SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 54 * वामध्वजकृता सङ्केतटीका गकारो नास्ति, निवृत्तः कोलाहल इति प्रत्यक्षेणैव शब्दध्वंसः प्रतीयते / न हि शब्द एवान्यत्र गतः / अमूर्तत्वात् / नाप्यावृतः / तत एव सम्बन्धविच्छेदानुपपत्तेः / नाप्यनवहितः श्रोता / अवधानेऽप्यनुपलब्धेः / नाऽपीन्द्रियं दुष्टम्, शब्दान्तरोपलब्धेः / नाऽपि सहकार्यन्तराभावः / अन्वयव्यतिरेकवतस्तस्यासिद्धेः / नाप्यतीन्द्रियम् / तत्कल्पनायां प्रमाणाभावात् / अन्यथा घटादावपि तत्कल्पनाप्रसङ्गात् / न च शब्दस्य नित्यत्वसिद्धौ तत्कल्पनेति युक्तम् / निराकरिष्यमाणत्वात् / ये त्वेकदेशिनो नैवमिच्छन्ति तान् प्रत्युच्यते / विवादाध्यासितः शब्दप्रध्वंसः इन्द्रियग्राह्यः, ऐन्द्रियकाभावत्वात्, घटाभाववत् / नैतदेवम्, इन्द्रियासन्निकृष्टत्वादतीन्द्रियाधारत्वाद् वेति चेत्, न / इदं [पाध्युद्भावनं वा स्यात्, व्यापकानुपलब्ध्या सत्प्रतिपक्षत्वं वा ? न प्रथमः, स्वरूपयोग्यतां प्रति सहकारियोग्यताया अनुपाधित्वात्, तस्यास्तामपेक्ष्यैव सर्वदा व्यवस्थितेः, नाप्यन्द्रियकाधारत्वप्रयुक्तमभावस्य प्रत्यक्षत्वम्, धर्माद्यभावस्यापि तथात्वप्रसङ्गात् / अत एव नोभयप्रयुक्तम् / नापि द्वितीयः, प्रथमस्यासिद्धेः / अस्ति हि श्रोत्रशब्दाभावयोः स्वाभाविको विशेषणविशेष्यभावः / विशेष्यस्यातीन्द्रियत्वात् कथमैन्द्रियकविशिष्टज्ञानविषयत्वम्, तथा विशेष्यमव्यवस्थापयतश्च कथं विशेषणत्वमिति चेत्, न, तथा विशेष्यव्यवस्थापनायाः फलत्वात् / न तु तदेव विशेषणत्वम्, आत्माश्रयप्रसङ्गात् / विशेषणभावेन समवायाभावयोर्ग्रहणम्, तथाग्रहणमेव च विशेषणत्वमिति / __46. अस्तु प्रामाण्यमुत्पत्तौ ज्ञप्तौ च परतः तथापि यत्र वक्ता सम्भवति तत्र तदधीनत्वमस्तु, वेदे तु तदसम्भवात् तमन्तरेणान्यस्माद् ज्ञायते चेति स्वमतश्रद्धया शङ्कते - स्यादेतदिति / तदेतत् कूटस्थनित्यत्वं वा विवक्षितं परं तत्र पुरुषपराधीनतया प्रवाह(हा)विच्छेदमात्रं वा ? तत्राद्यं निषेधति - सर्गप्रलयसंभवेति / सर्गप्रलयसंभवेन उभयस्य नित्यत्वस्य महाजनपरिग्रहस्य चासिद्धरित्यर्थः / वर्णमात्रस्यानित्यत्वं व्युत्पादनेन तद्विशेषा[नां] वेदानां सुतरामनित्यत्वं सिद्ध्यतीत्याशयेन वर्णमात्रस्यानित्यत्वं साधयितुमाह - न हीति / अत्र वर्णप्रध्वंसे प्रत्यक्षं प्रमाणमाह - तथाहीति / प्रत्यक्षस्यानन्यथासिद्धत्वं दर्शयति - तत एवेति / अमूर्तत्वादित्यर्थः / [इन्द्रिय]सम्बन्धविच्छेदो ह्यावरणम् / शब्दस्य चासौ विभुद्रव्यत्वाद् वा आकाशगुणत्वादशक्यसम्पादनमित्यर्थः / तदेवमावरणासम्भवे समवहिते ज्ञातरि इन्द्रियेऽदूषिते सहकारिसंभवे यः प्रतीतो न प्रतीयते तस्य प्रध्वंस: प्रत्यक्षत उपलभ्यत इति समुदायार्थः / एवमुक्ते ये नैयायिकैकदेशिनो अभाव इन्द्रियसम्बन्धविशेषणतया ग्रहीतव्यो न त्वन्यथेति मन्यमानाः शब्दप्रध्वंसो न प्रत्यक्ष इति वर्णयन्ति तान् प्रमाणत: प्रबोधयति - ये त्विति / शब्द[49A] प्रध्वंसमात्रपक्षीकरणेऽस्मच्छब्दस्यापि प्रध्वंसः तथा स्यात तथा चांशे बाधक [इत्यत उक्तं - विवादेति / विवादाध्यासितः श्रूयमाणशब्दप्रध्वंस इत्यर्थः / हेतुः - ऐन्द्रियकेति / ऐन्द्रियकस्याभावत्वादित्यर्थः / नन्वैन्द्रियकस्य घटादिव्यक्तिरूपस्य परमाणोरभावो न प्रत्यक्षस्ततस्तेनानैकाधि(कान्ति)कम् / अथ मनःपरमाणौ घटरूपसंसर्गस्याभावः / स चातीन्द्रिय इत्यनैकान्तिकम् / न हि शब्दसंसर्गस्य गगनेऽभावः / सोऽप्यतीन्द्रिय इत्यस्याप्यन्द्रियकाभावत्वमसिद्धम् / मैवम् / ऐन्द्रियकाभावत्वमैन्द्रियकप्रध्वंसत्वं विवक्षितम् / न च घटरूपस्य परमाणौ प्रध्वंस इति नानैकान्तिकम् / न त्वेतदपि व्य[णु] के त्र्यणुकप्रध्वंसेनानैकान्तिक[म्] / न हि व्यणुकाश्रयस्त्र्यणुकध्वंस इति कस्यचिदिन्द्रियगोचर इति अनुभूयत एतत्त्र्यणुकध्वंसः / यथैते जालान्तरे सूर्यमरीचिनिचयसञ्चारिणस्त्र्यसरेणवो नष्टा इति / परा(र)स्य च नैवं प्रतिपन्नमिति चेत्, न, एतावतापि व्यभिचा[रा] रोहात् तस्याशक्यत्वात् / न व्यणुकगतत्वेनानुभूयत इति चेत्, न, व्यणुकस्यातीन्द्रियत्वात् सम्बन्धो
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy