________________ 21 * न्यायकुसुमाञ्जलिः स्तबकः 1 यत्रान्वयव्यतिरेकाभ्यां कारणत्वावसायस्तत्र का गतिः / [21B] तथाहि - बीजे सत्यङ्करो जायते तद्विरहे न जायते इत्यत्र यदि बीजप्रागभावो बीज[वि]रहो विवक्षितस्तदा बीजप्रध्वंसेऽपि जायेत, अथ बीजप्रध्वंसस्तदा बीजप्रागभावेऽपि भवेत् / अथ बीजात्यन्ताभावस्तदा बीजप्राग्भाव(गभाव)-प्रध्वंसयोरन्यतरसद्भावेऽपि स्यात् कार्यम् / न चैतद् दृष्टमिष्टं वा / अथ बीजाभावमात्रम् / तदा बीजान्योन्याभावेऽप्यङ्करोत्पत्तिर्न स्यात् / तदवश्यमिहानिच्छताऽपि बीजाभावानामन्योन्याभावव्यावृत्तसंसर्गाभावत्वमेकमनुसरणीयम् / तथा च नान्योन्याभावेनातिप्रसङ्ग इति भावः / तथा च प्रयोगः - प्रतिबन्धकाभावः कारणमन्वयव्यतिरेकित्वाद् भवेदिति तात्पर्य[म्] / न च वाच्यं मणिमन्त्राद्यभार्य(व)स्य न तावत् स्वरूपेण जनकत्वं किन्तु प्रतिपक्षाभावत्वेन / तत्र प्रतिपक्षत्वे निश्चिते तदभावत्वेन कारणत्वं निश्चयम्, अभावस्य कारणत्वे निश्चिते सहकारिविरहरूपत्वेन मन्त्रादिप्रतिपक्षतानिरूपणमित्यन्योन्याश्रयदोषान्न प्रतिपक्षाभावस्य कारणत्वं निश्चीयत इति; यतो मन्त्रादिसन्निधेः कार्यादर्शननियमे प्रतिपक्षत्वमुन्नीयते, न तु सहकारिविरहत्वेन / तदभावेऽस्य मन्त्राद्यभावत्वेन वा रूपेणान्वयव्यतिरेकाभ्यां कारणत्वं विनिश्चीयते / किञ्च, अन्योन्याश्रये सति कारणत्वानिश्चयोऽस्तु न त्वकारणत्वनिश्चयः; तथा च कारणतासंदेहेऽप्यन्यथोपपत्तिरेवेति सर्वं सुस्थम् / जातिरेवोपसङ्ग्राहिका न तूपाधिरिति मन्वानः शङ्कते - तथापीति / जातिवदुपाधिरपि क्वचित् सङ्ग्राहकः [22A] कथमन्यथोपाधिमव्यवहार इत्याशयवान् परिहरति - मा भूदिति / अन्वयव्यभिचार[म]पाकर्तुं विशेषाभिधानाभिमानिनमुत्थाप्यातिदेशेन निराकरोति - एतेनेति / अतिदेशमेव विवरणव्याजेन विशदयति - तथाहीति / तज्जातीये बीजजातीये तद्भावेऽपि बीजभावेऽपि तज्जातीयान्तराभावात् तज्जातीयान्तराणामभाव(वा)त् न भवितव्यं कार्येणेति / यथेदमसङ्गतं तथैतदप्यशोभनमिति / उभयत्र हेतुमाह - अनुकूलवदिति / अनुकूले बीजसद्भावे सति यथा तज्जातीयाभावो न तस्य कार्यं निषेधति तथा प्रतिकूलेऽपि कस्मिंश्चित् प्रतिबन्धके सति प्रतिबन्धाकान्तारा(प्रतिबन्धकान्तरा) भावोऽपि न कार्याभावमपनयति / अकिञ्चित्करत्वं निषेधविध्योरिति द्रष्टव्यम् / प्रतिबन्धकत्वान्यथानुपपत्तिप्रसूतामर्थापत्तिमपाका पूर्वोक्तमुपन्यस्यति - यत्त्विति / किं प्रतिबन्ध एव प्रतिबन्धकस्तस्य किञ्चित्करत्वमथ प्रतिबन्धकारकः प्रतिबन्धकस्तस्य वा ? न तावदाद्यः, अनवस्थानात् प्रतिबन्धककर्तृत्वप्रसङ्गाच्च / द्वितीयस्त्विष्यत एवास्माभिरित्याशयवानाह - तदप्यसत् इति / अपि पूर्वार्थापत्तिसमुच्चये उभयसिद्धं निर्वचनमाह - सामग्रीति / मुख्य इति / प्रतिबन्धकस्य प्रतिबन्धकर्तृत्वोपाधित्वेन प्रतिबन्धवदस्य कारणं कारणविगमार्थत्वादित्यर्थः / यदि शक्तिरपनीयते तदापि सामग्र्यन्तर्गतकारणविगमः / अथाभावो निराक्रियते तथापि तदन्तर्गतकारणोपचय इति सामान्येनोभयसिद्धम् / अतोऽभावकारणत्वे सिद्धे स्वमते विशेषमाह - स चेति / न च वाच्यं यः प्रतिबन्धकः स भावरूपापचयकारीति / यः प्रतिबन्धकः स [22B] दृश्यरूपापचयकारीत्यपि वक्तुं सुकरत्वान्न चैवमेवेति वाच्यम् / शक्तेरनपचयप्राप्तेः / तस्माई(दर्ज)नमात्रमनावृत्य सामान्यपुरस्कारेणैव प्रवर्तितव्यमित्यन्यथोप[प]त्तिरिति भावः / ___23. ये तु व्युत्पादयन्ति कार्यानुत्पाद एव प्रतिबन्ध इति तैः प्रतिबन्धमकुर्वन्त एव प्रतिबन्धका इत्युक्तं भवति / तथाहि कार्यस्यानुत्पादः प्रागभावो वा स्यात्, तस्य कालान्तरप्राप्तिर्वा ? न पूर्वः तस्यानुत्पाद्यत्वात् / न द्वितीयः कालस्य स्वरूपतोऽभेदात् / तदुपाधेस्तु मन्त्रमन्तरेणापि स्वकारणाधीनत्वात् / प्रागभावावच्छेदककालोपाधिस्तदपेक्ष इति चेत्, न, मन्त्रात् पूर्वमपि तस्य भावात् / तस्मात् सामग्रीतत्कार्ययोः पौर्वापर्यनियमात् तदभावयोरपि पूर्वापरभाव उपचर्यते / वस्तुतस्तु तुल्यकालत्वमेवेति नायं पन्थाः / न चेदेवम्, शक्तिस्वीकारेऽपि कः प्रतीकारः / तथाहि प्रतिबन्धकेन शक्तिर्वा विनाश्यते