SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 20 * वामध्वजकृता सङ्केत्तटीका पुरुषाभाव इति / कैवल्यं दण्डाभावः, तद्युक्तः केवलः, तस्याभावः / दण्डमात्रोभयसद्भावेषूभयविशेषणविशेष्याभावैः केवलपुरुषाभावोऽविशिष्टः / यथेति दृष्टान्तं व्याख्याय प्रकृतमपि तुल्यतया व्याचष्टे तथेति / अत्र च कैवल्यमुत्तेजकाभावः, तद्युक्त: केवलः, स चासौ प्रतिबन्धकश्च, तस्याभावः / केवलोत्तम्भकसद्भाव-प्रतिबन्धकोत्तम्भकसद्भाव-द्वयाभावेषूभयविशेषणविशेष्यभावैरविशिष्ट इत्यर्थः / उक्तमर्थमबुध्यमानाः केचिद् नैयायिका यदूचिरे तदाशङ्कते - अथैवम्भूतेति / पर[स्प]रव्यभिचारिणामन्वयव्यतिरेकयोरशक्यग्रहत्वेनाकारणत्वादित्यभिप्रायवान् परिहरति - कार्यस्येति / तृणारणिन्यायं हृदि निधाय निराकरोति - जातीति / ननु यथा तत्र जातिस्वीकारस्तथाऽत्रापि भविष्यति गत्यन्तराभावादित्यत आह - यथोक्तेनैवेति / नन्विमं विशेषमजानानाः कथं परिहरिष्यन्तीति मन्यमानं प्रत्येकदेशिमतस्वीकारेऽपि नास्माकं दर्शनक्षतिरिति सुगमसमाधिमाह - भावे वेति / सामान्यव्यभिचारमपाकृत्य विशेषव्यभिचारविशेषानभ्युपगमैकस्वीकाराभ्यामपाकरोति - प्रागिति / एकरूपमुपदर्शयन्नेवाभाव[21A]मात्रकारणपक्षदोषमुन्मूलयति - यस्मिनिति / केवलप्रतिबन्धके संसर्गिणि तस्मिंस्तथाभूते असत्येवेति / अत्रैकरूपमुपाधिमाह - संसर्गेति / संसृज्यमानमन्त्राद्यभावत्वेन त्रयाणामुपसङ्ग्रह इत्यर्थः / तथाहि - न तावदत्र मन्त्रादिप्रयोगमात्रं प्रतिबन्धकम् / तस्मिन् सति त्रैलोक्यवर्तिवह्निप्रतिबन्धे क्वचिदपि कार्यं न भवेत्, न त्वेवं दृष्टमिष्टं वा / तस्माद् यो मन्त्रादिर्याव[द् व] हिव्यक्तिमुद्दिश्य प्रयुक्तः स तस्या एव व्यक्ते: कार्य निवारयति, तेन जानीमः संसृज्यमानमन्त्रादौ कार्यानुपपत्तिस्तद्भावे तूत्पत्तिरित्यतो नोक्तदोषावकाशः / केचित् तक्तमर्थमविद्वांसः संसर्गाभावेऽपि संसर्गप्रध्वंसादिविकल्पान कत्वा अनियतहेतकत्वं तत्रापि संसर्गाभावस्वीकारेऽनवस्थेति वर्णयन्ति / तदसत् / उक्तो ह्यत्र संसृज्यमानाभाव: कारणं न तु संसर्गाभावः, तत् कुतो विकल्पावकाशः कुतश्चानवस्थेति / न हि संसर्ग[:] प्रतिबन्धकः किन्तु संसृष्टो मन्त्रादिः / तथाहि - लोके क्वचित् संसर्गितया प्रतियोगी निषिध्यते 'तथेदमिह नास्ति' इति क्वचित्तु 'त(ता)दात्म्येन इदमिदं न भवति' इति / तत्र यः संसर्गितापन्नेन प्रतियोगिमान्] निरूप्यते संसर्गाभावः, तस्य च कारणत्वमिष्टमस्माभिः / अन्योन्याभावः व्यतिरिक्ताभावत्वं वा संसर्गाभावत्वमिति / न त्वेतत् सर्वं वयं नाधिगक्व(च्छा)म इति / / 22. यस्तु संसर्गाभावतादात्म्यनिषेधयोर्विशेषमनाकलयन्नितरेतराभावेन प्रत्यवतिष्ठते स प्रतिबोधनीयः / तथाप्यभावेषु जातेरभावात् कथं त्रयाणामुपग्रहः स्यात्, अनुपगृहीतानां च कथं कारणत्वावधारणमिति चेत / मा भज्जातिः / न हि तदपगहीतानामेव व्यवहाराङ्गत्वम / सर्वत्रोपाधिमद्वयवहारविलोपप्रसङ्गात् / एतेन प्रतिबन्धके सत्यपि तज्जातीयान्यस्याभावसम्भवात् कार्योत्पादपसङ्गोऽनुत्पादे वा ततोऽप्यधिकं किञ्चिदपेक्षणीयमस्तीति निरस्तम् / यथा हि तज्जातीये सति कार्य जायते अर्थादसति न जायत इति स्थिते तद्भावेऽपि तज्जातीयान्तराभावान्न भवितव्यं कार्येणेति न, तथैतदपि / अनुकूलवत् प्रतिकूलेऽपि सति तज्जातीयान्तराभावानामकिञ्चित्करत्वादिति / यत्त्वकिञ्चित्करस्येति / तदप्यसत् / सामग्रीवैकल्यं प्रतिबन्धपदार्थो मुख्यः, स चात्र मन्त्रादिरेव, न त्वसौं प्रतिबन्धकः / ततः किं तस्याकिञ्चित्करत्वेन / तत्प्रयोक्तारस्तु प्रतिबन्धारः / ते च किञ्चित्करा एवेति किमसमञ्जसम् / 22. पादप्रसारिकयाऽवतिष्ठमानस्य किञ्चिद् वक्तव्यमेवेत्यत आह - यस्त्विति / स प्रतिबोधनीयः / तादात्म्याभावविलक्षणसंसर्गाभावत्वव्युत्पादनेन त्वयाऽप्यभावचतुष्टयवादिषु त्रिष्वेकसंसर्गाभावत्वमङ्गीकर्तव्यम् अन्यथा
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy