________________ 17 * न्यायकुसुमाञ्जलिः स्तबकः 1 चिरध्वस्तं फलायालं न कर्मातिशयं विना / सम्भोगो निर्विशेषाणां न भूतैः संस्कृतैरपि // 9 // तस्मादस्त्यतिशयः कश्चित् / ईदृशान्येवैतानि स्वहेतुबलायातानि येन नियतभोगसाधनानीति चेत् / तदिदममीषामतीन्द्रियं रूपं सहकारिभेदो वा ? न तावदैन्द्रियकस्यातीन्द्रियं रूपं व्याघातात् / द्वितीये त्वपूर्वसिद्धिः // 9 // 18. नन्वेतावतापि विचित्रं कारणं दृश्यमेवातस्तदधिष्ठानेऽस्मदादिरेव भविष्यतीति सिद्धसाधनदूषणदूषितं मननसाधकमित्याशङ्कते - यदि हीति / इष्टं यागादि / पूर्तं खातादि / न हीयमिति / चिरायातीतायामेव त्यां(तस्यां) लाभादीनामनुत्पादादिति शेषः / सुगमतरता / न त्वनुष्ठानागोचरेणेति / अयमर्थः / यदि हि वैदिकव्यवहारापेक्षया कश्चिदपरोऽनादिर्व्यवहारः स्यात् तदाऽयमाधुनिको वैदिकव्यवहारः प्रतारणापरो व्यवतिष्ठेत यथा पिपासाशान्तये तोयपानेऽनादिसिद्धे अनादि(अन्नादि) भक्षणं पिपासोपशम[नम्] इष्यतीति प्रतारणेयं लोकसिद्धा त्वेवमस्ति / प्रमाणसिद्धमतिक्रम्य तद्विरुद्धमुपक्रममाणः पाषण्डपद्धतिमध्यास्ते न त्वन्यथेत्याशयवानाह - अन्यथेति / विश्वप्रवृत्त्यनुमितामुष्मिकफलस्य यागदानाधि(दि)कमेव कारणत्वेनागमसिद्धतयाऽस्तु कृतमप्रामाणिकापूर्वकल्पनया / तथा च न तदधिष्ठातृपुरुषविशेषसिद्धिरित्यादिसं[श]यवान् शङ्कते - अस्त्विति [18B] | विचित्रो नानास्वभावः, जगद्वैचित्र्यस्य स्वर्गादेरित्यर्थः / कालान्तरि(रे) क(फ)लसिद्ध्यन्यथानुपपत्तिप्रमाणसिद्धमपूर्वमागमप्रामाण्यादेव कल्पितमतस्तदधिष्ठातृकल्पनमप्युपपन्नमित्याशयवान् परिहरति - चिरध्वस्तं कर्म नातिशयमपूर्वं विना फलायर्यालं समर्थमिति / नन्वेतावताऽपूर्वं सिध्यतु तथाऽऽत्मनि न तु भूतेष्विति किमत्र नियामकमित्याह - सम्भोग इति / सम्यग्भोगो नियतो भोग इति / निर्विशेषाणामपूर्वरूपविशेषशून्यानामात्म[नां] न संभवति / भूतानां [सा] धारणत्वात् / न च संस्कृतानामसाधारण्यं प्रमाणाभावेन तस्यासंभावितत्वात् / तेन तत्तदसाधारणात्मगतभोगान्यथानुपपत्तिप्रमाणमेव प्रत्यात्मगतापूर्वमावेदय[ति / अतीन्द्रियं रूपम् अतीन्द्रि]यस्वभावो वा सहकारिभेदोऽतीन्द्रियसहकारिसम्प्र(प)त्तिर्वेत्यर्थः / 19. सिद्धयतु भूतधर्म एव गुरुत्वादिवदतीन्द्रियः / अवश्यं त्वयाऽप्येतदङ्गीकरणीयम् / कथमन्यथा मन्त्रादिभिः प्रतिबन्धः / तथाहि / करतलानलसंयोगाद् यादृशादेव दाहो दृष्टः तादृशादेव मन्त्रादिप्रतिबन्धे सति दाहो न जायते, असति तु जायते, तत्र न दृष्टवैगुण्यमुपलभामहे / नापि दृष्टसाद्गुण्येऽदृष्टवैगुण्यं संभावनीयम्, तस्यैतावन्मात्रार्थत्वात् / अन्यथा कर्मण्यपि विभागः कदाचिन्न जायेत / न च प्रतिबन्धकाभावविशिष्टा सामग्री कारणम् / अभावस्याकारणत्वात् / तुच्छो ह्यसौ / प्रतिबन्धकोत्तम्भकप्रयोगकाले च तेन विनापि कार्योत्पत्तेः / प्राक्प्रध्वंसादिविकल्पेन चानियतहेतुकत्वापातात् / अकिञ्चित्करस्य प्रतिबन्धकत्वायोगात् / किञ्चित्करत्वे चातीन्द्रियशक्तेः स्वीकारात् / मन्त्रादिप्रयोगे चेतरेतराभावस्य सत्त्वेऽपि कार्यानदयात / अतोऽतीन्द्रियं किञ्चिहाहानगणमनग्राहकमग्नेरुन्नीयते यस्यापकर्वतां प्रतिबन्धकत्वमुपपद्यते / यस्मिन्नविकले कार्यं जायते / यस्यैकजातीयत्वादनियतहेतुकत्वं निरस्यत इति / अत्रोच्यते - भावो यथा तथाऽभावः कारणं कार्यवन्मतः / प्रतिबन्धो विसामग्री तद्धेतुः प्रतिबन्धकः // 10 // /