________________ 69 * न्यायकुसुमाञ्जलि स्तबकः 2 संग्राप्रल(सर्गप्रलय)प्रदर्शनेन निराचष्टे - परतन्त्रेति / एवमुक्ते सर्गप्रलयावनङ्गीकुर्वाणो मीमांसकः स्वपक्षप्रमाणमाह - अहोरात्रस्येति / प्रयोगस्तु - विवादाध्यासितमहोरात्रम्(म)व्यवहिताहोरात्रपूर्वकम् अहोरात्रत्वादद्यतनाहोरात्रवदिति / यदि च नैव स्यादहोरात्रेण स्कमाधेते' निरू(रु)पाधिसम्बन्धेन स्यात् / [61A] अत एव नियमादित्युक्तं न तु तथा दर्शनादिति / प्रयोगान्तरमाह - कर्मणामिति / विवादाध्यासितानि कर्माणि न युगपन्निरुद्धवृत्तीनि विषमविपाकसमयकर्मत्वादिदानीमुपभुक्तोपभुज्यमानोपभोक्तव्यकर्मवदिति / प्रयोगान्तरं सूचयति - वर्णादीति / विवादाध्यासिता ब्राह्मणा बाह्मणसन्ततिजन्मानः ब्राह्मणत्वादिदानींतनब्राह्मणवदिति ब्राह्मणमातापितृनिरपेक्षत्वे तु ब्राह्मणजातीयस्य सर्वमेव ब्राह्मणजातीयं स्यादिति / प्रयोगान्तरं सूचयति - समयेति / विवादाध्यासितः शाब्दव्यवहारः वृद्धव्यवहारपूर्वकः शाब्दव्यवहारत्वादिदानींतनशाब्दव्यवहारवदिति / न चैतदेवं कार्यकारणभङ्गे शाब्दव्यवहाराभावप्रसङ्गः / अपरमपि प्रयोगं सूचयति घटपटेति / विवादाध्यासितं घटपटादिनिर्माणं तथाभूतादर्शविज्ञप्तिसापेक्षं घटपटादिनिर्माणत्वादिदानींतनघटपटादिनिर्माणवदिति / अनन्तरप्रयोगत्रये च यथाश्रुतेनानिष्टप्रसङ्गो बोद्धव्यः / एवं स्वपक्षसाधकं परपक्षबाधकं यत् प्रमाणमुक्तं परेण तदाभासीकर्तुमाह - उच्यत इति / अत्रोक्ते(क्त)हेतूनां धर्मिप्रतीत्यप्रतीतिभ्यां बाधाश्रयासिद्धी [सा] धारणं(णे) दूषण(णे), न साधारणम्(णानि) यथाक्रमम् - अप्रयोजकत्वम्, अनैकान्तिकत्वम्, अप्रयोजकत्वम्, सिद्धसाधनम्, [अप्रयोजकत्वं] चेति हदि निधाय वर्षादिवदित्याह / ____57. तत्पूर्वकत्वमात्रे सिद्धसाधनात्, अनन्तरतत्पूर्वकत्वे अप्रयोजकत्वात्, वर्षादिदिनपूर्वकतद्दिननियमभङ्गवदुपपत्तेः / राश्यादिविशेषसंसर्गरूपकालोपाधिप्रयुक्तं हि तत् / तदभाव एव व्यावृत्तेः / तथेहापि सर्गानुवृत्तिनिमित्तब्रह्माण्डस्थितिरूपकालोपाधिनिबन्धनत्वात् तस्य तदभाव एव व्यावृत्तौ को दोषः / न च तदनुत्पन्नमनश्वरं वा अवयवित्वात् / वृत्तिनिरोधस्यापि सुषुप्त्यवस्थावदुपपत्तेः / न ह्यनियतविपाकसमयानि कर्माणीति तदानीं कृत्स्नान्येव भोगविमुखानि / न ह्यचेतयतः कश्चिद् भोगो नाम, विरोधात् / कस्तर्हि तदानीं शरीरस्योपयोगः ? तं प्रति न कश्चित् / तर्हि किमर्थमनुवर्तते ? उत्तरभोगार्थम्, चक्षुरादिवत् / प्राणिति किमर्थम् ? श्वासप्रश्वाससन्तानेनायुषोऽवस्थाभेदार्थम्, तेन भोगविशेषसिद्धेः / एकस्यैव तत् कथञ्चिदुपपद्यते, न तु विश्वस्येति चेत् / अनन्ततया, अनियतविपाकसमयतया, उपमोपमर्दकस्वभावतया च कर्मणां विश्वस्यैकस्य वा को विशेषो येन तन्न भवेत् / भवति च सर्वस्यैव सुष्वापः / क्रमेण, न तु युगपदिति चेत्, न, कारणक्रमायत्तत्वात् कार्यक्रमस्य / न च स्वहेतुबलायातैः कारणैः क्रमेणैव भवितव्यम्, अनियतत्वादेव, सर्वग्रासवत् / ग्रहाणां ह्यन्यदा समागमानियमेऽपि तथा कदाचित् स्यात् / यथा कलाद्यनियमेऽपि सर्वमण्डलोपरागः स्यात् / त्रिदोषसन्निपातवद् वा / यथा हि वातपित्तश्लेष्मणां चयप्रकोपप्रशमक्रमानियमेऽपि एकदा सन्निपातः स्यात् तदा देहसंहारः, तथा कालानलसंहारपवनमहार्णवानां सन्निपाते ब्रह्माण्डदेहप्रलयावस्थायां युगपदेव भोगरहिताश्चेतनाः स्युरिति को विरोध: ? तथापि विदेहाः कर्मिण इति दुर्घटमिति चेत् / किमत्र दुर्घटम् ? भोगनिरोधवच्छरीरेद्रियविषयनिमित्तनिरोधादेव तदुपपत्तेः / वृश्चिकतण्डुलीयकादिवत् वर्णादिव्यवस्थाप्युपपद्यते / यथा हि वृश्चिकपूर्वकत्वेऽपि वृश्चिकस्य गोमयादाद्यः, तण्डुलीयक 1. भ्रष्टः पाठः /