________________ 60 * वामध्वजकृता सृङ्केतटीका गुणक्रियापटध्वंसदेशत्वं न त्वयमदेशत्वम् / नन्वयमदेश एवेति पुनरपि बाध इति चेतसि निधायाह - एवमिति। अनेन क्रमेणास्मदभिमतप्रतियोगिनात्र निरूपणीयत्वमेव सिद्धं न भवदभिमतप्रतियोग्यधिकरणनिरूपणीयत्वमित्याशयवान् परिहरति - न तहीति / एतदेवोपसंहरति - तस्मादिति / यस्येति भावस्य / तमिति ग्राह्यं तदविनाभूतेन्द्रियसन्निकर्षणेत्यर्थः / यत्र क्वचिदिति तदेतत्प्रतियोगिसमवायिनि देश इति निरस्तम् / प्रमाणसिद्धदेशनियमवत् प्रमाणनियमोऽप्युभयसिद्ध इत्याशयवानाह - इयांस्त्विति / सतीत्वं योग्यानुपलम्भसहकृतत्वम् / असतीत्वमयोग्यानुपलम्भसहकृतत्वम् / योग्यानुपलम्भसहकृतलोचनेन घटाद्यभावग्रहणमिति प्रत्यक्षेण, देशान्तरस्थितदेवकुलादौ योग्यानुपलम्भाभावादनुमानेनाभावग्रहणमित्युभयसिद्धमित्यर्थः। आदिग्रहणादाप्तवचनेनापि यथा 'इह प्रदेशेऽग्निर्नास्ति' इति / स्थितिर्व्यवस्थितिरविरोधात् प्रामाणिकत्वाच्चेति / 51. एतेन 'सद्भयामभावो निरूप्यते' इत्यादिशास्त्रविरोधः परिहृतो वेदितव्यः / उभयनिरूपणीयप्रतियोगिविषयत्वादनुमानविषयत्वाच्च / अन्यथा आश्रयासिद्धिप्रसङ्गात् / तत्रापि न ग्रहणे नियमः, ज्ञानमात्रं तु विवक्षितम्, तावन्मात्रस्यैव तदुपयोगात्, क्वचिद् ग्रहणस्य सामग्रीसम्पातायातत्वात् / यदि चाधिकरणग्रहे शास्त्रस्य निर्भरः स्यात्, 'वह्वेर्दाह्यं विनाश्यानुविनाशवत् तद्विनाशः' [ न्यायसूत्र, 4.1.27] इति नोदाहरेत्, असिद्धत्वात् / न हि वह्निविनाशस्तदवयवपरम्परास्वेव निरूप्यः / तासामनिरूपणात् / नाऽप्यन्यत्र गमनाभावादिना पारिशेष्यादनुमेयः / हेतोरेव निरूपयितुमशक्यत्वात् / आश्रयानुपलब्धेः / नापि निमित्तविनाशात् सर्वमिदमेकवारेण सेत्स्यति इति युक्तम् / तस्यानैकान्तिकत्वात् / तेजसा विशेषितत्वादयमदोष इति चेत्, न / व्याप्त्यसिद्धेः / न हीन्धनविनाशात् तेजोद्रव्यमवश्यं विनश्यतीति क्वचित् सिद्धम्, प्रत्यक्षवृत्तेरनभ्युपगमात् / तस्माद् यत्त्यागेनान्यत्र गमनं न सम्भाव्यते तेन निमित्तादिनाऽपि देशेन प्रध्वंसो निरूप्यते इत्यकामेनापि स्वीकरणीयम्, गत्यन्तराभावात् / अत एव तमसः प्रत्यक्षत्वेऽप्यभावत्वमामनन्त्याचार्याः / एतेन शब्दप्रागभावो व्याख्यातः / एवं स्थिते अनुमानमप्युच्यते / शब्दोऽनित्यः उत्पत्तिधर्मकत्वात् घटवत् / न चेदं प्रत्यभिज्ञानबाधितम् / तस्य ज्वालादिप्रत्यभिज्ञानेनाविशेषात् / नैवमबाधितस्य तस्य स्वतः प्रमाणत्वादिति चेत्, तुल्यम् / ज्वालायां तन्नास्ति, विरुद्धधर्माध्यासेन बाधितत्वात्, अन्यथा वेदव्यवहारविलोपप्रसङ्गो निमित्ताभावात्, आकस्मिकत्वे वा अतिप्रसङ्ग इति चेत, तुल्यम् / शब्देऽपि तीव्रतीव्रतरत्वमन्दमन्दतरत्वादेर्भावात् तदिह न स्वाभाविकमिति चेत्, न / स्वाभाविकत्वावधारणन्यायस्य तत्र तत्र सिद्धस्यात्रापि तुल्यत्वात् / न ह्यपां शैत्यद्रवत्वे स्वाभाविके तेजसो वा औष्ण्यभास्वरत्वे इत्यत्रान्यत् प्रमाणमस्ति प्रत्यक्षाद् विना / तत्तथैव युज्यते, अन्यस्योपाधेरनुपलम्भान्नियमेन तद्गतत्वेन चोपलम्भादिति चेत्, तुल्यमेतत् / तथाप्यतीन्द्रियान्यधर्मत्वशङ्का स्यादिति चेत्, एतदपि तादृगेव / तत् किं यद्गतत्वेन यदुपलभ्यते तस्यैव स धर्मः / नन्वेवं पीतः शङ्खः, रक्तः स्फटिकः, नीलः पट इत्यपि तथा स्यादविशेषात् / न / पीतत्वादीनामन्यधर्मत्वस्थितौ शङ्खादीनां च तद्विरुद्धधर्मत्वे स्थिते जपाकुसुमाद्यन्वयव्यतिरेकानुविधानाच्च बाधेन भ्रान्तत्वावधारणात्, न चेह तारतारतरत्वादेरन्यधर्मत्वस्थितिः / नापि शुकसारिकादिगकाराणां तद्विरुद्धधर्मत्वं नाप्यन्यस्य तद्धर्मिणोऽन्वयव्यतिरेकावनुविधत्ते /