________________ 67 * न्यायकुसुमाञ्जलि स्तबकः 2 निराकरोति - विनाशेति / पूर्वोक्तादेव(वे)ति / उत्पत्तिविनाशयोः संसर्गदर्शनादेवेत्यर्थः / ननु यथा विनाशसंसर्गनियमः पटस्य तथा कुंकुमसंसर्गनियमोऽपि / कस्मात् ? तस्यापि दु(उ)भयसंसर्गेण कारणाधीनत्वस्येति / यत्रापि तुल्यत्वात् तत्रापि न चेदयं नियमो ध्वंसकसंसर्गनियमोऽपि न स्यादित्य विशेषादित्यत आह - यथा हीति / उपसंहरति - तस्मादिति / एवं शब्दोऽनित्यः कार्यो वा जातिमत्त्वे सति अस्मदादिबहिरिन्द्रियप्रत्यक्षत्वात् घटवदिति द्रष्टव्यम् / प्राभाकरं प्रत्यनीश्वरविभूविशेषगुणत्वात् बुद्धिवदिति प्रयोक्तव्यम् / नन्वनित्यत्वे [59A] वर्णानां सङ्गतिग्रहानुपपत्तेः / उपपत्तौ वा गृहीतसङ्गतिकनाशे अगृहीतसङ्गतिकार्थप्रतीतेतेरनुपपत्तेरर्थप्रतीत्यन्यथानुपपत्त्या नित्यत्वमिति / तथा चार्थापत्त्या बाधः प्रतिरोधो वेति हृदि निधाय शक्यते - स्यादेतदिति / वर्णानामनित्यत्वेऽपि तज्जातीनां नित्यत्वात् तज्जातिमत्त्वेन सङ्गतरुपपत्तिरर्थप्रतिपत्त्युपपत्तेर पत्तेरन्यथोपपन्नतया नोक्तदोषावकाश इत्याशयवान् परिहरति - यथार्थस्यैवेति / उक्तमर्थम् / तत्तत्परापादितशङ्कापसारणेन विशदयति - जातिरेवेति / तदलाभ इति व्यक्तेरलाभ इत्यर्थः / शङ्कते - आक्षेपत इति / विकल्प्य निराकरोति / कः खल्विति / सुगममितरत् / पुनः शङ्कते - अर्थापत्तिरिति / एतदप्यनुपपद्यमानाद्यर्थासम्भवेन निराकरोति - व्यक्तेरनित्यभावेऽपीति' / व्यक्तिज्ञानाभावेऽपि जातिज्ञानस्योत्पादाभ्युपगमात् केवलजातिपदार्थवादिभिरिति सहृदयम् / जातिपदाद् वा (इव) व्यक्तिवे(प)दान(द)पिरे जातिज्ञानमुत्पद्यत इति / न चोभयं सिद्धम् / ननु मा भूत् प्रतीतिपर्यवसानं 'गङ्गायां घोषः' इतिवज्जातिप्रतीत्यपर्यवसानाद् व्यक्तिलाभ इत्याशयवान् शङ्कते - व्यक्तिविषयतामिति / एतदस्याभ्युपगमेनैव तवानिष्टमिति परिहरति - नेति / अपि च गोपदस्य व्यक्तिविषयतायां किमनुपपन्नम् / समानानां भावः सामान्यं तत् कथं प्रतीयते भवत्पक्षे? प्रत्यक्षेणेति चेत् / अस्त्विदं सामान्यमित्यस्मिन् पक्षे सम्बन्धिनिरपेक्षजातिस्वरूपवाचिनां तु गवादिपदानां किमसमञ्जसमिति / [59B] अस्ति तावत् 'गौस्तिष्ठति' 'गौर्निषण्णा' इत्यादावन्वयः / स च जातावनुपपद्यमानो व्यक्तिमाक्षिपतीत्यर्थापत्तिराक्षेप इति शङ्कते - जातीनामिति / परिहरति - नेति / प्रतीतस्यानुपपत्तिराक्षिपतीत्यत्र दृष्टम् न त्वन्यथेति। न चात्र व्यक्तिमप्रतीत्यान्वयः प्रत्येतुं शक्यते इति / तमप्रतीत्य धोक्षेणैव(आक्षेपेणैव) प्रतीतौ चेतरेतराश्रयत्वम् / तथाहि अन्वयप्रतीतौ व्यक्त्याक्षेपो व्यक्त्याक्षेपे चान्वयप्रतीतिः / तथा च नानुपपद्यमानं किञ्चिदस्तीति तात्पर्यम् / 56. स्यादेतत् / प्रतिबन्धं विनापि पक्षधर्मताबलाद् यथा लिङ्ग विशेषे पर्यवस्यति तथा सङ्गतिं विनापि शब्दः शक्तिविशेषाद् विशेषे पर्यवस्यति, स एवाक्षेप इत्युच्यते इति चेत्, न तावत् प्रतीतिः क्रमेण / अपेक्षणीयाभावेन विरम्य व्यापारायोगात् / जातिप्रत्यायनमपेक्षते इति चेत्, कृतं तर्हि शब्दशक्तिकल्पनया / तावतैव तत्सिद्धेः / ओमिति चेत्, न / व्यक्त्यनालम्बनाया जातिप्रतीतेरसम्भवादित्युक्तत्वात् / प्रमाणान्तरापातप्रसङ्गाच्च / स्मरणं तदित्ययमदोष इति चेत्, न / अननुभूतानन्वयप्रसङ्गात् / अस्त्वेकैव प्रतीतिरिति चेत्, कृतं तर्हि शक्तिभेदकल्पनया / एवं च यथा सामान्यविषया शक्तिरेकैव तद्वति पर्यवस्यति, तथा सामान्याश्रया सङ्गतिस्तद्वति पर्यवस्येदिति / न च नित्या अपि वर्णाः स्वरानुपूर्व्यादिहीनाः पदार्थैः सङ्गम्यन्ते, न तद्विशिष्टत्वमपि तेषां नित्यम्, तस्मात् तत्तज्जातीयक्रोडनिविष्टा एव पदार्थाः पदानि च संबध्यन्ते नातोऽन्यथेति, नैतदनुरोधेनापि शब्दस्य नित्यत्वमाशङ्क१. मुद्रितमूले प्रतीकमिदं नास्ति / 2. पाठः भ्रष्टः /