SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 65 * न्यायकुसुमाञ्जलि स्तबकः 2 नाकाशादयश्चाक्षुषाः / अस्तु तर्हि शब्दो नित्यः, नित्याकाशैकगुणत्वात्, तद्गतपरममहत्परिमाणवदिति प्रत्यनुमानमिति चेत्, न / अकार्यत्वस्योपाधेर्विद्यमानत्वात् / अन्यथा आत्मविशेषगुणा नित्याः, तदेकगुणत्वात्, तद्गतपरममहत्त्ववदित्यपि स्यात् / अस्य प्रत्यक्षबाधितत्वादहेतुत्वमिति चेत्, न / निरुपाधेर्बाधानवकाशात् / स्वभावप्रतिबद्धस्य च तत्परित्यागे स्वभावपरित्यागप्रसङ्गात् / तस्माद् बाधेन वोपाधिरुन्नीयते, अन्यथा वेति न कश्चिद् विशेषः / एतेन श्रावणत्वाच्छब्दत्ववदित्यपि परास्तम् / अत्रापि तस्यैवोपाधित्वात् / अन्यथा गन्धरूपरसस्पर्शा अपि नित्याः प्रसज्येरन् / घ्राणाद्येकैकेन्द्रियग्राह्यत्वाद् गन्धत्वादिवदित्यपि प्रयोगसौकर्यात् / विरोधव्यभिचारावसम्भावितावेवात्रेत्यसिद्धिरवशिष्यते / सापि नास्ति / तथाहि / शब्दस्तावत् पूर्वोक्तन्यायेन स्वाभाविकतीव्रमन्दतरतमादिभावेन प्रकर्षनिकर्षवानुपलभ्यते / इयं च प्रकर्षनिकर्षवत्ता कारणभेदानुविधायिनी सर्वत्रोपलब्धा / अकारणका हि नित्याः प्रकर्षवन्त एव भवन्ति, यथा आकाशादयः / निकृष्टा एव वा यथा परमाण्वादयः / न तु किञ्चिदतिशयानाः कुतश्चिदपकृष्यन्ते / तदियं नित्येभ्यो व्यावर्तमाना कारणवत्सु च भवन्ती जायमानतामादायैव विश्राम्यतीति प्रतिबन्धसिद्धौ प्रयुज्यते, शब्दो जायते, प्रकर्षनिकर्षाभ्यामुपेतत्वान्माधुर्यादिवत् / अन्यथा नियामकमन्तरेण भवन्ती नित्येष्वपि सा स्यात् / नियमहेतोरभावात् / शब्दादन्यत्रेयं गतिरिति चेत्, न, साध्यधर्मिणं विहायेति प्रत्यवस्थानस्य सर्वानुमानसुलभत्वात् / न चेद् व्यञ्जकतारतम्याद् व्यञ्जनीयतारतम्यम्, अस्वाभाविकत्वप्रसङ्गात् / व्यवस्थितं च स्वाभाविकत्वम् / न च व्यञ्जकोत्पादकाभ्यामन्यस्यानुविधानमस्ति / न च स्वाभाविकत्वौपाधिकत्वाभ्यामन्यः प्रकारः सम्भवति / ___54. परकीयं बाधकमपाकृत्य शब्दस्य श्रोत्रगुणत्वसाधकं प्रमा[णमा]ह - अवश्यं चेति / [57B] विपक्षे बाधकमाह - अन्यथेति / द्रव्यविशेषग्रह एव उपयोगमाशय निराकरोति / तत्रापि विपक्षे बाधकान्याह - अन्यथेति / व्युत्पादितमर्थमुपसंहरति - तस्मादिति / न च तारत्वादिगुणपुरस्कारादेव सर्वं समञ्जसमिति वाच्यम्, तारत्वादीनामन्यधर्मत्वस्वीकारेण तद्गुणत्वानभ्युपगमात् / किञ्च, तीव्र सुखं मन्दं सुखं तीव्र दुःखं मन्दं चेति / तारत्वादीनां गुणगतत्वेनावगमात् सामान्यरूपत्वमिति सर्ववादिसिद्धमिति निरुपद्रवमेतदिति / एवं भट्टमते स्वपक्षसाधनप्रतिरोधपक्षसाधनप्रतिरोधपक्षमाशङ्क्य निराकृत्य च प्राभाकरमतमाशक्यते - तीति / अनेकगुणेन संयोगादिना लाभिचारो मा भूदिति / एवं गुणं प्रत्यनुमानमिति स्वपक्षप्रतिरोधयोरन्यतरपर्यवसितमित्यर्थः / एतदप्युपाधिसंभवेनासिद्धव्याप्तिकतया न सिद्धिप्रतिरोधयोर[व]ग[म]मित्याशयवानाह - नेति / एवमभ्युपगमे बाधकप्रमाणमाह - अन्यथेति / अत्र प्रमाणमाशङ्क्यते - अस्येति / बाधेनाप्युपाधिरुन्नीयत इति / यदि प्रकृतेऽपि बाधकस्योक्तत्वादुपाधिसंभवो दुर्वार इत्याशयवान् परिहारमाह - नेति / उपसंहरति - तस्मादिति / प्रत्यक्षबाधकस्य बुद्धयादाविव शब्दनित्यत्वसाधनेऽपि समानत्वादित्यर्थः / अन्यथेति / प्रत्यक्षबाधमुपक्रम्य स्वातन्त्र्येणेत्यर्थः / अपरमपि नित्यत्वानुमानमतिदेशे निराकरोति - एतेनेति / अतिदेशार्थं स्मारयति - [58A] अत्रापीति / तस्यैवाकार्यत्वस्येत्यर्थः / पवे[एते]न शब्दो नित्यो गन्धव्यतिरिक्तत्वे निरवयव[त्व]- भूतविशेषगुणत्वादाप्यपरमाणुरू[पो]पाधिवदित्यादीनि नित्यत्वसाधनानि निरस्तानीति / अकार्यत्वस्योपाधिर्दुष्परिहरत्वादिति / परसंभावितबाधाप्रतिरोधनिराकरणे विरोधव्यभिचारासम्भवेऽसिद्धिर्मूर्धाभिषिक्ता निरस्यत इत्याह - सापीति / यद्यपि प्रागसत उत्तरकालसम्बन्धः प्रागभावोपलक्षितस्वरूप(पं) वा प्रागभावावच्छिन्ना सत्ता वा उत्पत्तिः / सा धर्मो यस्येत्युत्पत्तिधर्मकः घटादिम(व)च्छब्दोऽपि प्रत्यक्षसिद्धस्तथाऽप्यनुमानेनाप्युत्पत्तिधर्मकत्वे(त्वं) शब्दे साध्यत
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy