Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 69 * न्यायकुसुमाञ्जलि स्तबकः 2 संग्राप्रल(सर्गप्रलय)प्रदर्शनेन निराचष्टे - परतन्त्रेति / एवमुक्ते सर्गप्रलयावनङ्गीकुर्वाणो मीमांसकः स्वपक्षप्रमाणमाह - अहोरात्रस्येति / प्रयोगस्तु - विवादाध्यासितमहोरात्रम्(म)व्यवहिताहोरात्रपूर्वकम् अहोरात्रत्वादद्यतनाहोरात्रवदिति / यदि च नैव स्यादहोरात्रेण स्कमाधेते' निरू(रु)पाधिसम्बन्धेन स्यात् / [61A] अत एव नियमादित्युक्तं न तु तथा दर्शनादिति / प्रयोगान्तरमाह - कर्मणामिति / विवादाध्यासितानि कर्माणि न युगपन्निरुद्धवृत्तीनि विषमविपाकसमयकर्मत्वादिदानीमुपभुक्तोपभुज्यमानोपभोक्तव्यकर्मवदिति / प्रयोगान्तरं सूचयति - वर्णादीति / विवादाध्यासिता ब्राह्मणा बाह्मणसन्ततिजन्मानः ब्राह्मणत्वादिदानींतनब्राह्मणवदिति ब्राह्मणमातापितृनिरपेक्षत्वे तु ब्राह्मणजातीयस्य सर्वमेव ब्राह्मणजातीयं स्यादिति / प्रयोगान्तरं सूचयति - समयेति / विवादाध्यासितः शाब्दव्यवहारः वृद्धव्यवहारपूर्वकः शाब्दव्यवहारत्वादिदानींतनशाब्दव्यवहारवदिति / न चैतदेवं कार्यकारणभङ्गे शाब्दव्यवहाराभावप्रसङ्गः / अपरमपि प्रयोगं सूचयति घटपटेति / विवादाध्यासितं घटपटादिनिर्माणं तथाभूतादर्शविज्ञप्तिसापेक्षं घटपटादिनिर्माणत्वादिदानींतनघटपटादिनिर्माणवदिति / अनन्तरप्रयोगत्रये च यथाश्रुतेनानिष्टप्रसङ्गो बोद्धव्यः / एवं स्वपक्षसाधकं परपक्षबाधकं यत् प्रमाणमुक्तं परेण तदाभासीकर्तुमाह - उच्यत इति / अत्रोक्ते(क्त)हेतूनां धर्मिप्रतीत्यप्रतीतिभ्यां बाधाश्रयासिद्धी [सा] धारणं(णे) दूषण(णे), न साधारणम्(णानि) यथाक्रमम् - अप्रयोजकत्वम्, अनैकान्तिकत्वम्, अप्रयोजकत्वम्, सिद्धसाधनम्, [अप्रयोजकत्वं] चेति हदि निधाय वर्षादिवदित्याह / ____57. तत्पूर्वकत्वमात्रे सिद्धसाधनात्, अनन्तरतत्पूर्वकत्वे अप्रयोजकत्वात्, वर्षादिदिनपूर्वकतद्दिननियमभङ्गवदुपपत्तेः / राश्यादिविशेषसंसर्गरूपकालोपाधिप्रयुक्तं हि तत् / तदभाव एव व्यावृत्तेः / तथेहापि सर्गानुवृत्तिनिमित्तब्रह्माण्डस्थितिरूपकालोपाधिनिबन्धनत्वात् तस्य तदभाव एव व्यावृत्तौ को दोषः / न च तदनुत्पन्नमनश्वरं वा अवयवित्वात् / वृत्तिनिरोधस्यापि सुषुप्त्यवस्थावदुपपत्तेः / न ह्यनियतविपाकसमयानि कर्माणीति तदानीं कृत्स्नान्येव भोगविमुखानि / न ह्यचेतयतः कश्चिद् भोगो नाम, विरोधात् / कस्तर्हि तदानीं शरीरस्योपयोगः ? तं प्रति न कश्चित् / तर्हि किमर्थमनुवर्तते ? उत्तरभोगार्थम्, चक्षुरादिवत् / प्राणिति किमर्थम् ? श्वासप्रश्वाससन्तानेनायुषोऽवस्थाभेदार्थम्, तेन भोगविशेषसिद्धेः / एकस्यैव तत् कथञ्चिदुपपद्यते, न तु विश्वस्येति चेत् / अनन्ततया, अनियतविपाकसमयतया, उपमोपमर्दकस्वभावतया च कर्मणां विश्वस्यैकस्य वा को विशेषो येन तन्न भवेत् / भवति च सर्वस्यैव सुष्वापः / क्रमेण, न तु युगपदिति चेत्, न, कारणक्रमायत्तत्वात् कार्यक्रमस्य / न च स्वहेतुबलायातैः कारणैः क्रमेणैव भवितव्यम्, अनियतत्वादेव, सर्वग्रासवत् / ग्रहाणां ह्यन्यदा समागमानियमेऽपि तथा कदाचित् स्यात् / यथा कलाद्यनियमेऽपि सर्वमण्डलोपरागः स्यात् / त्रिदोषसन्निपातवद् वा / यथा हि वातपित्तश्लेष्मणां चयप्रकोपप्रशमक्रमानियमेऽपि एकदा सन्निपातः स्यात् तदा देहसंहारः, तथा कालानलसंहारपवनमहार्णवानां सन्निपाते ब्रह्माण्डदेहप्रलयावस्थायां युगपदेव भोगरहिताश्चेतनाः स्युरिति को विरोध: ? तथापि विदेहाः कर्मिण इति दुर्घटमिति चेत् / किमत्र दुर्घटम् ? भोगनिरोधवच्छरीरेद्रियविषयनिमित्तनिरोधादेव तदुपपत्तेः / वृश्चिकतण्डुलीयकादिवत् वर्णादिव्यवस्थाप्युपपद्यते / यथा हि वृश्चिकपूर्वकत्वेऽपि वृश्चिकस्य गोमयादाद्यः, तण्डुलीयक 1. भ्रष्टः पाठः /
Loading... Page Navigation 1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210