SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ___58 * वामध्वजकृता सङ्केत्तटीका तदेष उपभुज्येत, न चोपभुज्यते, तस्मान्नास्तीत्याशयवानाशङ्कते - अनुपभोगे(ग्ये)ति / तदेत[द] नैकान्तिकत्वं न(च) परिहरति - नाद्येति / आद्यानां शब्दानामनुपभोग्यानामप्युत्पादः स्वीक्रियते / तथा तथाऽनुपलभोग्य(पभोग्य)स्याप्युत्पादो भविष्यतीत्यर्थः / उपभोग्यशब्दारम्भकत्वेन परम्परयोपभोग्य(पयोग)त्वान्नोक्तदोषः / प्रकृतस्य तु न परम्परयाऽप्युपयोग इति मन्यमानः पुनः शङ्कते - तेषामिति / प्रकृतस्याप्युत्पादसम्भवेनात्यन्ता(नान्त्यत्वा)सिद्ध्याऽनुपभोग्यत्वासिद्धिरित्याशयवान् परिहरति - नान्येति(नान्त्यत्वेति) / बधिरश्रवसो निःशब्दत्वे प्रमाणाभावमुक्त्वा शब्दसद्भावे प्रमाणमस्तीति प्रतिपादयति - विवादेति / यदा देशनिवासिभिः श्रोत्रवद्भिरुपलभ्यते शब्दस्तदा तत्रेत्यर्थः / अन्यदा अन्यत्र न निःशब्दत्वमस्माभिरभ्युपेयते / धर्म्यन्तरमुपादाय प्रमाणान्तरमाशङ्कते - निःशब्देत्यादीति / 'शब्दवती वीणा' इत्येकज्ञानेन शब्दो वीणा च विषयीक्रियत इत्यनुभवसिद्धमशक्यापह्नवमिति / अत्र च निःशब्दा इति किं शब्दप्रध्वंससहिता इति साध्यार्थः किं वा शब्दसमवायित्वविरहिणः ? तत्राप्यसिद्धिबाधाभ्यां यथाक्रमं नाद्य इत्याह - न, एकेति / अतद्देशत्वादिति / तथा च बाध इत्याशयः / द्वितीये सिद्धसाधनमित्यभिप्रायवान् नियतकालप्रतीत्यनुपपत्तिमाह [52B] - अत्यन्तेति / 49. स्यादेतत् / शब्दवदाकाशोपाधयो हि भेर्यादयः / तेन तेषु विधीयमानः शब्द आकाश तत्र सोपाधावात्मनि प्रत्यक्षसिद्धे सुखादिनिषेधस्यापि प्रत्यक्षसिद्धत्वात् / न चैवमिहापि, तदुपहितस्य नभसोऽप्रत्यक्षत्वात् / उपाधयस्तावत् प्रत्यक्षा इति चेत्, न / तैरभावानिरूपणात् / निरूपणे वा प्रत्यक्षेणापि ग्रहणप्रसङ्गात् / न चैवं सति पारमार्थिकाधिकरणनिरूपणीयत्वमभावस्य / न च तेऽपि प्रत्यक्षसिद्धाः / सर्वत्र शब्दकारणव्यवधानेऽप्युलब्धस्य शब्दस्य नास्तिताप्रतीतेः / आनुमानिकैस्तैस्तथाव्यवहार इति चेत्, न / हेतोस्तद्वत्तयाऽनुपलभ्यमानत्वस्यानैकान्तिकत्वात् / अभावप्रतीतिकाले संदिग्धाश्रयत्वाच्च / उपलभ्यमानविशेष्यत्वपक्षे चासिद्धेः / इन्द्रियव्यवधानाच्छब्दलिङ्गस्य चानुपलम्भात् / अपि च नष्टाश्रयाणां द्रव्यगुणकर्मणां नाशोपलम्भः कथम् ? न कथञ्चिदिति चेदाश्रयनाशात् कार्यनाश इति कुत एतत् ? अनुमानतस्तथोपलम्भादिति चेत्, न / तुल्यन्यायेनोक्तोत्तरत्वात् / तन्तुषु नष्टेष्वपि यदि पटो न नश्येत्, तद्वदेवोपलभ्येतेति चेत् / एतस्य तर्कस्यानुग्राह्यमभिधीयताम् / यदेवोपलभ्यते न तत् कार्यपरम्परावत्, योग्यस्य तथानुपलभ्यमानत्वे सति उपलभ्यमानत्वादिति चेत्, न / तन्त्वयवानां पटानाधारत्वे साध्ये सिद्धसाधनात् / पटध्वंसवत्त्वे साध्ये बाधितत्वात् / तस्य स्वप्रतियोगिकारणमात्रदेशत्वात् / 49. शब्दा अन्योन्याभाववत् इत्यात्रापि सिद्धसाध्यता बोद्धव्या / उपाधौ विधिनिषेधावुपाधिमति भवत इति द्रष्टव्यमिति मन्वानः शङ्कते - स्यादेतदिति / न्य(न) अन्यत्र तौ क्रियमाणावन्यत्र क्वापि किन्तु तत्रैवेति नियम इत्याशयवान् परिहरति - न तत्रेति / अन्यत्राप्युपाधिमति निषेधो भविष्यति, न चैवम्, कुतः ? इत्यत आह - उपहितस्येति / अनुमानस्य चोक्तक्रमेण प्रवृत्त्यनुपपत्तेः / प्रतिषेध्य(षिद्ध्य)मानः इत्यस्यैवार्थस्यासिद्धौ दूरे उपाधिमति प्रतिषेधसिद्धिरिति भावः / उपाधिप्रत्यक्षत्वमाशङ्क्यानुमानानुपपत्तिमाह - उपाधय इति / प्रत्यक्षेणापीति दृश्याधारत्वदृश्यप्रतियोगिकत्वयोः सभावा(संभवा)दिति ह[द]यम् / यदि च तेष्वभावनिरूपणमा
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy