________________ 68 * वामध्वजकृता सृङ्केतटीका नीयमीति / यदा च वर्णा एव न नित्यास्तदा कैव कथा पुरुषविवक्षाधीनानुपूर्व्यादिविशिष्टवर्णसमूहरूपाणां पदानाम्, कुतस्तरां च तत्समूहरचनाविशेषस्वभावस्य वाक्यस्य, कुतस्तमां तत्समूहस्य वेदस्य / परतन्त्रपुरुषपरम्पराधीनतया प्रवाहाविच्छेदमेव नित्यतां ब्रूम इति चेत् / एतदपि नास्ति / सर्गप्रलयसम्भवात् / अहोरात्रस्याहोरात्रपूर्वकत्वनियमात्, कर्मणां विषमविपाकसमयतया युगपद् वृत्तिनिरोधानुपपत्तेर्वर्णादिव्यवस्थानुपपत्तेः, समयानुपलब्धौ शाब्दव्यवहारविलोपप्रसङ्गात्, घटादिसम्प्रदायभङ्गप्रसङ्गाच्च कथमेवमिति चेत्, उच्यते - वर्षादिवद् भवोपाधिर्वृत्तिरोधः सुषुप्तिवत् / उद्भिवृश्चिकवद् वर्णा मायावत् समयादयः // 2 // 56. ननु यथा लिङ्गं साध्यविशेषणाव्याप्तमपि पक्षधर्मतारूपसहकारिवशेन विशेषबोधकं तथा शब्दोऽपि सङ्गति(ति) विन(ना) सहकारिविशेषाद् विशेषव्यक्तिबोधक इत्येष एवाक्षेप इति शङ्कते - स्यादेतदिति / तदेतदपि विकल्प्य निराकरोति - न तावदिति / जातिप्रत्य(त्या)यनेनैवेत्यर्थः / तत्सिद्धेः व्यक्तिज्ञानसिद्धेरित्यर्थः / मा भूदतिरिक्तसहकारिमात्रमेव विपक्षितां(त) तच्च जातिप्रत्यायनमेवास्तीति मन्वानः शङ्कते - ओमिति चेदिति / उपपादितमेकज्ञानगोचरत्वं जातिव्यक्त्योरित्याशयवान् परिहरति - व्यक्तीति / यदि च सङ्केतवशप्रसूतजातिज्ञानापेक्षः शब्दो व्यक्तिज्ञानमाधत्ते तदा अनिष्टमाह - प्रमाणान्तरप्रसङ्गादिति / जातिज्ञानसहितस्य शब्दस्य व्यक्तिप्रमाकरणत्वादित्यर्थः / न च शाब्द एवायम् / शब्दविज्ञान असन्निकृष्टेऽर्थे बुद्धिरिति लक्षणसामान्यादिति वाच्यम् / तदेकसहकार्याकाङ्क्षाद्यनपेक्षत्वात् / अन्यथाप्यु(थापि) वाक्यावगतलिङ्गस्य लिङ्गिप्रत्ययोऽपि [60A] शाब्द एव स्यादिति / अनुपदेन जात्यभिधानानन्तरं तत्सहचरितोपलब्ध्या व्यक्तिः स्मर्यते न तु प्रमीयत इति / न तत्साधनस्य प्रमाणान्तरत्वमाशङ्कते - स्मरणं तदिति / अयमिति प्रमाणान्तरप्रसङ्ग इत्यर्थः / एतदपि न युक्तमिति निराकरोति - नेति / अनुभूय(त)व्यक्तिस्मरणेनान्वयस(सं)भवेऽप्यननुभूताभिर्व्यक्तिभिरस्मर्यमाणतया अनन्वयप्रसङ्गादित्यर्थः / प्रतीतिक्षममने[क]धा विकल्प्य निराकरोति - अस्त्विति / व्यक्तिविषयैकप्रतीतिस्वीकारे शक्तिभेदो व्यर्थ इत्याह - कृतं तीति / ननु मा भूद् शक्तिभेदकल्पनम्, व(अ)स्तु चैकमेव सामर्थ्यम, तावच्च प्रत्ययोऽप्येक. तथापि कथं प्रकतसिद्धिरित्याह - एवं चेति / अयमर्थः / यथा घटत्वसामान्यविषया घटशब्दस्य वाचिका शक्तिर्व्यक्तावपि पर्यवस्यति न तु पृथक् व्यक्तौ वाचिका शक्तिरङ्गीक्रियते प्रकारान्तरेण व्यक्तेन लार्भस्य(व्यक्तेर्लाभस्य) व्युत्पादितत्वात् तथा घटशब्दसामान्याश्रितैव वाचिका शक्तिर्घटशब्देऽपि बाधकव्यवहारमातनोतु न तु घटशब्दव्यक्तेरपि पृथग्वाचकत्वमङ्गीकर्तव्यमित्यर्थः / एवमनित्यत्वे वर्णानामपसारितसकलदृषणप्रत्यक्ष[60B]मनुमानं चोक्तं सम्प्रति वर्णनित्यतामभ्युपेत्यापि पदानित्यतया सङ्गतार्थविशेषमादर्शयति - न चेति / तथाहि वर्णानामानुपूर्व्या पूर्वपश्चिमभावो नित्यत्व(त्वाद्) विभुत्वाद् वा अनित्येति कथमभिव्यक्तिः, तदभिव्यक्तिश्च विवक्षाजनितप्रयत्नप्रेरितकोष्ठ्यवायुकण्ठाद्यभिघातरूपत्वात् तज्जनितज्ञानरूपत्वाद् वा अनित्येति कथमभिव्यक्तस्य पदस्य नित्यत्वमिति / एतदेवाह - न चेति / तद्विशिष्टत्वमपि विशेषणसम्बन्धो वा तज्जनितधर्मो वेत्यर्थः / अभिमतमर्थमुपसंहरति - तस्मादिति / धर्मो(वर्ण)नित्यत्वेऽपि पदस्यानित्यता व्यक्त्यनित्यतासम्भवः / यदा तु वर्णानामनित्यता तदा सुतरामेव वाक्यानामित्याह - यदा चेति / तदेवं नित्यतां वर्णानामुत्पादव्ययरूपसर्गप्रलय(यौ) व्याख्याय निराकृत्य संप्रति प्रवाहाविच्छेदरूपनित्यतामाशङ्क्य समस्तलोक