________________ 66 * वामध्वजकृता सृङ्केतटीका इति मन्वानो भूमिरचनां करोति - तथाहीति / पूर्वोक्तन्यायेति / अन्यस्योपाधेरनुपलम्भेनि] वर्तु(तद्गत)त्वेन चोपलम्भेनेत्यर्थः / तीव्रमन्दादिरूपप्रकर्ष[निकर्ष]ता नित्येभ्यो व्यावृत्तेत्याह - इयं चेति / पर[म]महत्प[रिमाण]परमाणुपरिमाणरूपप्रकर्षप्रदर्शनव्याजेनाह - अकारणका हीति / उक्तमर्थमुपसंहृत्य प्रयोगमाह - तदिति / तस्मादित्यर्थः / तीर्थादिधर्मोपेतत्वादिति अन्वयो बोद्धव्यः / माधुर्यादिव[दि]ति यथा तीव्रस्तीव्रतरो मन्दो मन्दतरो मधुरो रस इत्यर्थः / विपक्षे बाधकमाह - अन्यथेति / साध्येतरत्वमुपाधिमाशक्य बाधव्यतिरेकेण तथात्वेऽतिप्रसङ्गापादा(द)नेन परिहरति - शब्दादिति / [58B] तथा च सर्वानुमानोच्छेद इति तात्पर्यम् / असिद्धिमाशङ्क्य पूर्वोक्तप्रमाणदाया॑त् परिहरति - न चेति / व्यञ्जकानुविधाननिरासे उत्पादकानुविधानेन भवितव्यम् / अन्यस्यासंभवादित्याशयवानाह - न चेति / औपाधिकत्वनिषेधात् स्वाभाविकत्वमेव प्रकारान्तरस्याभावादित्याह - न चेति / 55. स्यादेतत् / तथाप्युत्पत्तेनित्यत्वेन को विरोधो येन प्रतिबन्धसिद्धिः स्यात् ? असिद्धे च तस्मिन् भवतां व्यापकत्वासिद्धोऽस्माकमप्रयोजकः / सौगतानां सन्दिग्धविपक्षवृत्तिरयमुपक्रान्तो हेतुरिति चेत्, न / इदं ह्युत्पत्तिमत्त्वं विनाशकारणसन्निधिविरुद्धेभ्यो नित्येभ्यः स्वव्यापकनिवृत्तौ निवर्तमानं विनाशकसन्निधिमति विनाशिनि विश्राम्यतीति / विनाशकारणसन्निधानेनावश्यं जायमानस्य भवितव्यमिति कुतो निर्णीतमिति चेत्, न / तदसन्निधानं हि न तावदाकाशादेरिव स्वभावविरोधात् / उत्पत्तिविनाशयोः संसर्गदर्शनात् / अविरुद्धयोरसन्निधिस्तु देशविप्रकर्षाद् हिमवद्विन्ध्ययोरिव स्यात् / देशयोरपि विप्रकर्षो विरोधाद् वा हेत्वभावाद् वा ? पूर्वोक्तादेव न प्रथमः / द्वितीयस्तु पटकुङ्कमयोरिव स्यात् / यदि हि कुङ्कमसमागमादर्वागिव प्रध्वंसकसंसर्गादर्वागेव पटो विनश्येत् / यथा हि विनाशकारणं विना न विनाशः तथा यदि कुङ्कमसमागमं विना न विनाशः पटस्येति स्यात् कस्तयोः संसर्ग वारयेत् / तस्मादविरुद्धयोरसंसर्गः कालविप्रकर्षनियमेन व्याप्तः, स चातो निवर्तमानः स्वव्याप्यमुपादाय निवर्तत इति प्रतिबन्धसिद्धिः / स्यादेतत् / यद्येवमस्थिरः शब्दः कथमर्थेन सङ्गतिरस्योपलभ्यते इति चेत् / यथैवार्थस्यास्थिरस्य तेन / जातिरेव पदार्थः, न व्यक्तिरिति चेत्, न, शब्दात् तदलाभप्रसङ्गात् / आक्षेपत इति चेत्, कः खल्वयमाक्षेपो नाम? न तावदनुमानम् / अनन्ताभिः सह सङ्गतिवदविनाभावस्यापि ग्रहीतुमशक्यत्वात् / शक्यते वा, सङ्गतेरपि तथैव सुग्रहत्वात् / व्यक्तिमात्ररूपेणाऽविनाभाव इति चेत्, न / व्यक्तित्वस्य सामान्यस्याभावात् / भावे वा तदाक्षेपेऽपि विशेषानाक्षेपात् / वाच्यत्वमपि वा तथैवास्तु, किमाक्षेपेण ? सङ्गतेरविरोधादिति / अर्थापत्तिराक्षेप इति चेत्, न, व्यक्त्या विना किमनुपपन्नम् / जातिरिति चेत्, न, तन्नाशानुत्पाददशायामपि सत्त्वात् / तथापि न व्यक्तिमात्रं विनेति चेत्, न / मात्रार्थभावात् / व्यक्तिज्ञानमन्तरेण जातिज्ञानमनुपपन्नमिति चेत् न / तदभावेऽप्युत्पादात् / व्यक्तिविषयतां विना जातिविषयता तस्यानुपपन्नेति चेत्, न / एवं तर्हि एकज्ञानगोचरतायां किमनुपपन्नं किं प्रतिपादयेदिति / जातीनामन्वयानुपपत्त्या व्यक्तिरवसीयते इति चेत्, न, परस्पराश्रयप्रसङ्गात् / 55. विपक्षे बाधकाभावेन मूलहेतोस्तत्तदर्शनसिद्धभाषया असाधकत्वनिषेधा(ध) स्वा(स्वय)माशङ्क्य विपक्षे बाधकदर्शनेन परिहरति - स्यादेतदिति / उत्पत्तेापकं कारणम् / नित्यत्वे च कारणाभावादुत्पत्तिरेव न स्यात् / साधिता च सा प्रत्यक्षानुमानाभ्याम्, अतस्तदिति तात्पर्यम् / पुनराशक्य यथासंभवं विकल्प्य