________________ 51 * न्यायकुसुमाञ्जलि स्तबकः 2 दोषाभाव इत्यर्थः / किमतो यद्येवमित्यत आह - अतो नेदमिति / यदि प्रामाण्यनिश्चायकमनुमानं क्रियते - वेदाः प्रमाणम्, अपेतवक्तृदोषत्वात् तथाविधलौकिकवाक्यवदिति - तदा वेदाः न प्रमाणम् अपेतवक्तृगुणत्वात् तथाविधलौकिकवाक्यविदिति युज्यते / न चैवं किन्त्वप्रामाण्यशङ्का निराक्रियते / तत्र च न सत्प्रतिपक्षावकाश भिप्रायः। यद्यप्रामाण्यशङानिराकरणाय प्रयोगस्तदा सत्प्रतिपक्षत्वं शानिवारणवत शाका(कोरणेऽपि न्यायस्य [स]मानत्वादित्याशयेन परिहरति - नेति / अथ चाभ्युपगमवादो वस्तुशङ्कानिवारणमपि न निश्चयमन्तरेण, निश्चयैकफलादाशप्रणत्वात् तत्त्वनिश्चयफलस्यापीति सर्वजनसिद्धमपि स्वपक्षजातितया नावबुद्ध्यत इति / किमत्र ब्रूमः ? बोध(दोष)सहितगुणनिवृत्तेरेवाप्रामाण्यशङ्कापादकत्वं न तु गुण[नि]वृत्तिमात्रस्येति यदि तदा गुणसहितदोषनिवृत्तेरेवाप्रामाण्यशङ्कापसारकत्वं न तु दोषविनिवृत्तिमात्रस्येति शङ्कोत्तराभ्यामादर्शयति - तस्या इति / एतेन विपक्षे बाधकमुक्तम् / समस्तशङ्कापसारणेन निरात(श)ङ्कमेवे[46B]ति दर्शितम् / एवं प्रमा परतो ज्ञायते / अनुभवत्वे सति कार्यत्वात्, कार्यत्वे सत्यनुभवत्वाद् वेत्यपि दु(दृ)ष्टव्यापारम् / प्रमा परतो ज्ञायते [स्वत]स्त्वे उपपद्यमानबाधकत्वादप्रमावत् / न चेदमसिद्ध[म्] / अप्रमाया अपि प्रमात्वं प्रसङ्गरूपबाधकस्य विपरा(री)तत्वादिति / एतेनाभूत्वा भावित्वात् इत्यादि यथाश्रुतमनैकान्तिकमेवेति न साधनम् / अनुभवविशेषणप्रक्षेपेण तु तदपि मनोहरमिति रहस्यम् / एवं प्रमाया वक्तृगुणाधीनत्वं लाभत्वसमर्थनेन वक्तृसिद्धावितरवक्तृसंभवेनेश्वररूपवक्तृसंसिद्धिरिति दर्शितम् / 44. एवं प्रामाण्यं परतो ज्ञायते अनभ्यासदशायां सांशयिकत्वात् अप्रामाण्यवत् / यदि तु स्वतो ज्ञायेत, कदाचिदपि प्रामाण्यसंशयो न स्यात्, ज्ञानत्वसंशयवत् / निश्चिते तदनवकाशात् / न हि साधकबाधकप्रमाणाभावमवधूय समानधर्मादिदर्शनादेवासौ, तथा सति तदनुच्छेदप्रसङ्गात् / अथ प्रमाणवदप्रमाणेऽपि तत्प्रत्ययदर्शनाद् विशेषादर्शनाद् भवति शङ्केत्यभिप्रायः, तत् किं प्रमाणज्ञानोपलम्भेऽपि न तत्प्रामाण्यमुपलब्धं प्रमाणज्ञानमेव वा नोपलब्धम् ? आद्ये कथं स्वतः प्रामाण्यग्रहः, प्रत्ययप्रतीतावपि तदप्रतीतेः, द्वितीये कथं तत्र शङ्का, धर्मिण एवानुपलब्धेरिति / यदपि झटिति प्रचुरतरसमर्थप्रवृत्त्यन्यथानुपपत्त्या स्वतः प्रामाण्यमुच्यते, तदपि नास्ति / अन्यथैवोपपत्तेः / झटिति प्रवृत्तिर्हि झटिति तत्कारणोपनिपातमन्तरेणानुपपद्यमाना तमाक्षिपेत्, प्रचुरप्रवृत्तिरपि स्वकारणप्राचुर्यम्, इच्छा च प्रवृत्तेः कारणम्, तत्कारणमपीष्टाभ्युपायताज्ञानम्, तदपि तज्जातीयत्वलिङ्गानुभवप्रभवम्, सोऽपीन्द्रियसन्निकर्षादिजन्मा, न तु प्रामाण्यग्रहस्य क्वचिदप्युपयोगः / उपयोगे वा स्वत एवेति कुत एतत् ? ततः समर्थप्रवृत्तिप्राचुर्यमपि प्रामाण्यप्राचुर्यात् तद्ग्रहणप्राचुर्याद् वा / स्वतस्त्वं तु तस्य क्वोपयुज्यते / न हि पिपासूनां झटिति प्रचुरा समर्था च प्रवृत्तिरम्भसीति पिपासोपशमनशक्तिस्तस्य प्रत्यक्षा स्यात् / 44. संप्रति प्रमामात्रज्ञप्तेरपि परतस्त्वसमर्थनेनाभिमतप्रमाया अपि तथात्वसिद्धावाप्तपुरुष ईश्वरः सिद्ध्यतीत्याशयेन विप्रतिपन्नं प्रति ज्ञप्तेरपि परतस्त्वं प्रमाणत: साधयति - एवमिति / प्रमा परतो ज्ञायते / ज्ञानज्ञापककारके वक्त्रतिरिक्तकारकाद् ज्ञायते / हेतुरनभ्यासदशायां सांशयिकत्वादिति / ज्ञानग्रहणकालेऽप्रमाणं प्रमाणं वेति संशयाक्रान्तत्वादिति / अन्यथा[ऽप्रमा] प्रमात्वयोरन्यतरग्रहे सांशयि[क] त्वं दृष्टान्तदाान्तिकयोरसिद्धं स्यादिति तत्परिहारार्थमनभ्यासदशायामिति / अनभ्यासदशायामित्यनेन ज्ञानग्रहणकालमुपदर्शयति / अत्रापि 1. अस्पष्टम् /