SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 64 * वामध्वजकृता सृङ्केत्तटीका त्वेनाभिमतेनेत्यर्थः / विकलेन हीनेनेत्यर्थः / वास्तवं तुल्यबलत्वं निरस्याभिमानिकमुपन्यस्य निराकरोति - तथापीति / अपि साधनदशायामपीत्यत्र बोद्धव्यः / न केवलं सत्प्रतिपक्षदूषणपक्षे साधनदशायामपीत्यर्थः / अद्रव्यद्रव्यत्वादिति / द्रव्यत्वादित्युच्यमाने घटेनानैकान्तो भवेत् तन्निवृत्त्यर्थमद्रव्येति / न विद्यते द्रव्यं समवायि यस्य तदद्रव्यम / एतावन्मात्रे च प्रागभावेनानैकान्तिकमत उभयपदोपादानाम] / अद्रव्यं च तद द्रव्यं चेति कर्मधारयः / परमाणुश्च दृष्टान्तो बोद्धव्यः / हीनबलस्य न प्रतिरोधकत्वं न च साधकत्वमित्याशयवानाह - असिद्धिरिति / विशेषणविशेष्ययोरसिद्धिरित्यर्थः / विशेष्यसिद्धौ प्रमाणमाह - द्रव्यमिति / शब्दो द्रव्यमित्यर्थः / एतदपि द्रव्यत्व[गणत्व]योरन्यतरासिद्धावसिद्धत्वेनाप्रमाणमित्याशयवानाह.- नेति / न च साक्षात् सम्बन्धेन गृह्यमाणत्वमु[56B] भयसिद्धमन्यथाऽपसिद्धान्तप्रसङ्गादिति वाच्यम् / शब्दस्य गुणत्वानभ्युपगमे तस्य प्रत्येतुमशक्यत्वादिति विवक्षितत्वादित्याशयवानाह - न हीति / नन्वस्ति द्रव्यत्वगुणत्वयोरन्यतरसाधक: परिशेष इत्याह - परिशेष इति / सत्तादे(द्य) भेदः सत्तायोगित्वम् / अपरसामान्यवत्त्वं च शब्देन सामान्यतमवत् सत्तायोगित्वार(त) परसामान्यवत्त्वाद वा द्रव्यादिवत् / न कर्म मूर्तद्रव्यासमवायात बुद्धिवदिति / एवमपि बाधितत्वेन द्रव्यत्वेन द्रव्यत्वसाधनमप्रमाणमित्याह - नेति / इतरत्र तन्निषेधे द्रव्यगुणत्वसिद्धौ लिङ्गग्राहकप्रमाणबाध इत्यर्थः / अथ द्रव्यत्वनिवेक(निषेधक)सम्भवेऽपि नाद्रव्यसिद्धिस्तदा तेनैव न्यायेन कर्मत्वनिषेधेऽसिद्धिः पूर्वोक्तैवेत्याशयवानाह - बाधके सत्यपीति / अथैकदेशपरिशेषादेव द्रव्यत्वादिसंभावनेति हृदि निधायोपसंहरति - तस्मादिति / मात्रार्थस्त्वेकदेशपरिशेषो न सर्वत्र / प्रहृतसंदेहवत्त्वेन हेतुरपि / अथ नैकत्र संरो(दे)ह(हः) / यत्र बाधकं तत्र संशयोच्छित्तिना( )न्यत्र, स्वविषयमात्रप्रवृत्तत्वाद् बाधकस्येत्यर्थ / द्रव्यत्वे किमपि न बाधकमस्तीत्याशयवान् पृच्छति - अथेति / अस्तीहापि बाधकमित्याशयवानाह - उच्यत इति / ननु द्रव्यत्वस्यासिद्धौ [57A] किं नश्छिन्नमित्यत आह - न चेति / अभिमतं सत्प्रतिपक्षत्वमनित्यत्वानुमानस्य न स्यादिति छिन्नमित्यर्थः / उपलक्षणं चैतत् / न सत्प्रतिपक्षत्वं साधनत्वमप्यसिद्धे भवतीत्यपि द्रष्टव्यम् / ननु यथा द्रव्यत्वे बाधकसंभवान्न तत्सिद्धिस्तथा गुणत्वे बाधकसंभवान्न गुणत्वसिद्धिः ततो न लिङ्गग्राहकमानबाधक इति मन्वानो गुणत्वेऽपि बाधमाशङ्कते - नन्विति / नन्वेवमपि गुणत्वानभ्युपगमे द्रव्यत्वासिद्धौ च साक्षात्सम्बन्धेन ग्रहणत्वे न किञ्चित् प्रमाणमुक्तं स्यादित्याशयवानाह - ततः किमिति / अद्य प्रमाणस्य विपक्षे बाधकभावेनावगतप्रतिबन्धत्वादित्युक्ते यदि विपक्षबाधकबुद्ध्याभिदध्या[त्] ध्वदि(नि)त्वगुणः स्यात् तदाऽनेन ग्रहणं न स्यादिति हृदि निधायायोग्यत्वोपाधिप्रयुक्तत्वेन तस्य गुणस्याप्रयोजकत्वप्रदर्शनेनोन्मूलितपतिबन्धेनाबाधकत्वाव्यतिरेकव्याप्तौ च तदपाधिप्रयक्तत्वेन प्रतिबन्धो(न्धा)सिद्धत्वमिति परिहरति - न चैतदपीति / तथा चेन्द्रियग्राह्यत्वप्रयुक्तमिन्द्रियागुणत्वमिति / न / किं तर्हि ? अनाश्रिततया अबाधितप्रमाया(याः) प्रतीयमानत्वप्रयुक्तमिति द्रष्टव्यम् / द्वितीयेऽपि प्रयोगेऽयोग्यगुणेन्द्रियत्वप्रयुक्तं स्वगुणाग्राहकत्वम् न त्वीन्द्रियत्वप्रयुक्तमिति द्रष्टव्यमिति / एवमनभ्युपगमे बाधकमप्याह - अन्यथेति / उक्तं सर्वमुपसंहरति - तस्मादिति / 54. अवश्यं च श्रोत्रेण विशेषगुणग्राहिणा भवितव्यम् / इन्द्रियत्वात् / अन्यथा तन्निर्माणवैयर्थ्यात् तदन्यस्येन्द्रियान्तरेणैव ग्रहणात् / न च द्रव्यविशेषग्रहणे तदुपयोगः / विशेषणयोग्यतामाश्रित्यैवेन्द्रियस्य द्रव्यग्राहकत्वात्, न द्रव्यस्वरूपयोग्यतामात्रेण / अन्यथा चान्द्रमसं तेजः स्वरूपेण योग्यमिति तदप्युपलभ्येत / आत्मा वा मनोग्राह्य इति सुषुप्त्यवस्थायामप्युपलभ्येत / अनुद्भूतरूपेऽपि वा चक्षुः प्रवर्तेत, तस्माद् गुणयोग्यतामेव पुरस्कृत्येन्द्रियाणि द्रव्यमुपाददते, नातोऽन्यथेति स्थितिः / अत एव
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy