरीरादयो भोगाय, तद्भोगसाधनत्वात्, स्त्रगादिवदित्यन्वयिबलादपूर्वसिद्धे विशेष इति साम्प्रतम् / इच्छाप्रयत्नज्ञानैर्यथायोगं सिद्धसाधनात् / न च तद्रहितानामपि भोग इति युक्तिमत् येन ततोऽप्यधिकं सिद्धयेत् / नापि स्वगुणोत्पादिता इति साध्यार्थः, मनसाऽनैकान्तिकत्वात् / नापि कार्यत्वे सतीति विशेषणीयो हेतुः, तथासत्युपलक्षणैरेव
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy