________________ 61 * न्यायकुसुमाञ्जलि स्तबकः 2 51. क्वचित् शास्त्रस्य विशेषणनिष्ठत्वाद् विरोधोऽपि नास्तीत्याह - एतेनेति / विशेषणनिष्ठतामाह - उभयेति / उभाभ्यां संयोगिभ्यां संयोगो निरूप्यते, तेन तदभावोऽपि तयोरेवेति / व्यापकनिवृत्त्या लिङ्गेन व्याप्यनिवृत्तिर्यत्र तत्राश्रयग्रहणमुपयुज्यते, तदग्रहे आश्रयासिद्धिरित्याह - अन्यथेति / [54A] आश्रयग्रहणपक्षेऽपि न प्रत्यक्षेणैवेति किन्तु येनकेनचिदिति वर्णितं प्रकृतोपयोगादित्याह - तत्रापीति / एवं चेत् 'इह भूतले घटो नास्ति' इत्यत्र कथं प्रत्यक्षेणैव भूतलग्रहणमित्यत आह - क्वचिदिति / आश्रयग्रहणनियमाभावश्च सूत्रकारस्य सम्मत इत्याशयवानाह - यदि चेति / असिद्धत्वादिति / अत्र दृष्टान्ततयोपात्तस्य वह्निविनाशस्याप्रतीतेरित्यर्थः / असिद्धिमेव व्युत्पादयति - न हीति / हेतोरेवेति / आश्रयाप्रसिद्ध्या अनुपलभ्यमानत्वादित्यस्य हेतुत्वेनानिरूपणादित्यर्थः / प्रकारान्तरमाशङ्क्य परिहरति - नापीति / न च निमित्तनाशोऽप्यसिद्धः, इन्धनविनाशस्याङ्गारेषु प्रत्यक्षसिद्धत्वात्, ततोऽन्यत्र गमनाभावः तत्प्रध्वंसश्चेति सर्वमित्यर्थः / अनियममु[प]सहरति - तस्मादिति / अत एवेति / यत एवानियमो अत एव तमस प्रत्यक्षत्वमभावस्येति एवं सो(स)र्यमणौ / गकारो नास्ति अनुत्पन्ना(त्ति)काला(ले) इति प्रत्यक्षेणैव शब्दप्रागभाव: प्रतीयत इत्याशयवानाह - एतेन इति / व्याख्यात इति / प्रत्यक्षतयेति शेषः / एवं प्रत्यक्षेणानित्यत्वे साधिते प्रमाणसम्प्लव(वात्) कारणानुमानेनाप्येवमि[त्यनि]त्यत्वं साधयति , एवमिति / प्रत्यभिज्ञानबाधमाशङक्य तदयथार्थत्वेन निरनयोज्यानयोगाभिप्रायेण परिहरति चेदमिति / नेदमयथार्थं येनाबाधकमित्याशङ्कते - नैवमिति / स्वत इति स्वयमित्यर्थः / तर्हि ज्वालाप्रत्यभिज्ञानमप्येवमिति प्रमाणमिति तद्भेदग्राहिप्रमाणमास्कन्दत्येवेति मन्यमानः परिहरति - तुल्यमिति / अथ दृढतरप्रमाणसमधिगतभेदविषयतया तदप्रमाणम्, प्रकृतेऽप्येवमिति शङ्कोत्तराभ्यामाह - ज्वालायामिति / ननु तत्र प्रमाणभेदो वा भेदकस्वरूपभेदावभासो वाऽस्ति / शब्दे तु न परिमाणादिकमिति यदि कश्चिद् ब्रूयात् तत्र विरुद्धधर्मसंसर्गमाह - [54B] शब्देऽपीति / तीव्रो गकारो मन्दो गकार इति तीव्रत्वमन्दत्वादेर्धर्मभेदस्य शब्देऽपि सत्त्वात्, उपलक्षणं चैतत् / धर्मभेदादयं गौ अशुक्लोऽयं च शुक्ल इति वदयं पकारो मन्दोऽयं च तीव्र इति धर्मभेदावगाहिनी प्रतीतिरप्यस्तीति तुल्यमित्यर्थः / पारमार्थिकविरुद्धधर्मसम्पर्को भेदको न तु विपरीत इत्याशङ्क्याह - तदिहेति / तदेतदन्यत्र स्वाभाविकत्वसाधकयुक्तितुल्यतया न भवदभिमतं तु [सं]गच्छतीत्याशयेनान्यत्र सिद्ध न्यायसमानत्वं संदर्शयन् परिहरति - नेति / उक्तविशेषमनाकलय्य पुनः शङ्कते - तत् किमिति / उत्तविशेषविभावनेन परिहरति - नेति / अन्यधर्मत्वस्थितिः / शब्दं विहायान्यस्य सन्निहितस्य कस्यचित् तारतारतरत्वादयो धर्मा इति न व्यवस्थितिरिति यतस्तद्विरुद्धधर्मत्वमिति / तद्धर्मिण इति तीव्रत्वादिधर्मिण इत्यर्थः / ____52. तथापि शङ्का स्यादिति चेत् / एवमियं सर्वत्र ? तथा च न क्वचित् कुतश्चित् सिद्धयेत् / न चैतच्छङ्कित्तुमपि शक्यते / अप्रतीते संस्काराभावात् / संस्कारानुपनीतस्य चारोपयितुमशक्यत्वात् / न च ध्वनिधर्मा एव गृह्यन्ते / स्पर्शाद्यनन्तर्भावेन भावेषु त्वगादीनामव्यापारात् / न च श्रवणेनैव तद्ग्रहणम् / अवायवीयत्वेन तस्य वायुधर्माग्राहकत्वात् चक्षुर्वत् तारतारतरत्वादयो वा न वायुधर्माः श्रावणत्वात् कादिवत् / वायुर्वा न श्रवणग्राह्यधर्मा मूर्तत्वात् पृथिवीवत् / यदि च नैवं कादीनामपि भवतः / अवश्यं च श्रवसा ग्राह्यजातीयगुणवता भवितव्यम्, बहिरिन्द्रियत्वाद् घ्राणादिवत् / सन्तु ध्वनयोऽपि नाभसाः, तथा च तद्धर्मग्रहणं श्रवसोपपत्स्यत इति चेत्, न / तारस्तारतरो वाऽयं गकार