________________ 62 * वामध्वजकृता सृङ्केत्तटीका इत्यत्र ध्वनीनामस्फुरणात् / न च व्यक्त्या विना सामान्यस्फुरणम् / कारणाभावात् / व्यक्तिस्फुरणसामग्रीनिविष्टा हि जातिस्फुरणसामग्री / कुत एतत् ? अन्वयव्यतिरेकाभ्यां तथाऽवगमात् / ऐन्द्रियकेष्वेव घटादिषु सामान्यग्रहणात्, अतीन्द्रियेषु च मनःप्रभृतिष्वग्रहणात् / स्वरूपयोग्यतैव तत्र निमित्तम्, अकारणं व्यक्तियोग्यतेति चेत् / एवं तर्हि सत्ताद्रव्यत्वपार्थिवत्वादीनां स्वरूपयोग्यत्वे परमाण्वादिष्वपि ग्रहणप्रसङ्गः / अयोग्यत्वे घटादिष्वपि तदनुपलम्भापत्तिरिति दुरुत्तरं व्यसनम् / तस्माद् व्यक्तिग्रहणयोग्यताऽन्तर्गतैव जातिग्रहणयोग्यतेति तदनुपलम्भे जातेरनुपलम्भ एव / तथा च न तारत्वादीनामारोपसम्भव इति स्वाभाविकत्वस्थितौ विरुद्धधर्माध्यासेन भेदस्य पारमार्थिकत्वात् प्रत्यभिज्ञानमप्रमाणमिति न तेन बाधः / ___52. चार्वाकवराकमतमालम्ब्य शङ्कते - तथापीति / तन्मतावलम्बने समंग(असंगतिः) मीमांसकस्यानुमानस्वीकाररतस्येत्यभिप्रायवान् परिहरति - एवमियमिति / शङ्का हि - किं यः कश्चिदुपाधिर्भविष्यति इत्युपाधिशङ्का प्रमाणनिश्चितोपाधिशका वा ? आद्ये सार्वत्रिकत्वप्रसङ्गेन न किञ्चित् कुतश्चित् क्वाप्यनुमीयेतेत्याशयवानाह - तथा चेति / द्वितीये न चैतदिति / ननु ध्वनिधर्मास्तीव्रत्वादयो ध्वनिष्वप्रतिभासमानेष्वपि स्मर्यमाणा एवारोप्यन्त इत्यत आह - न चेति / ध्वनयो हि वायवीयाः, नान्ये / तथा च त्वगादिभिरग्रहात् धर्माणां तीव्रत्वादीनां सामान्यानामग्रहणमिति नारोपयितुं शक्यते / अग्रहः कथमित्यत आह - स्पर्शेति / मा भूत् त्वचा ग्रहणं श्रोत्रेणैव ग्रहणं भविष्यतीत्याशङ्क्य अवायवीयत्वेन वायुधर्मग्राहकत्वं निषेधयति - न चेति / श्रोत्रं न वायुधर्मग्राहकमवायवीयत्वात् चक्षुर्वदिति प्रयोगः / अवायवीयस्य [55A] वायुधर्मग्राहकत्वे को विरोधः / न हि यदिन्द्रियवत्प्रकृतिकं तत् तद्गुणस्यैव ग्राहकमिति नियमोऽस्ति / तैजसेन चक्षुषा नीलाद्यग्रहणप्रसङ्गादिति चेत्, न नियमानवबोधात् / यो गुणो येन बाह्येन्द्रियेण गृह्यते तदिन्द्रियं तज्जातीयगुणवदिति नियमः / अतो यदि तारतारतरत्वादयो वायुगुणा श्रोत्रेण गृह्यन्ते ततः श्रोत्रमपि तद्गुणवदिति वायवीयत्वं तस्यापाद्यतति(पद्यतेति)। विपक्षे बाधकात् प्रतिबन्धसिद्धिरिति सुस्थित[म्] / नादव[त्] श्रोत्रस्य वायुधर्मग्राहकत्वे वायवीयत्वप्रसङ्गलक्षणतर्कपुरस्कारेण प्रमाणं दर्शयित्वा श्रोत्रेण नभःप्रकृतिकेन तीव्रत्वादीनां वायुधर्मत्वे अग्रहणप्रसङ्गपुरस्कारेण प्रमाणं दर्शयति - तारेति / प्रमाणान्तरेणापि वायवीयत्वं निराकरोति - वायुत्वेति। सर्वत्र विपक्षे बाधकाभावमाशक्य निराकरोति - यदि चेति / श्रोत्रस्य नभःप्रकृतिकत्वमाह - अवश्यं चेति / ध्वनीनां वायवीयत्वे उक्तदोष: न तु नाभसत्व इति मन्यमानः शङ्कते - सन्त्विति / ध्वनयो हि नाभसाः विभुद्रव्यसमवायिकारणत्वात् गुणा एवेति तद्धर्मास्तारतरत्वादयः सामान्यरूपा गकारादिषु प्रतिभासमानेषु न प्रतिभासेरन् / प्रतिभासते च प्रतिभासमानेषु गकारादिष्वित्याशयवानाह - नेति / ध्वनीनामिति / तारतरत्वादिसामान्यसमवायिनीनां व्यक्तीनामित्यर्थः / ननु व्यक्तिप्रतिभासो न भविष्यति भविष्यति च जातिप्रतिभास इत्यत आह - न चेति। कुत इत्यत आह - कारणाभावादिति / यदि तु कश्चिद् वैयात्यानशपातनवनुगादिषु प्रतिभासमानेषु तारइत्यनेन(ना)कारेण तारत्वसामान्यविशिष्टे[षु] ध्वनिरपि प्रतिभाति / 'रक्तः पटः' इत्यत्र सवुक्त(?संयुक्त)द्रव्यददिभि(?व्यं तदिति)२ तं प्रति वक्तव्यम् / किं वक्तव्यम् ? 'तारो गकारः' इत्यत्र धर्मद्वय(यं) तत् प्रतिभासते न वा ? न प्रथमो गत्व-तारत्वसामान्ययोरबाधिता[55B]सामानाधिकरण्यानुभवविरोधात् / द्वितीये तु नभोजन्य(न्या)तिरिक्ताकारसिद्धौ प्रमाणाभावः / न चैवं रक्तः पट इत्यत्रापि धर्मद्वयानवभासादारो१-२. भ्रष्टः पाठः /