________________ 18. वामध्वजकता सडेतटीका 19. नन्वेतावताऽपि न पुरुषाश्रितातीन्द्रियसिद्धिर्भूतेष्वप्यतीन्द्रियधर्मस्वीकारवशेन प्रकृतापूर्वस्वीकारसंभवव्याजेनातीन्द्रियशक्तिवादं मीमांसकाभिमत...ति - सिध्यत्विति / तत्र कार्यान्यथानुपपत्तिरूपामर्थापत्ति प्रमाणयति - तथाहीति / दृष्टादृष्टयोरन्यतरवैगुण्येनान्यथोपपत्तिं हृदि निधाय निराकरोति - तत्रेति / उभयवादिसिद्धप्रतिबन्धकाभावेनान्यथा(थो)पपत्तिभ्रमं निवारयति - न चेति / अकारणत्वमेव कुत इत्यत आह - तुच्छो हीति / तुच्छत्वं हि विधिरूपविरहितत्वमन्वयव्यतिरेकरहितत्वं वा / न त्वप्र(प्रा)माणिकत्वमिति मन्तव्यम् / व्यतिरेकव्यभिचारमाह - प्रतिबन्धकेति / अन्वयव्यभिचारत्त्व(स्त्वे)कप्रतिबन्धकसम्भवे प्रतिबन्धकान्तराभावेऽपि कार्यानुपपत्तेर्बोद्धव्यः / [19A] सामान्येन व्यतिरेकव्यभिचारं प्रतिपाद्य विशेषतोऽपि व्यभिचारमाह - प्रागिति / प्राक्प्रध्वंसाद्यभावानां परस्परव्यभिचारचमत्कारवशेन कारणत्वनिश्चयोपायवैधुर्येणाकारणत्वनिश्चयात् कथं तेनान्यथोपपत्तिरित्यर्थः / न च तेषां भेदेऽप्येकोपाध्युपगृहीतानां कारणत्वनिश्चयो भविष्यतीति वाच्यमेकोपाधेरसंभवादिति भावः / अस्ति त(ता)वदुभयमतसिद्धं प्रतिबन्धकत्वम् / तच्च दृश्यमानसमस्तपदार्थापचयविरहेणानुपपद्यमानमदृश्यरूपापचयं करोतीत्यवर्जनीयमित्याशयवान् प्रतिबन्धकत्वान्यथानुपपत्तिरूपामर्थापत्तिमाह - अकिञ्चिदिति / प्रतिबन्धकाभावमात्रकारणवादिनं प्रत्यपरमपि दूषणमाह - मन्त्रादीति / अर्थापत्तिमन्यथोपपत्त्या निराकृत्याभिमतसाध्यमाह - अतीन्द्रियमिति / द्वितीयामर्थापत्तिमुपसंहरति - यस्येति / प्रथमामुपसंहरति - यस्मिन्निति / तृणारणिमणीनां कारणत्वमुभयाभिमतमनुपपद्यमानमतीन्द्रियं सामर्थ्यमावेदयतीति प्रदेशान्तरसिद्धमुपसंहरति - यस्येति / उपदर्शितप्रमाणमाभासीका सिद्धान्तमुपक्रमते - अत्रोच्यत इति / अत्रेत्येतथि(तस्मिन्नि)त्यर्थः / येन प्रकारेण कारणत्वावधारणोपायेन भावः कारणं लोके सिद्धम् तेनैव प्रकारेणान्वयव्यतिरेकित्वेनाभावोऽपि कारणम् / यस्तु मन्यते तथात्वेऽपि भावकारणतां बाधयितुं लोकसिद्धनियमं 'कार्यवत् कारणे(णम्' इ)त्याह - कार्यवन्मतइति / यथा कार्योऽभावा(वो) नियतोत्तरकालत्वात् तथा कारणं नियतपूर्वभावित्वादिति लोकसिद्धमपदि(मपि) वर्जनीयमिति तात्पर्यम् / प्रथमार्थापत्तिं [19B] निरस्य द्वितीयां निराकर्तुमाह - प्रतिबन्धो विसामग्री सामग्र्यन्तरकारणविगम: प्रतिबन्धपदवाच्यो नान्य इत्युभयवादिसिद्धिमित्यर्थः / प्रतिबन्धहेतुः प्रतिबन्धक इत्यपि तथेत्याह - तद्धेतुरिति / तथा चान्यथोपपत्तिरित्यर्थः / 20. न ह्यभावस्याकारणत्वे प्रमाणमस्ति / न हि विधिरूपेणासौ तुच्छ इति स्वरूपेणापि तथा, निषेधरूपाभावे विधेरपि तुच्छत्वप्रसङ्गात् / कारणत्वस्य भावत्वेन व्याप्तवात् तन्निवृत्तौ तदपि निवर्तत इति चेत्, न, परिवर्तप्रसङ्गात् / अन्वयव्यतिरेकानुविधानस्य च कारणत्वनिश्चयहेतो ववदभावेऽपि तुल्यत्वात् / अभावस्यावर्जनीयतया सन्निधिर्न तु हेतुत्वेनेति चेत्, तुल्यम् / प्रतियोगिनमुत्सारयतस्तस्यान्यप्रयुक्तः सन्निधिरिति चेत्, तुल्यम् / भावस्याभावोत्सारणं स्वरूपमेवेति चेदभावस्यापि भावोत्सारणं स्वरूपान्नातिरिच्ये / तस्माद् यथा भावस्यैव भावो जनक इति नियमोऽनुपपन्नः तथा भाव एव जनक इत्यपि / को ह्यनयोविशेषः ? प्रतिबन्धकोत्तम्भकप्रयोगकाले तु व्यभिचारस्तदा स्यात् यदि यादृशे सति कार्यानुदयस्तादृश एव सत्युत्पादः स्यात् / न त्वेवम्, तदापि प्रतिपक्षस्याभावात् / असत्प्रतिपक्षो हि प्रतिबन्धकाभिमतो मन्त्रः प्रतिपक्षः / स च तादृशो नास्त्येव / यस्त्वस्ति, नासौ प्रतिपक्षः / तथापि विशेष्ये सत्येव विशेषणमात्राभावस्तत्र स चोत्तम्भकमन्त्र एवेत्यन्यैव सामग्रीति चेत्, न, विशिष्टस्याप्यभावात् / न हि दण्डिनि सत्यदण्डानामन्येषां नाभावः, किन्तु दण्डाभावस्यैव केवलस्येति युक्तम् /