Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 67 * न्यायकुसुमाञ्जलि स्तबकः 2 निराकरोति - विनाशेति / पूर्वोक्तादेव(वे)ति / उत्पत्तिविनाशयोः संसर्गदर्शनादेवेत्यर्थः / ननु यथा विनाशसंसर्गनियमः पटस्य तथा कुंकुमसंसर्गनियमोऽपि / कस्मात् ? तस्यापि दु(उ)भयसंसर्गेण कारणाधीनत्वस्येति / यत्रापि तुल्यत्वात् तत्रापि न चेदयं नियमो ध्वंसकसंसर्गनियमोऽपि न स्यादित्य विशेषादित्यत आह - यथा हीति / उपसंहरति - तस्मादिति / एवं शब्दोऽनित्यः कार्यो वा जातिमत्त्वे सति अस्मदादिबहिरिन्द्रियप्रत्यक्षत्वात् घटवदिति द्रष्टव्यम् / प्राभाकरं प्रत्यनीश्वरविभूविशेषगुणत्वात् बुद्धिवदिति प्रयोक्तव्यम् / नन्वनित्यत्वे [59A] वर्णानां सङ्गतिग्रहानुपपत्तेः / उपपत्तौ वा गृहीतसङ्गतिकनाशे अगृहीतसङ्गतिकार्थप्रतीतेतेरनुपपत्तेरर्थप्रतीत्यन्यथानुपपत्त्या नित्यत्वमिति / तथा चार्थापत्त्या बाधः प्रतिरोधो वेति हृदि निधाय शक्यते - स्यादेतदिति / वर्णानामनित्यत्वेऽपि तज्जातीनां नित्यत्वात् तज्जातिमत्त्वेन सङ्गतरुपपत्तिरर्थप्रतिपत्त्युपपत्तेर पत्तेरन्यथोपपन्नतया नोक्तदोषावकाश इत्याशयवान् परिहरति - यथार्थस्यैवेति / उक्तमर्थम् / तत्तत्परापादितशङ्कापसारणेन विशदयति - जातिरेवेति / तदलाभ इति व्यक्तेरलाभ इत्यर्थः / शङ्कते - आक्षेपत इति / विकल्प्य निराकरोति / कः खल्विति / सुगममितरत् / पुनः शङ्कते - अर्थापत्तिरिति / एतदप्यनुपपद्यमानाद्यर्थासम्भवेन निराकरोति - व्यक्तेरनित्यभावेऽपीति' / व्यक्तिज्ञानाभावेऽपि जातिज्ञानस्योत्पादाभ्युपगमात् केवलजातिपदार्थवादिभिरिति सहृदयम् / जातिपदाद् वा (इव) व्यक्तिवे(प)दान(द)पिरे जातिज्ञानमुत्पद्यत इति / न चोभयं सिद्धम् / ननु मा भूत् प्रतीतिपर्यवसानं 'गङ्गायां घोषः' इतिवज्जातिप्रतीत्यपर्यवसानाद् व्यक्तिलाभ इत्याशयवान् शङ्कते - व्यक्तिविषयतामिति / एतदस्याभ्युपगमेनैव तवानिष्टमिति परिहरति - नेति / अपि च गोपदस्य व्यक्तिविषयतायां किमनुपपन्नम् / समानानां भावः सामान्यं तत् कथं प्रतीयते भवत्पक्षे? प्रत्यक्षेणेति चेत् / अस्त्विदं सामान्यमित्यस्मिन् पक्षे सम्बन्धिनिरपेक्षजातिस्वरूपवाचिनां तु गवादिपदानां किमसमञ्जसमिति / [59B] अस्ति तावत् 'गौस्तिष्ठति' 'गौर्निषण्णा' इत्यादावन्वयः / स च जातावनुपपद्यमानो व्यक्तिमाक्षिपतीत्यर्थापत्तिराक्षेप इति शङ्कते - जातीनामिति / परिहरति - नेति / प्रतीतस्यानुपपत्तिराक्षिपतीत्यत्र दृष्टम् न त्वन्यथेति। न चात्र व्यक्तिमप्रतीत्यान्वयः प्रत्येतुं शक्यते इति / तमप्रतीत्य धोक्षेणैव(आक्षेपेणैव) प्रतीतौ चेतरेतराश्रयत्वम् / तथाहि अन्वयप्रतीतौ व्यक्त्याक्षेपो व्यक्त्याक्षेपे चान्वयप्रतीतिः / तथा च नानुपपद्यमानं किञ्चिदस्तीति तात्पर्यम् / 56. स्यादेतत् / प्रतिबन्धं विनापि पक्षधर्मताबलाद् यथा लिङ्ग विशेषे पर्यवस्यति तथा सङ्गतिं विनापि शब्दः शक्तिविशेषाद् विशेषे पर्यवस्यति, स एवाक्षेप इत्युच्यते इति चेत्, न तावत् प्रतीतिः क्रमेण / अपेक्षणीयाभावेन विरम्य व्यापारायोगात् / जातिप्रत्यायनमपेक्षते इति चेत्, कृतं तर्हि शब्दशक्तिकल्पनया / तावतैव तत्सिद्धेः / ओमिति चेत्, न / व्यक्त्यनालम्बनाया जातिप्रतीतेरसम्भवादित्युक्तत्वात् / प्रमाणान्तरापातप्रसङ्गाच्च / स्मरणं तदित्ययमदोष इति चेत्, न / अननुभूतानन्वयप्रसङ्गात् / अस्त्वेकैव प्रतीतिरिति चेत्, कृतं तर्हि शक्तिभेदकल्पनया / एवं च यथा सामान्यविषया शक्तिरेकैव तद्वति पर्यवस्यति, तथा सामान्याश्रया सङ्गतिस्तद्वति पर्यवस्येदिति / न च नित्या अपि वर्णाः स्वरानुपूर्व्यादिहीनाः पदार्थैः सङ्गम्यन्ते, न तद्विशिष्टत्वमपि तेषां नित्यम्, तस्मात् तत्तज्जातीयक्रोडनिविष्टा एव पदार्थाः पदानि च संबध्यन्ते नातोऽन्यथेति, नैतदनुरोधेनापि शब्दस्य नित्यत्वमाशङ्क१. मुद्रितमूले प्रतीकमिदं नास्ति / 2. पाठः भ्रष्टः /
Loading... Page Navigation 1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210