SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 53 * न्यायकुसुमाञ्जलि स्तबकः 2 प्रवृत्त्यादिकमित्यर्थः / न तु प्रवृत्तेः पूर्वमपि कष्टामि(दृष्टेऽपि) प्रामाण्यमवसीयते / तत्र प्रामाण्यावधारकस्य प्रामाण्यानवधारणे तथापि(तस्यापि) निश्चायकत्वाभावात् / अवधारणे वा अनवस्थानादिति हृदि निधायाह - न चानवस्थापीति / अनवस्था हि फलविज्ञानमाश्रित्य वोच्यते प्रमासाधकतमविज्ञानं वाश्रित्य ? प्रथमेऽपि किमवस्य(श्य)ज्ञेयत्वोपगमेन अन्यथा वा ? द्वितीयेऽपि किं गृहीतप्रामाण्यमेव निश्चायकं पक्षेऽगृहीतप्रामाण्यं वेति ? [47B] तत्र न प्रथम इत्याह - प्रामाण्यस्येति / अभ्युपगमे वा अर्थापत्त्यापि तत्परिच्छेदे अनवस्थायाः दुष्परिहरत्वेन विषयान्तरसञ्चारो न स्यात् / अस्ति च विषयान्तरसञ्चारः सर्वजनसिद्धस्तेन जानीमो नावश्यं ज्ञेयमिति / अन्यथा वेति पक्षेऽनवस्थावकाशः / द्वितीयम[त]स्थाप्य समानदोषतया समानपरिहारतया च परिहरति - लिङ्गमिति / मतमपी[ति] / लक्षणसहचरितलक्ष्यविज्ञानजातीयत्वं हि प्रवृत्तेः प्राक्कालभाविप्रामाण्यावधारणलिङ्ग तथाप्रवृत्तस्य फलनिर्भासविजातीयत्वं वा तदुभयमपि मनसि व(न) वेद्यत इत्यर्थः / लिङ्गेऽप्येवमिति / स्वस्थावस्थस्य फलनिर्भासिज्ञानजातीयं गन्धसहचरितपृथिवीजातीयं वा कदाचिद् व्यभिचरतीति (ङ)या वाभिभयते स्वकरचरणादिज्ञानवत / विप्रतिपत्तौ तु तत्प्रामाण्यमपि संशयमध्याहार्य परत एव प्रतिपाद्यत इत्यास्तामतिविस्तरः / उक्तम् विशेषसमर्थनार्थमेव बाधितबाधकव्यवहारसमर्थनपरैरभ्युपगतं प्रपे(त्य)क्षपूर्वकमादर्शयति - यदनुपलम्भ इति / यस्य विशेषस्य शुक्तित्वादेरनुपलम्भे लोके विभ्रमो [मि]थ्याज्ञानं 'शुक्तौ रजतम्' इति भवति / यादृगुपलम्भे इति शुक्तिकात्वादेरुपलम्भे / तद्वाधव्यवस्था तस्य विभ्रमस्य बाधा व्यवतिष्ठते लोके सविशेष इति / अयमाशयः / 'नेदं रजतम्' इति बाधकप्रत्ययस्य संशयादिभिः विधुरीकृतस्य प्रत्ययान्तरव्यावृत्तः कश्चिद् बाधो यैः परैरपि / तस्मात् दृष्टं यदुत्पन्नमित्यादिभि: वचोभिरु(य)त् कीर्त्यते सो अस्ति न वा ? नास्ति चेत् कथं प्रथमस्य बाधकमिदमविशेषात् / अस्ति चेत् स न तावज्जातिकृतो विशेषः कश्चित् अनुभूयते नाप्येकाकारकृतस्ततो गत्यन्तराभावाद् विषयविशेषादेव चेष्टव्यः / स च 'विभ्रमविरोधिस्वभावः' इत्यादिशब्दैरेव निगद्यते / एवमनभ्युपगमे लोकव्यवहारविलोप इत्याह - अन्यथेति साऽपीति / साऽपि बाधकव्यवस्थापि [48A] न स्यादिति / कथम् ? बाधकस्य व्यभिचारिजातीयत्वेन बाध्यबाधकयोरविशेषात् बाधकत्वमेव न स्यादित्यर्थः / भिन्नलोकमर्यादस्तत्त्वमप्रतिपद्यमानः शङ्कते - मा भूदिति / बाधकव्यवच्छेदकैरित्यनुषज्यते / लोकमर्यादातिक्रमे साधनदूषणनियतप्रयोगानुपपत्तौ वा न किञ्चित् दुष्टं वा विवाद्यत इत्याशयवान् परिहरति - नेति / बाध[व्य]वस्था मा भूदिति वक्तव्यं हियत्ये (हीयते) / भवितव्यं सकललोकसिद्धेन तथातत्त्वव्यवस्थाविभागेन / न त विना बाधकव्यवस्थां तत्त्वेतरव्यवस्था भविष्यत्यत आह - अन्यथेति / बाधकव्यवस्थां विना तत्त्वातत्त्वविभागव्याघातः / न तत्त्वमतत्त्वं हि योग्यबाधाबाधाभ्यां [विना] व्यवस्थितं लोके / विशेषानुपलम्भे विभ्रमावकाशो न त्वन्यथेति दर्शयति - कथं तीति / अयमाशयः / यदि हि नियामकविशेषोपलम्भेऽपि विपरीतारोप: स्यात् तदा तस्य विपरीतरूपत्वं बाधकं विना वा निश्चेतव्यम् बाधकेन वा ? नाद्यः सर्वस्यारोपत्वप्रसङ्गात् / न द्वितीयः बाधकाभिमतस्य बाधकत्वेऽबाधकत्वप्रसङ्गो बाधितत्वेऽत्र कथमशेषविशेषानुपलम्भे समारोपसंभव इति रहस्यम् / एवं प्रामाण्यं परतो ज्ञायते / स्वतस्त्वे उपपद्यमानबाधकत्वसंभवे सति जायमानत्वाद् वा अप्रमावदिति / न चेदमसिद्धम् / प्रामाण्यसंशयविरहरूपप्रसङ्गस्य बाधकस्योपदर्शितत्वादिति / [48B] 46. स्यादेतत् / परतः प्रामाण्येऽपि नित्यत्वाद् वेदानामनपेक्षत्वम्, महाजनपरिग्रहाच्च प्रामाण्यमिति को विरोधः ? न / उभयस्याप्यसिद्धेः / न हि वर्णा एव तावन्नित्याः / तथाहि / इदानीं श्रुतपूर्वो
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy