SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 63 * न्यायकुसुमाञ्जलि स्तबकः 2 पानुपपत्तिस्तत्र वैयधिकरण्येनापि तदनुभावाद् रक्तं महारजनादितत्सम्बन्धात् शुक्लोऽपि पटो रक्त इति प्रतीतेः सर्वजनसिद्धत्वादिति निरवद्यमेतत् / तत्र च यद्यपि सर्वत्रैव तथापि प्रकृतानुरोधात् प्रत्यक्षे तावत् व्यक्तिग्रहणसामग्री विना न जातिसामग्रीति प्रमाणसिद्धमिति स्फुटयति - व्यक्तीति / परमतमाशङ्क्यानिष्टप्रदर्शनेनोक्तमेव नियममुपसंहरति - स्वरूपेति / न च परमाणुष्वगृह्यमाणेषु सत्ता स्वरूपेण गृह्यते न च बहुत्वेन तेषामतीन्द्रियत्वादिति वाच्य[म्] / परमाणूनामिन्द्रियप्रत्यासत्तौ सत्यां स्वरूपेण ग्रहणस्य प्रसञ्जि[त]त्वात् / अस्याभ्युपगमे ति(तु) घटाद्यग्रहेऽपि घटत्वादिग्रहस्य दुर्वारत्वादिति व्यक्तमुक्तसि(मि)ति / न च यथा अरुणत्वसामान्याधिष्ठानोऽरुणिमा स्फटिके समारोप्यते तथा तारत्वादिधर्माधिष्ठानभूता नाभसा ध्वनयो गकारे समारोप्यन्त इति वाच्या(च्यम्) / अरुणत्वाश्रयजपाकुसुमवत् ता[रा]द्याश्रयाभिमतध्वनीनामप्रतिपत्तेः बाधकाभावेन चारोपानुपपत्तेः / न हि तथाभूतधर्माधिष्ठानत्वेन परिस्फुरति / गकारे बाधकमस्ति / न चासति बाधके औपाधिकत्वं संभवतीति / निरूपद्रवमिति / विरुद्धधर्मसंसर्गासिद्धिरिति रहस्यम् / एवमुपक्रान्ततज्ज्वालाप्रत्यभिज्ञानसमानतामुपपाद्योपसंहरति - तथा चेति / एवमबाधिते बाधाभिधानं निरनुयोज्यानुयोगो वेदितव्या:(व्यः) / [56A] 53. नापि सत्प्रतिपक्षत्वम् / मिथो विरुद्धयोर्वास्तवतुल्यबलत्वाभावात् / एकस्यान्यतमाङ्गवैकल्यचिन्तायामस्य वैकल्ये तस्यैवोद्भाव्यत्वात्, अवैकल्ये त्वदीयेनैव विकलेन भवितव्यमिति हीनस्य न सत्प्रतिपक्षत्वम् / तथापि नित्यः शब्दोऽद्रव्यद्रव्यत्वादित्यत्रापि साधनदशायां किञ्चिद् वाच्यमिति चेदसिद्धिः / द्रव्यं शब्दः साक्षात्सम्बन्धेन गृह्यमाणत्वाद् घटवदिति सिद्ध्यतीति चेत्, न / एतस्याप्यसिद्धेः / न हि श्रोत्रगुणत्वे द्रव्यत्वे वाऽसिद्धे साक्षात्सम्बन्धे शब्दस्य प्रमाणमस्ति / परिशेषोऽस्ति / तथाहि / सदाद्यभेदेन सामान्यादित्रयव्यावृत्तौ मूर्तद्रव्यसमवायनिषेधेन कर्मत्वनिषेधाद् द्रव्यगुणत्वपरिशेषे संयोगसमवाययोरन्यतरः सम्बन्ध इति चेत्, न / बाधकबलेन परिशेषे द्रव्यत्वस्यापि निषेधाद् लिङ्गग्राहकप्रमाणबाधापत्तेः / बाधके सत्यपि वा द्रव्यत्वाप्रतिषेधे कर्मत्वादीनामप्यप्रतिषेधप्रसक्तौ परिशेषासिद्धेः, तस्मादेकदेशपरिशेषो न प्रमाणम्, सन्देहसङ्कोचमात्रहेतुत्वात् / अथ द्रव्यत्वे किं बाधकम् ? उच्यते - शब्दो न द्रव्यम्, बहिरिन्द्रियव्यवस्थाहेतुत्वात्, रूपादिवदिति परिशेषाद् गुणत्वेन समवायिसिद्धौ लिङ्गग्राहकप्रमाणबाधितत्वाद् नाव्यवहितसम्बन्धग्राह्यत्वेन द्रव्यत्वसिद्धिः / न चासिद्धेन सत्प्रतिपक्षत्वम्, असिद्धस्य हीनबलत्वात् / ननु शब्दस्तावदश्रोत्रगुणो नैवेति त्वयैव साधितं प्रबन्धेन / न च श्रोत्रगणः. तेन गृह्यमाणत्वात्, यद् येनेन्द्रियेण गृह्यते नासौ तस्य गुणः, यथा गृह्यमाणो गन्धादिः / श्रोत्रं वा न स्वगुणग्राहकम्, इन्द्रियत्वाद् घ्राणवदिति न गुणत्वसिद्धिरिति चेत् / ततः किम् ? न चैतदपि / घ्राणादिसमवेतगन्धाद्यग्रहे स्वगुणत्वस्याऽप्रयोजकत्वात् / अयोग्यत्वं हि तत्रोपाधिः / अन्यथा सुखादिर्नात्मगुणः, तेन गृह्यमाणत्वाद् रूपादिवत् / न वा तेन गृह्यते तत्समवेतत्वाददृष्टवत् / आत्मा वा न तद्ग्राहकः, तदाश्रयत्वात्, गन्धाद्याश्रयघटादिवदित्याद्यपि शङ्केत / तस्मात् स्वगुणः परगुणो वाऽयोग्यो न गृह्यते, गृह्यते तु योग्यो योग्येन, तत् किमत्रानुपपन्नम् / ___53. सत्प्रतिपक्षत्वमाशङ्ग्य समुन्मूलयति - नापीति / वास्तवाभिमानिकतुल्यबलत्वानुपपत्तेर्न प्रतिरोधः इति पूर्ववद् विज्ञेयम् / अस्य वैकल्य इति / शब्दानित्यत्वसाधनस्य / तस्यैवेति वैकल्यदोषस्येति यावत् / वाच्यत्वात् प्रतिपादनीयत्वादित्य(ति प)क्षः / अवैकल्ये शब्दानित्यत्वसाधनस्य / त्वदीयेनैवेति / प्रतिपक्ष
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy