________________ 56 * वामध्वजकृता सृङ्केत्तटीका याधारत्वात् सत्प्रतिपक्षत्वम्, योग्यताविरहप्रयुक्तत्वाद् व्याप्तेः / न चातीन्द्रियाधारत्वमेव तस्य योग्यताविरहः / तद्विपर्ययस्यैव योग्यतात्वापत्तेः / न चैवमेव, धर्मादिप्रध्वंसग्रहणप्रसङ्गात् / दृश्याधारत्वं दृश्यप्रतियोगिता चेति द्वयमप्यस्य योग्यतेति चेत्, न / उभयनिरूपणीयत्वनियमानभ्युपगमात् / प्रतियोगिमात्रनिरूपणीयो ह्यभावः / अन्यथेह भूतले घटो नास्तीत्येषाऽपि प्रतीतिः प्रत्यक्षा न स्यात् / संयोगो ह्यत्र निषिद्धयते, तदभावश्च भूतलवद् घटेऽपि वर्तते, तत्र यदि प्रत्यक्षतया भूतलस्योपयोगः, घटस्यापि तथैव स्यादविशेषात् / अथ घटस्यान्यथोपयोगः, भूतलस्याप्यन्यथैव स्यादविशेषात् / कथमन्यथेति चेत् / प्रतियोगिनिरूपणार्थमभावसन्निकर्षार्थं च / तत्र प्रतियोगिनिरूपणं स्मरणलक्षणमनुपलभ्यमानेनापीति, न तदर्थमध्यक्षगोचरत्वमपेक्षणीयमन्यतरस्यापि; कुत उभयस्य / सन्निकर्षस्तु, भूतलघटसंयोगाभावस्येन्द्रियेण साक्षान्नास्ति, येनास्ति तेनापि यदीन्द्रियं न सन्निकृष्येत, कथमिव तं गमयेत् / 47. ननु तथापि कथं सम्बन्धमन्तरेण विशेषणत्वमिति शङ्कामुपसंहरन्नेवापनयति - तस्मादिति / तयोरभावसमवाययोरित्यर्थः / कथं तहि विशेषणतेत्यत आह - सैव चेति / न तु या विशिष्टप्रत्ययजननयोग्यता सा सम्बन्धविशेषणतया विशिष्टप्रतीतिमुत्पादयन्ती दृष्टेति / प्रकृतेऽपि सम्बन्धविशेषणतयैव प्रतीति जनयेदित्याशङ्कते - तथापीति / न विशेषणमात्रमेवं किन्तु गृह्यमाणविशेष्यविशेषणमित्याह - नेति / एवमभ्युपगमे अन्यत्रापि कथं प्रतीकार इत्याह - अन्यथेति / रूपादिः सम्बद्धविशेषणतया गृह्यते न तु गन्धादिः तदाश्रयाग्रहेऽपि गन्धस्य प्रतीति(तिः) / तत्रापि सुल[भ]मेतत् गुणस्य सम्बद्धविशेषणतया ग्रहणमन्यत्र दृष्टमन्यत्रापि तथा स्यादिति / ननु तथापि सर्वस्य विशेषणस्येन्द्रियसम्बद्धविशेषणतया ग्रहणं दृष्टं नेन्द्रियविशेषणतयेति मन्वानः शङ्कते - तथापीति / तद्विशेषणं तदेवमिति न नियमः किन्तु [51A] विशेषणविशेष्ये इत्याह - तस्येति / इन्द्रियसन्निकृष्टोऽर्थो घटादिः, तस्य प्रतिसम्बन्धी द्वितीयः सम्बन्धी यः स तथेति त्वयाप्येवमेव स्वीकरणीयमन्यथा गुणानां संयुक्तसमवायेन ग्रहणदर्शनात् तदभावे शब्दस्याग्रहणप्रसङ्ग इत्याह - अन्यथेति / तदेवमुपाधिलक्षणविरहेणोपाधि निराकृत्य प्रथमस्यासिद्धिप्रदर्शनेन सत्प्रतिपक्षत्वमपाकृत्य द्वितीयस्य सत्प्रतिपक्षत्वाशङ्कां निराकरोति - नापीति / तदेतदुपाधिसम्बन्धिना तुल्यबलमतो न प्रतिसाधनमित्यर्थः / ननु न दृश्याधारतामात्रयोग्यता किन्तु दृश्यप्रतियोगितासहिता / न चैतद्धर्मादिप्रध्वंसस्यास्ति / तत् कथमसौ प्रत्यक्षः स्यादित्याशयवान् शङ्कते - दृश्येति / तदुक्तं शास्त्रे - सद्भयामभावो निरूप्यते नैकेन सतेति / अपि च, न सामान्यत: शब्दो नास्तीति प्रतिषेद्धं शक्यते। आत्मा नास्तीतिवद् व्याघातापत्तेः / अत एवाहाचार्यः आत्मपरीक्षायां 'किन्नु गेहे चत्वरे वा चैत्रो निषिध्यते' इति / तथा च क्वचित् कस्यचिदभावः, न चेयं क्वचित्ता देशभेदमनाकलय्य प्रत्येतुमपि शक्या / ततो दृश्याधारत्वमपि दृश्यप्रतियोगित्वमिवोन्नेयमिति सिद्धम् / तदेतन्निकरोति - नोभयमिति / एतेनैव दृश्याधारत्वदृश्यप्रतियोगित्वोभयप्रयुक्तत्वेनाप्रयोजकत्वमध्य(प्य)पास्तमिति / ऐन्द्रियकत्वसाध्यसामान्याव्यापकत्वेनानुपाधित्वादिति पक्षे किं बाधकमित्यत आह - अन्यथेति / यधुभाभ्यां प्रत्यक्षाभ्यामेवाभावः प्रत्यक्षीक्रियते इत्यर्थः / ननु भूतलमात्र[मत्रा] धारः तच्च दृश्यमेवेति किमसङ्गतमित्यत आह - संयोगो हीति / अथ घटस्य(स्या)न्यथेति [51B] / अप्रत्यक्षतया भूतलस्यापि तथैवेति / अन्यथैवेन्द्रियसन्निकर्षार्थतयैवेत्यर्थः / एतदेव प्रश्नपूर्वकं विभज्यते - कथमिति / प्रतियोगिनिरूपणार्थमिति व्याख्यायाभावसन्निकर्षार्थं चेति व्याचष्टे - सन्निकर्षस्त्विति / येनेति अर्थे[ने]त्यर्थः /