________________ 57 * न्यायकुसुमाञ्जलि स्तबकः 2 48. न चोपलब्धोपलभ्यमानाभ्यामेवेन्द्रियं सन्निकृष्यते / इतरेतराश्रयप्रसङ्गात् / तस्मात् सन्निकर्षे सति योग्यत्वाद् भूतलमप्युपलभ्यते, न तु तस्योपलभ्यमानत्वमभावोपलब्धेरङ्गमिति युक्तमुत्पश्यामः / प्रकृते तु न प्रतियोगिनिरूपणार्थं तदुपयोगः / तस्य संयोगवदाधारानिरूप्यत्वात् / नापि सन्निकर्षार्थम्, तदभावस्य साक्षादिन्द्रियसन्निकर्षादिति / न चेदेवम्, कुत एषा प्रतीतिरिदानीं श्रुतपूर्वः शब्दो नास्तीति / अनुमानादिति चेत्, न / शब्दस्यैव पक्षीकरणे हेतोरनाश्रयत्वात् / अनित्यत्वमात्रसाधने अभावस्य नियतकालत्वासिद्धेः / आकाशस्य पक्षत्वे तद्वत्तयाऽनुपलभ्यमानत्वस्य हेतोरनैकान्तिकत्वात् / शब्दसद्भावकालेऽपि तस्य सत्त्वात् / एवं कालपक्षेऽपि दोषात् / अहमिदानीं निःशब्दश्रोत्रवान्, शब्दोपलब्धिरहितत्वात्, बधिरवदिति चेत्, न / दृष्टान्तस्य साध्यविकलत्वात् व्याहतत्वाच्च / बधिरश्च श्रोत्रवांश्चेति व्याहतम। तस्यापि च श्रवसो निःशब्दत्वे प्रमाणं नास्ति / अनुपभोग्यस्य उत्पादवैयर्थ्य प्रमाणमिति चेत्, न / आद्यादिशब्दवदुपपत्तेः / तेषां शब्दान्तरारम्भं प्रत्युपयोगोऽन्त्यस्य न तथेति चेत्, न / अन्त्यत्वासिद्धेः / सर्वेषां चोत्पादवतां प्रयोजनतदभावयोरस्मादृशैरनाकलनात् / सुषुप्त्यवस्थायां श्वासप्रश्वासप्रयोजनवच्च तदुपपत्तेः / आरम्भे हि सति प्रयोजनमवश्यमिति व्याप्तेः / न त्वापाततः प्रयोजनानुपलम्भमात्रेणारम्भनिवृत्तिः / तथा सति कर्णशष्कुल्यवच्छेदोत्पाद एव नभसस्तं प्रति निवर्तेत / बधिरस्य तेनानुपयोगात् / विवादकाले बधिरकर्णः शब्दवान्, योग्यदेशस्यानावृतकर्णशष्कुलीसुषिरत्वात् तदितरकर्णशष्कुलीसुषिरवदिति / निःशब्दाः पणववीणावेणवः तदेकज्ञानसंसर्गयोग्यत्वे सति तदनुपलम्भेऽप्युपलभ्यमानत्वात् / यद् यदेकज्ञानसंसर्गयोग्यस्य अनुपलम्भेऽप्युपलभ्यते तत् तदभाववत् यथा अघटं भूतलमिति चेत्, न / एकज्ञानसंसर्गयोग्यत्वाभावात्, शब्दस्य श्रौत्रत्वाद् वीणादीनां चाक्षुषत्वात् / अभिमानमात्रादिति चेत्, न, तथापि शब्दप्रध्वंसस्यातद्देशत्वात् अत्यन्ताभावस्य च कालानियमात् / 48. ननु यदि संयोगाभावप्रतीतौ सन्निकर्षमात्रार्थं भूतलस्योपयोगः स्यात् ततो नियमेन भूतलोपलम्भो न स्याद् यथा गन्धतदभावयोरन्यतरग्रहे दृश्योपलम्भः / तस्मान्न सन्निकर्षवदस्योपलब्धिरभावोपलब्धौ सत्यां सन्निकर्षो न त्वन्यथेति / न चेति / तत्र चोपलब्धेनेन्द्रियसन्निकर्षपक्ष(क्षे) सुव्यक्तमितरेतराश्रयत्वम् / उपलभ्यमानेनेत्यत्र त किमुपलब्धिसम्बन्धिना भूतलेनेत्यभिहितं सन्निहितभतलोपलम्भकारणेन वा ? प्रथमे पर्ववदितरेतराश्रयत्वात् / द्वितीये त्वेकसामग्रीप्रस्तु(सू)तत्वेनाभावप्रतीत्यङ्गत्वमशक्यवर्जनत्वादित्युपसंहारव्याजेनाह तस्मादिति / तन्वेवमेव प्रकृतेऽपि भविष्यतीत्यत आह - प्रकृते त्विति / तदुपयोगोऽधिकरणोपयोगः / तस्येति प्रतियोगिनः शब्दस्येत्यर्थः / तदभावस्येति सद्भावस्येत्यर्थः / विशेषणत्वादभावानामिति भावः / अवश्यं चैवंप्रकारोऽभ्युपगन्तव्यो गत्यन्तराभावादित्यत आह - न चेदेवमिति / परो गत्यन्तरमाशङ्कते - अनुमानादिति / अनुपलभ्यमानत्वाल्लिङ्गादित्यर्थः / ननु शब्दसद्भावकाले प्रध्वंसो नास्ति न चानुपलभ्यमानत्वमपि / तदभावकाले वा धर्मिणो अभावात् कश्चिन्नाश्रयहेतु(तुः) प्रध्वंसं साधयेदित्याशयवानाह [52A] - न शब्दस्यैवेति / अथोपलभ्यमान एव शब्दः पक्षः, अनित्यत्वं च साध्यम्, हेतुश्च 'जातिमत्त्वे सति अस्मदादिबाह्यकरणप्रत्यक्षत्वात्' इत्यादि भविष्यतीत्यत आह - अनित्यत्वेति / शब्दपक्षीकरणपक्षे दूषणमभिधायाकाशकालपक्षीकरण अनैकान्तिकत्वं दूषणमाह - आकाशस्येति / आत्मपक्षीकरणमाशय साध्यविकलत्व-दृष्टान्तव्याघाताभ्यामपाकरोति - अहमिति / व्याघातं व्याख्याय साध्यविकलत्वं दृष्टान्तस्योक्तं विवृणोति - तस्यापीति / ननु यदि शब्दः स्याद् बधिर श्रवसि