SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ 55 * न्यायकुसुमाञ्जलि स्तबकः 2 नानुभूयते / विनाशस्वभावानुभवस्तु केन वार्यते / श्रुतपूर्वो गकारो विनष्ट इति ज्ञानम् इन्द्रियकारणकम् अनन्यथासिद्धेन्द्रियानुविधायित्वात् घटोऽयमिति ज्ञानवदिति वा प्रयोगो द्रष्टव्यः / नैयायिकैकदेशिमते [49B] मानबाधप्रतिबाधनाभ्यां व्याप्यत्वासिद्धिसत्प्रतिपक्षत्वं दूषणमाह - नैतदेवमिति / यथा वाऽनेन सत्प्रतिपक्षत्वं वेदितव्यम् - शब्दप्रध्वंसो नेन्द्रियग्राह्यः, इन्द्रियासन्निकृष्टत्वात् अनुमीयमानपदार्थवदिति / अभावत्वे सति इन्द्रियाधारत्वात् ब्दप्रध्वंसवदिति / इन्द्रियसन्निकष्टप्रयक्तं प्रत्यक्षत्वं वेन्द्रियाधारत्वप्रयक्तं वा अभावप्रत्यक्षत्वमिति व्यतिरेकेण व्याप्यत्वासिद्धत्वमूहनीयम् / इममेवाभिप्रायं परस्परं विकल्प्य दूषयति / इदमुन्नेयमुपाध्युद्भावनं वा / व्यतिरेकेण व्यापकानुपलब्ध्या प्रत्यक्षत्वव्यापकं न त्विन्द्रियसन्निकृष्टमैन्द्रियकाधारत्वानुपलब्ध्या यथा श्रुतेन सत्प्रतिपक्षत्वम् / प्रथममुपाधि तल्लक्षणविरहेण निराकरोति - न प्रथम इति / स्वरूपयोग्यतां प्रत्यक्षोपहितविषयस्वरूपसम्पत्ति प्रति सहकारियोग्यतायाः सहकारिसम्पत्तेरिन्द्रियसन्निकर्षस्यानपाधित्वात् / कथमनुपाधित्वमित्यत आह - तस्या इति / तस्याः प्रत्यक्षतायाः, तामिन्द्रियसन्निकर्षयोग्यतामित्यर्थः / तथा च पक्षे वर्तमानत्वेनोपन्यस्तसाधनव्यापकत्वेनानुपाधित्वमिति तात्पर्यम् / अन्ये तु स्वरूपयोग्यतालक्षणं साध्यं प्रति सहकारियोग्यता नोपाधिरिति बुद्ध्यमानाः साध्याव्यापकत्वमिति वर्णयन्ति / एवं च परिभाव्यं विपश्चिद्भिर्यदुक्तं तद् ग्राह्यं नेतरम् / [50A] द्वितीयमुपाधिं व्यभिचारेण निरस्यति - नापीति / न त्विन्द्रियसन्निकृष्टत्वं विशिष्टमेतदेवोपाधिरस्त्वित्यत आह - अत एवेति / धर्माद्यभावस्य प्रत्यक्षत्वप्रसङ्गादेवेत्यर्थः / एवमुपाधिपक्षं व्युदस्य सत्प्रतिपक्षत्वमाशङ्कितम् यत् तत् परिहर्तुं प्रथमस्यासिद्धिमाह - नापि द्वितीय इति / नापि सत्प्रतिपक्षत्वमिति पक्ष इत्यर्थः / प्रथमस्येति। इन्द्रियसन्निकृष्टत्वादित्यस्येत्यर्थः / एवमुपाधिपक्षे असिद्धिमेव व्युत्पादयति - अस्ति हीति / एतेन प्रकृतसाधनमिन्द्रियसन्निकर्षमुपपादयता साधनव्यापकत्वमुपाधिपक्षे व्यञ्जितव्यम् / ननु विशेषणत्वमभावस्य, तत् तदा स्यात् यदि शब्दप्रध्वंसज्ञाने श्रोत्रमवभासेत / न त्वेवम् / श्रोत्रस्यातीन्द्रियत्वेन प्रत्यक्षज्ञानविषयत्वविरोधात् / अतो न प्रध्वंसस्य तद्विशेषणत्वम् / स्वसम्बन्धी विशेषः अन्यतो व्यावृत्तबुद्धिजननविरहादन्यतो व्यावृत्तबुद्धिविषयत्वविरहाच्च न श्रोत्रस्य विशेष्यत्वमित्याशयवान् विशेषणविशेष्यभावमसहमानः शङ्कते - विशेष्यस्येति / तथा विशेष्यमितरव्यावृत्तविशेष्यमित्यर्थः / यद्यपि श्रोत्रमतीन्द्रियं तथापि शब्दोपलब्धिलिङ्गादितया श्रोत्रज्ञानसहकारिश्रोत्र(मनः)प्रसूतविशिष्टज्ञानविषयो भवति परमाण्वा(ण्व)नुमितिसहकारिवत् / न प्रस्तुतानुमिति[50B] विषया(यः) परोक्षविशिष्टवेदनविषयपरमाणुवत् / तत्र विशेष्यग्रहणमत(तो) विशेषणग्रहणमिति तु वैधर्म्यमितरग्रहणमात्रस्याविशेषादिति तु व्यक्तमित्याशयवानुपसंहरति - नेति / यत्तूक्तम् - 'तथा विशेष्यमव्यवस्थापयतः' इत्यादि तत्राह - तथेति / यदि तथैव विशेषण(णं) स्यात् तदाऽऽत्माश्रयदोष इति तमि(मे)व [वि]वृणोति - विशेषणत्वमिति / 47. तस्मात् सम्बन्धान्तरमन्तरेण तदुपश्लिष्टस्वभावत्वमेव हि तयोः / सैव च विशिष्टप्रत्ययजननयोग्यता विशेषणतेत्युच्यते / सा चात्र दुर्निवारा, प्रतियोग्यधिकरणेन स्वभावत एवाभावस्य मिलितत्वात् / तथापि तया तथैव प्रतीतिः कर्तव्येति चेत्, न / गृह्यमाणविशेष्यत्वावच्छिन्नत्वाद् व्याप्तेः / अन्यथा संयुक्तसमवायेन रूपादौ विशिष्टविकल्पधीजननदर्शनाद् गन्धादावपि तथात्वप्रसङ्गात् / तथापि नेन्द्रियविशेषणतया कस्यचिद् ग्रहणं दृष्टम्, अपि त्विन्द्रियसम्बद्धविशेषणतया, सा चातो निवर्तत इति चेत्, न / अस्य प्रतिबन्धस्य इन्द्रियसन्निकृष्टार्थप्रतिसम्बन्धिविषयत्वात् / अन्यथा संयुक्तसमवायेन गन्धादावुपलब्धिदर्शनात् समवायेनादर्शनात् शब्दस्याग्रहणप्रसङ्गात् / नाप्यभावत्वे सत्यतीन्द्रि
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy