SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 16 * वामध्वजकृता सङ्केतटीका तस्यापि तत्त्वमदहन[त्वं] वाङ्मात्रेणा- शक्यमपाकर्तुम् / न हि दहने कर्तव्येऽसावदहनजनकस्वभावो न भवतीति परेषामभिमतमित्यर्थः / दहने जनयितव्ये तत्स्वभावानभ्युपगमे पुनरेकजातीयकारणानुपपत्तिः / स्वभावान्तरस्य दहनजनकत्वाभ्युपगमात् / स एवादहनजनकत्वस्वभावमतिक्रम्य स्वभावान्तरेण दहनं जनयति यत इत्यभिप्रायः / प्रकृतमुपसंहरन् प्रत्यक्षानु-मानप्रमाणमाह [18A] - तस्मादिति / ननु स्वरूपमेव विचित्रमस्तु कृतं सहकारिवैचित्र्येणेत्यत आह - न चेति / अविचित्रस्वरूपमेव प्रदीपमृदादि विचित्रतैलवर्तिविषयकुलालतरुताल्यमहाप्रयत्नादीनासाद्य वर्तिविकारादिघटशरावादिकार्यमर्जयतीति सार्वजनीनमेतत् / न तु सहकारिवैचित्र्यानुप्रवेशमन्तरेणैव तथोत्पन्नक्षणमुपादाय कार्यवैचित्र्यमुपपादयिष्यत इत्यत आह - न त्विति / तदनपेक्षः सहकार्यसहितस्तथा विचित्रो नैवेत्यर्थः / बौद्धमतेऽपि सहोत्पन्नविचित्रसहकारित एव क्षणो विचित्रकार्यमर्जयति / अन्यथा विषयासन्निधावपि प्रदीपाद् विषयप्रकाशो दुर्वार इति तात्पर्यम् / / 18. अस्तु दृष्टमेव सहकारिचक्रं किमपूर्वकल्पनयेति चेत् न / विश्ववृत्तितः / विफला विश्ववत्तिर्नो न दःखैकफलापि वा / दृष्टलाभफला नापि विप्रलम्भोऽपि नेदृशः // 8 // यदि हि पूर्वपूर्वभूतपरिणतिपरम्परामात्रमेवोत्तरोत्तरनिबन्धनम्, न परलोकार्थी कश्चिदिष्टापूर्तयोः प्रवर्तेत, न हि निष्फले दुःखैकफले वा कश्चिदेकोऽपि प्रेक्षापूर्वकारी घटते, प्रागेव जगत् / लाभपूजाख्यात्यर्थमिति चेत् ? लाभादय एव किंनिबन्धनाः ? न हीयं प्रवृत्तिः स्वरूपत एव तद्धेतुः यतो वाऽनेन लब्धव्यम्, यो वैनं पूजयिष्यति / स किमर्थम् ? ख्यात्यर्थमनुरागार्थं च, जनो दातरि मानयितरि च रज्यते, जनानुरागप्रभवा हि सम्पद इति चेत् / न / नीतिनर्मसचिवेष्वेव तदर्थं दानादिव्यवस्थापनात् / त्रैविद्यतपस्विनो धूर्तबका एवेति चेत् न / तेषां दृष्टसम्पदं प्रत्यनुपयोगात् / सुखार्थं तथा करोति इति चेत् न / नास्तिकैरपि तथाकरणप्रसङ्गात्, सम्भोगवत् / लोकव्यवहारसिद्धत्वादफलमपि क्रियते, वेदव्यवहारसिद्धत्वात् संध्योपासनवदिति चेत्, गुरुमतमेतन्न त गरोर्मतम, ततो नेदमनवसर एव वक्तुमुचितम् / वृद्धैर्विप्रलब्धत्वाद् बालानामिति चेत् न / वृद्धानामपि प्रवृत्तेः / न च विप्रलम्भकाः स्वात्मानमपि विप्रलभन्ते / तेऽपि वृद्धतरैरित्येवमनादिरिति चेत् / न तर्हि विप्रलिप्सुः कश्चिदत्र यतः प्रतारणशङ्का स्यात् / इदं प्रथम एव कश्चिदनुष्ठायापि धूर्तः पराननुष्ठापयतीति चेत् / किमसौ सर्वलोकोत्तर एव यः सर्वस्वदक्षिणया सर्वबन्धुपरित्यागेन सर्वसुखविमुखो ब्रह्मचर्येण तपसा श्रद्धया वा केवलपरवञ्चनकुतूहली यावज्जीवमात्मानमवसादयति, कथं चैनमेकं प्रेक्षाकारिणोऽप्यनुविदध्युः / केन वा चिह्ननायमीदृशस्त्वया लोकोत्तरप्रज्ञेन प्रतारक इति निर्णीतः ? न ह्येतावतो दुःखराशेः प्रतारणसुखं गरीयः / यतः पाखण्डाभिमतेष्वप्येवं दृश्यते इति चेत् / न / हेतुदर्शनादर्शनाभ्यां विशेषात् / अनादौ चैवम्भूतेऽनुष्ठाने प्रतीयमाने प्रकारान्तरमाश्रित्यापि बहुवित्तव्ययायासोपदेशमात्रेण प्रतारणा स्यात्, न त्वनुष्ठानागोचरेण कर्मणा / अन्यथा प्रमाणविरोधमन्तरेण पाखण्डित्वप्रसिद्धिरपि न स्यात् // 8 // ___ अस्तु दानाध्ययनादिरेव विचित्रो हेतुर्जगद्वैचित्र्यस्येति चेत् न / क्षणिकत्वात्, अपेक्षितस्य कालान्तरभावित्वात् /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy