________________ 50 * वामध्वजकृता सङ्केतटीका प्रामाण्यं वेत्ययुक्तमापन्नमित्याह - निःस्वभावत्वमिति / तदयं दोषोऽपौस(रु)वे(षे)यत्वाभ्यु[प]गमप्रवृत्तानां भवतां नास्माकमित्याह - आत्मानमिति / यथाह भूषणः - शब्दे प्रमाणता तावद् वक्त्रधीनेति निश्चिता / तदभावोऽपि सर्वत्र गुणवद्वक्त्रभावतः // प्रामाण्यं विद्यते नेति पौरुषेयेषु युज्यते / वेदे वक्तुरभावे च तद्वार्तापि हि दुर्लभा // [भूषण, परिच्छेद 3, पृ. 397] तस्माद् यथा गुणाभावमात्रेण नाप्रामाण्यं किन्तु दोषसद्भावेन तथा दोषाभावमात्रेण न प्रामाण्यं किन्तु गुणसद्भावेनेत्यकाम्येनास्यापतितमुक्तमप्युपादेयमन्यथात्राप्यभावसद्भावे रा(भा)वानुविधानस्य हेतुत्वं न स्यादित्यु[प]संहारव्याजेन दर्शयति - तस्मादिति / 43. तथापि वेदानामपौरुषेयत्वे सिद्धे अपेतवक्तृदोषत्वादेव प्रामाण्यं सेत्स्यति, ततः सिद्धे प्रामाण्ये गुणाभावेऽपि तदिति दोषाभाव एव हेतुरकारणं गुणा इति चेत्, न / अपेतवक्तृगुणत्वेन सत्प्रतिपक्षत्वप्रसङ्गात् / स्वत एव प्रामाण्यनिश्चयः, किन्तु अप्रामाण्यशङ्कामात्रमनेनापनीयते दोषनिबन्धनत्वात् तस्य तदभावेऽभावात्, अतो नेदमनुमानवत् सत्प्रतिपक्षसाधनीकर्तुमुचितमिति चेत् / न / गुणनिवृत्तिनिबन्धनायाः शङ्काया: सुलभत्वात् / तस्याः केवलाया अप्रामाण्यं प्रत्यनङ्गत्वान्न शङ्केति चेत् दोषनिवृत्तेरपि केवलायाः प्रामाण्यं प्रत्यनङ्गत्वान्न तया शङ्कानिवृत्तिरिति तुल्यमिति / 43. ननु तत्र रागद्वेषभावकारणकत्वे निवृत्तिप्रवृत्त्योरुपेक्षणीयज्ञानादावपि ते स्यातामिति बाधकवशेन रागद्वेषयोस्तथा[45B]विधोभयप्रवृत्तिनिदानत्वं तत्कथमयं प्रतिबदि(न्दी)ग्रहः / रागाभावस्यानिष्टसाधनता ज्ञानसहितस्य निवृत्तिप्रयत्नकारणत्वात् / द्वेषाभावस्यापीष्टसाधनता ज्ञानसहायस्य प्रवृत्तिप्रयत्नकारणत्वात् / उपेक्षणीयज्ञाने चानिष्टेष्टसाधनता ज्ञानस्याभावादिति निराकुलः प्रतिबन्दिः(न्धिः) / ननु यद्यप्यन्यत्र गुणानुविधानमस्ति तथापि वैदित्साः(क्याः) प्रतीतेः प्रामाण्यमुभयसिद्धमपौरुषेयत्वं च वेदानां विचारान्तरेण साधितम्, तस्माद् गुणाभावेऽपि दोषनिवृत्तिमात्रप्रयुक्तमेव प्रामाण्यं वेदवाक्यजायाः प्रमाणया(प्रमाया) इति, गुणानो(नां) प्रामाण्यानुविहितान्वयव्यतिरेकित्वमेव नास्तीति मन्वानः पुनः शङ्कते - तथापीति / अपेतवक्तृदोषतत्सा(षत्वा)दुत्पन्नं प्रामाण्यम् अपेतवक्तृदोषवाक्यजज्ञानत्वेन च ज्ञायत इत्यपि प्रसङ्गागतमवर्जनीयमिति रहस्यम् / तदिति प्रामाण्यम् / दोषाभाव एव हेतुरुत्पत्तौ ज्ञप्तौ चेत्यर्थः / अकारणं गुणा इत्यत्राप्युत्पत्तौ [ज्ञप्तौ] चेति मन्तव्यम् / भवेदेवं यद्यपौरुषेयत्वं वेदानां सिद्धं भवति / न चापौरुषेयत्वं सिद्धम् / गुणवश्यप्रामाण्यशङ्कया विचारान्तरस्याप्याभासत्वशङ्कायां निश्चायकत्वा(त्व)वियो[ग इति] आशयेन परिहरति - नेति / उत्पत्तिपक्षे अपेतवक्तृगुणत्वे लौकिकवाक्यवदप्रामाण्यमापद्येतेति सत्प्रतिपक्षत्वं वेदितव्यम् / ज्ञप्तिपक्षे तु यथा अपेतवक्तृदोषत्वेन प्रामाण्यं ज्ञायते तथा अपेतवक्तृगुणत्वेनाप्रामाण्यमपि ज्ञायतेति प्रसिद्धमेव सत्प्रतिपक्षत्वं विशेषाभावादिति मन्तव्यम् / यथा प्रामाण्यसहभाव्यपेतवक्तृदोषत्वं तथा [46A]प्रामाण्यसहभाव्यपेतवक्तृगुणत्वमपीति प्रसङ्गात् / ज्ञप्तिपक्षं कक्षीकृत्य न सत्प्रतिपक्षत्वमिति मनोरथेन स्वदर्शनश्रद्धया परः शङ्कते - स्वत एवेति / ज्ञानग्राहकादेवेत्यर्थः / किमर्थं तर्हि अपेतवक्तृदोषत्वानुसरणमिति हृदि निधायाह - किन्त्विति / अप्रामाण्यशङ्कामात्रमिति / मात्रशब्देन तु प्रामाण्यमपि निश्चीयत इत्युक्तं भवति / अनेनेति दोषाभावेनेत्यर्थः / तस्येति अप्रामाण्यस्य / तद्भा( दभा)वे