SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ 59 * न्यायकुसुमाञ्जलि स्तबकः 2 स्थीयते तदा दूषणान्तरमपीत्याह - न चैवमिति / प्रतियोग्यधिकरणमिति हि प्रसिद्धिर्न त्वन्यथा / प्रकृते तु तथा नास्तीत्यर्थः / न त्वत्र एवंभूतमधिकरणमुपादाय नियमं ब्रूमः, किन्त्वन्यादृशमेवेत्यतो नेदमनिष्टमस्माकमित्यत आह - न च तेऽपीति / तथा च प्रत्यक्षेण 'ध्वस्तः शब्दः' इति प्रतीत्यनुदयप्रसङ्ग इति शब्दलिङ्गमितैरुपाधिभिरानुमानिकशब्दध्वंसव्यापारो भविष्यतीत्याशङ्कते - आनुमानिकैरिति / परिहरति - न हेतोरिति / सशब्दा अपि वीणा कदाचिच्छब्दवत्तया नोपलभ्यते / स(श)ब्दा हि तत्र श्रोत्रेणौवोपलभ्यते(न्ते) न तु वीणा, तस्या अश्रोत्र(श्रौत)त्वादित्यर्थः / अनैकान्तिकत्वमुक्त्वा प्रकारान्तरमाश्रित्य संदिग्धाश्रयत्वमाह - अभावेति / यदा शब्देनानुमिता वीणा तदा अनैकान्तिकत्वम् / यदा तु शब्देनापि नानुमीयते व्यवधानादिभावे न प्रत्यक्षा तदा कि विद्यमानैव वीणा नोपलभ्यते आहोस्विदविद्यमानेति संदिग्धाश्रयत्वमित्यर्थः / अथ संदिग्धाश्रयत् उपलभ्यमानैव वीणा [53A] पक्षी क्रियत इत्यत आह - उपलभ्यमानेति / असिद्धेराश्रयासिद्धेरित्यर्थः / यदा हि लातारिकुञ्जावरिभाव(वा)दिवीणाध्वनिश्च न्नो(नो)पलभ्यते तदा तावत् प्रत्यक्षेण वीणोपलब्र्धिनास्ति व्यवहितत्वात् / नाप्यनुमानेन लिङ्गाभावात् / नाप्याप्तवचनात् तस्याप्यभावादेवेति / यदि च प्रतियोग्याश्रयेणैव निरूप्यते अभावस्तदा आश्रयनाशेन निरूप्येत [त]थापि निरूप्यते चाश्रयनाशोऽपीत्युभयवादिसिद्ध इत्याशयवानाह - इति चेन्न, तुल्यन्यायेनेति / स्वरूपेणाकाशादीनां पक्षत्वे आश्रयासिद्धानैकान्तिकयोरित्युक्तत्वेनेत्यर्थः / न तत् कार्यपरम्परावदिति / किं तन्त्ववयवानां पटानाधारत्वं साध्यमथ पटप्रध्वंसाधारत्वम् ? उभयथापि सिद्धसाधनबाधाभ्यां यथाक्रममनुपपन्नमित्याह - नेति / 50. ये पटध्वंसवन्तस्तन्तवस्तदभाववन्त एते अंशव इति साध्यमिति चेत्, न तन्तुनाशोत्तरकालं पटनाशात् तद्वत्तानुपपत्तेः / योग्यतामात्रसाधने च पटध्वंसासिद्धेः / तस्य नाशानाशयोः समानत्वात् / अनन्यगतिकतया विशिष्टनिषेधे कृते विशेषणानामप्यभावः प्रतीतो भवति / गुणक्रियावत्पटाधारास्तन्तवो न सन्ति स्वावयवेष्विति हि प्रत्यय इति चेत्, तथापि गुणकर्मणां पटस्य च प्रध्वंसः किमधिकरणः प्रतीयते इति वक्तव्यम् / अंश्वधिकरण एवेति चेत्, भ्रान्तिस्तीयम् / तस्यातद्देशत्वात् / आश्रयावच्छेदकतया तेषामपि अदरविप्रकर्षेण तद्देशत्वम. एवम्भतेनापि देशेन तन्निरूपणम, योग्यताया अव्यभिचारादिति चेत् / न तर्हि प्रतियोगिसमवायिदेशेनैव प्रध्वंसनिरूपणमिति नियमः, प्रकारान्तरेणापि निरूपणात् / तस्माद् यस्य यावती ग्रहणसामग्री तं विहाय तस्यां सत्यां तदभावो यत्र क्वचिन्निरूप्यो देशे काले वा। इवास्तु विशेषः / सा सती चेत्, प्रत्यक्षेण, असत्येव ज्ञाता चेत्, अनुमानादिनेति स्थितिः / 50. पूर्वोक्तदोषभिया पटध्वंसविशिष्टतन्तुप्रध्वंसवत्त्वमंशूनामाशङ्ग्य प्रकारान्तरेण बाध-सिद्धसाधनमाह - ये इति / यत्र हि विशिष्टनिषेधे सति विशेष्यसिद्धौ प्रमाणान्तरगतिरस्ति तत्र विशेषणमात्रपर्यवसायी निषेधः यथा 'न प्रतीचीशिराः शयीत' इति / यत्र तु विशेष्यसिद्धौ गत्यन्तरं प्रमाणान्तरं नास्ति तत्र विशिष्टमेव निषिध्यते यथा 'न जीर्णमलवद्वासा(सः) स्नातकः' इत्यत्र जीर्णवत्तामलवत्ताविशिष्टवासो निषिध्यते एवं प्रकृते इति / गुणक्रियावत्पटाधारतन्तुनिषेधे सति गुणकर्मपटानामपि निषेध इत्याशयवान् शङ्कते - अनन्येति / अन्यस्य विशेष्यस्य सिद्धौ गतिः प्रमाणान्तरसद्भावोऽन्यगतिः, न तथेत्यनन्यगतिरित्यर्थः / अत्र बाध इति हृदि निधाय प्रश्नद्वारेण परिहरति - तथापीति / प्रतियोग्यधिकरणाभिप्रायेण [53B] परोऽप्युन्नयति - अंश्विति / पूर्व हदिस्थितं बाधं प्रकटयति - भ्रान्तीति / नात्र प्रतियोगिदेशेन निरूपणं येनोक्तदोषः किन्तु यथाकथञ्चिद्देशता तथा च न बाध्या(धा)दिरित्याशङ्कते - आश्रयेति / गुणक्रियावत्पटाश्रयतन्त्ववच्छेदकानामंशूनाम्, तेषां तद्देशत्वं
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy