________________ 19 * न्यायकुसुमाञ्जलिः स्तबकः 1 20. विवृणोति - न हीति / नन्वभावो न कारणम्, तुच्छत्वादिति प्रमाणमुक्तमिति चेत् / नालीकत्वस्यासिद्धत्वाद् भावनिषेधत्वस्याप्रयोजकत्वात् / अन्वयव्यतिरेकरहितत्वस्योपाधेविद्यमानत्वात् / प्राभाकर प्रति तु प्रतिबन्धकाभाववद् व्यवहारगोचरसामग्र्या अकारणत्वमिति द्रष्टव्यम् / न चान्यनिषेधरूपत्वेनैवाकारणत्वमनैकान्तिकत्वादित्याशयवानाह - न हीति / स्वमतदाढ्यन शङ्कते - कारणत्वस्येति / न भावत्वस्य कारणव्यापकत्वमस्यासिद्धं लोकसिद्धं वेत्याशयवानाह - नेति / लोकसिद्धातिक्रम उच्यते / [अति] क्रममनिष्टमाह - परिवर्तेति / ननु न भावत्वमभावत्वं [वा] कारणत्वव्यापकं येन तन्निवृत्तावेव तत्व(स्य) निवृत्तिः / किं तर्हि ? नियतपूर्वकालभाविन एव कारणत्वं लोकसिद्धम्, तच्च भावस्यास्ति न त्वभावस्येति मन्यमानं प्रत्यभावस्यापि तदस्तीत्याह - अन्वयेति / भावसन्निधिः(धि)कारणत्वेनाभावसन्निधिस्त्ववर्जनीय आकाशसन्निधिवदिति मन्यमानः शङ्कते - अभावस्येति / न तु नित्यविभुत्वाभ्यामवर्जनीय: सन्निधिः, न च ते स्त: अभावस्य / तत्कथं तथात्वे सत्यप्यवर्जनीयत्वे भावस्याप्यवर्जनीयत्वमित्यभिप्रायेण परिहरति - तुल्यमिति / विरोधिप्रोत्सारणप्रयुक्तः [20A] सन्निधिर्न कारणत्वे व्यवतिष्ठत इति मन्यमानः शङ्कते - प्रतियोगिनमिति / भावसन्निधिरपि स्वभावप्रोत्सारणतया न कारणत्वे व्यवतिष्ठते इत्याशयवानाह - तुल्यमिति / अथ भावस्याभावनिवृत्तिरूपत्वेन नाभावोत्सारकत्वमभेदात् तदाभावस्यापि भावनिवृत्तिरूपत्वेन [न] भावोत्सारकत्वमित्याशयकोत्तराभ्यामाह - भावस्येति / उक्तमर्थमुपसंहरति - तस्मादिति / नियमोऽनुपपन्न: प्रमाणबाधितत्वादेवमपरोऽपि नियमोऽनुपपन्न इत्यर्थः / युगपद् मन्त्रपाठे व्यतिरेकव्यभिचारमपाकरोति - प्रतिबन्धकेति / तत्रापि प्रतिबन्धकाभावो न तु तत्सद्भाव इति कुतो व्यभिचार इति भावः / ननु प्रतिबन्धकोत्तम्भकप्रयोगे कथमभावः प्रतिबन्धकस्ये[त्या]ह - यस्त्विति / कार्यविरहोन्नेया हि प्रतिपक्षता कथं तदभावेऽस्तीत्यभयसम्मतमिति भावः / नन प्रतिबन्धकोत्तम्भकप्रयोगविशेषप्रतिबन्धको मन्त्रे सत्येवोत्तम्भकमन्त्राभावस्य विशेषणस्व[भा]वो युगपन्मन्त्रपाठेन विशिष्टः / तथा च क्वचित् क्वचिदुभयभावाभावाभ्यां सामग्रीभेद इत्याशयवान् शङ्कते - तथापीति / नात्रोभयसत्त्वासत्त्वयोर्दाहकारणत्वं येन सामग्रीभेदो भवेत्, किन्तु केवलस्तम्भकाभावस्य, स च सर्वत्रास्ति / तेनैव च रूपेण कारणत्वमतो नोक्तदोष इत्याशयवान् परिहरति - विशेषणविशेष्यमात्रसत्त्वे उभयासन्धेर(सत्त्वे च) विशिष्टस्याप्यभावस्तथा केवलस्तम्भकाभावत्वस्य सर्वत्राव्यभिचारात् कारणत्वमिति भावः / ननु विशिष्टमुभयस्वरूपम् [20B]... भावः शक्यो वक्तुमिति वादिनं लोकसिद्धदृष्टान्तेन प्रतिबोधयन्नाह - न हीति / 'हि'शब्दो यस्मादर्थो यतो लोकसिद्धमतोऽभ्युपगन्तव्यमेव विरोधाभावादिति समुदायार्थः / दण्डिनि दण्डयुक्ते अदण्डानां दण्डाभाव[व]तां नाभाव इति न, किन्तु अभाव एवेति / ननु दण्डाभावस्यैवाभाव इति लोकसिद्धमवर्जनीयमित्यक्षरार्थः / ___21. यथा हि केवलदण्डसद्भाव उभयसद्भावे द्वयाभावे वा केवलपुरुषाभावः सर्वत्राविशिष्टः तथा केवलोत्तम्भकसद्भावे प्रतिबन्धकोत्तम्भकसद्भावे द्वयाभावे वा केवलप्रतिबन्धकाभावोऽविशिष्ट इत्यवधार्यताम् / अथैवंभूतसामग्रीत्रयमेव किं नेष्यते ? कार्यस्य तद्वयभिचारात् जातिभेदकल्पनायां च प्रमाणाभावात् / यथोक्तेनैवोपपत्तेः / भावे वा काममसावस्तु, का नो हानिः / प्राक्प्रध्वंसविकल्पोऽपि नानियतहेतुकत्वापादकः, यस्मिन् सति कार्यं न जायते तस्मिन्नसत्येव जायत इत्यत्र संसर्गाभावमात्रस्यैव प्रयोजकत्वात् / 21. पूर्वोक्तं समस्तं शिष्यहिततया दृष्टान्तदाान्तिकव्याख्यानेन विशदयति - यथाहीति / केवल