SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 52 * वामध्वजकृता सृङ्केतटीका विपक्षे बाधकमाह -- यदि त्विति / कदाचिदपीति प्रमात्वग्रहोत्तरकालमिव पूर्वमपीत्यर्थः / न तु प्रामाण्यप्रतीतावपि / प्रत्यन्व(क्ष)समानधर्मदर्शनकारणतः संशयो भवन्न वार्यत इत्यत आह - न हि साधकेति / ननु प्रामाण्ये प्रतीतेऽप्यप्रामाण्यावच्छेदका [अ]प्रामाण्यप्रतीतेऽपि प्रामाण्यावच्छेदका [अ]प्रामाण्यावच्छेदककारणदोषा वा वादि[ना] विशेषानुपलम्भात् [47A] साधकबाधकप्रमाणाभावे एव पुरोवर्तिरजतप्रतीतौ तद्विशेषानुपलम्भ इवेति युक्तः संशय इत्याशयवान् शङ्कते - अथेति / तत्र विकल्पनीयं प्रामाण्ये प्रतीतेऽपि किमा[भा]ससाधारणतया अथाभासव्यावृत्त्या ? आद्यः परलोकार्थे प्रवृत्त्यनङ्गत्वान्नोपादेयः / द्वितीयोऽपि तथाभूतनिश्चयस्य विशेषधर्ममुपादायैवात्मलाभान्न युक्त इति हृदि निधायान्यथा विकल्प्य निराचष्टे - तत् किमिति / परेषामत्र स्वतस्त्वसाधनमाभासीकर्तुमुपन्यस्यति - यदपीति / तथा चार्थापत्त्या बाध-प्रतिरोधयोरन्यतरदोषकलुषितं परतस्त्वसाधकमित्यभिप्रायः / तमिममभिप्रायमुन्मूलयितुमर्थापत्तिं दूषयति - तदपीति / अन्यथोपपादनं च सुव्यक्तमेव / एवमनङ्गीकुर्वाणं प्रत्यनिष्टमाह - न हीति / न ह्यविलम्ब इति न लिङ्गानपेक्षा / तथासति पिपासोपशमनशक्त्यनुभवस्याप्यलैङ्गिकत्वप्रसङ्ग इत्यर्थः / अस्ति तावत् प्रामाण्यग्रहपूर्विका झटिति समर्थप्रवृत्तिः / सा च परत:पक्षे न भवितुमर्हत्यनवस्थापराहतत्वादिति / 45. स्यादेतत् / प्रामाण्यग्रहे सति सर्वमेतदुपपद्यते / स च स्वतो यदि न स्यात् न स्यादेव; परतःपक्षस्यानवस्थादुःस्थत्वादिति चेत्, न, तदग्रहेऽप्यर्थसन्देहादपि सर्वस्योपपत्तेः / न चानवस्थाऽपि, प्रामाण्यस्यावश्यज्ञेयत्वानभ्युपगमात् / अन्यथा स्वतःपक्षेऽपि सा स्यात् / लिङ्गं निश्चितमेव निश्चायकम्, ततस्तन्निश्चयार्थमवश्यं लिङ्गान्तरापेक्षायामनवस्थेति चेत् / तत् किमनुपपद्यमानोऽर्थोऽनिश्चित एव स्वोपपादकमाक्षिपति, येनानवस्था न स्यात् / प्रत्यक्षेण तस्य निश्चयात् तस्य च सत्तयैव निश्चायकत्वा नैवमिति चेत् / ममापि प्रत्यक्षेण लिङ्गनिश्चयात् तस्य च सत्तयैव निश्चायकत्वान्नैवमिति तुल्यम् / लिङ्गज्ञानस्य प्रामाण्यानिश्चये कथं तन्निश्चयः स्यादिति चेत् / अनुपपद्यमानार्थज्ञानस्य प्रामाण्यानिश्चये कथं तन्निश्चय इति तुल्यम् / न हि निश्चयेन स्वप्रामाण्यनिश्चयेन वा विषयं निश्चाययति प्रत्यक्षम्, अपि तु स्वसत्तयेत्युक्तमिति चेत् / तुल्यम् / तथापि यदि तल्लिङ्गाभासः स्यात् तदा का वार्तेति चेत् / अनुपपद्यमानोऽप्यर्थो यद्याभासः स्यात् तदा का वार्तेति तुल्यम् / सोऽपि प्रामाण्यमाक्षिपतीत्युत्सर्गः / स च क्वचिद् बाधकेनापोद्यत इति चेत् / लिङ्गेऽप्येवमिति तुल्यम् / तर्हि प्रामाण्यानुमानेऽपि शङ्का तदवस्थैवेति निष्फलः प्रयास इति चेत् / एतदपि तादृगेव / अनुपपद्यमानोऽर्थ एवासौ तथाविधः कश्चिद् यः स्वप्नेऽपि नाभासः स्यात् ततो नाशङ्केति चेत् / लिङ्गेऽप्येवमिति समः समाधिः / कः पुनरसावर्थो यः स्वप्नेऽपि नाभासः स्यात् यदनुपलम्भे विभ्रमावकाशो यादृगुपलम्भे च तद्बाधव्यवस्था / अन्यथा हि तथाभूतस्यापि व्यभिचारे साऽपि न स्यात् / मा भूदिति चेत्, न, भवितव्यं हि तत्त्वातत्त्वविभागेन / अन्यथा व्याघातात् / कथं हि नियामकनिःशेषविशेषोपलम्भेऽपि विपरीतारोपः ? तथाभावे वा तदतिरिक्तविशेषानुपलम्भे कथं बाधकम् / तदभावे त्वबाधस्य कथं भ्रान्तत्वमिति / 45. स्वदर्शनशक्त्या परोक्तमवधार्य पुनरपि परतस्त्वं शङ्कते - स्यादेतदिति / झटिति प्रवृत्त्यादिकमित्यर्थः / नन्वस्त्वेवं तथापि स्वतस्त्वे किमायात[म्] इत्यत आह - स चेति / सुबोधम् / न तावत् सर्वत्र प्रामाण्यग्रह उपयुज्यते / संदेहादपि समर्थप्रवृत्त्युपपत्तेदृष्टे विषय इत्याह - नेति सर्वस्येति / दृष्टे झटिति
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy