Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 52 * वामध्वजकृता सृङ्केतटीका विपक्षे बाधकमाह -- यदि त्विति / कदाचिदपीति प्रमात्वग्रहोत्तरकालमिव पूर्वमपीत्यर्थः / न तु प्रामाण्यप्रतीतावपि / प्रत्यन्व(क्ष)समानधर्मदर्शनकारणतः संशयो भवन्न वार्यत इत्यत आह - न हि साधकेति / ननु प्रामाण्ये प्रतीतेऽप्यप्रामाण्यावच्छेदका [अ]प्रामाण्यप्रतीतेऽपि प्रामाण्यावच्छेदका [अ]प्रामाण्यावच्छेदककारणदोषा वा वादि[ना] विशेषानुपलम्भात् [47A] साधकबाधकप्रमाणाभावे एव पुरोवर्तिरजतप्रतीतौ तद्विशेषानुपलम्भ इवेति युक्तः संशय इत्याशयवान् शङ्कते - अथेति / तत्र विकल्पनीयं प्रामाण्ये प्रतीतेऽपि किमा[भा]ससाधारणतया अथाभासव्यावृत्त्या ? आद्यः परलोकार्थे प्रवृत्त्यनङ्गत्वान्नोपादेयः / द्वितीयोऽपि तथाभूतनिश्चयस्य विशेषधर्ममुपादायैवात्मलाभान्न युक्त इति हृदि निधायान्यथा विकल्प्य निराचष्टे - तत् किमिति / परेषामत्र स्वतस्त्वसाधनमाभासीकर्तुमुपन्यस्यति - यदपीति / तथा चार्थापत्त्या बाध-प्रतिरोधयोरन्यतरदोषकलुषितं परतस्त्वसाधकमित्यभिप्रायः / तमिममभिप्रायमुन्मूलयितुमर्थापत्तिं दूषयति - तदपीति / अन्यथोपपादनं च सुव्यक्तमेव / एवमनङ्गीकुर्वाणं प्रत्यनिष्टमाह - न हीति / न ह्यविलम्ब इति न लिङ्गानपेक्षा / तथासति पिपासोपशमनशक्त्यनुभवस्याप्यलैङ्गिकत्वप्रसङ्ग इत्यर्थः / अस्ति तावत् प्रामाण्यग्रहपूर्विका झटिति समर्थप्रवृत्तिः / सा च परत:पक्षे न भवितुमर्हत्यनवस्थापराहतत्वादिति / 45. स्यादेतत् / प्रामाण्यग्रहे सति सर्वमेतदुपपद्यते / स च स्वतो यदि न स्यात् न स्यादेव; परतःपक्षस्यानवस्थादुःस्थत्वादिति चेत्, न, तदग्रहेऽप्यर्थसन्देहादपि सर्वस्योपपत्तेः / न चानवस्थाऽपि, प्रामाण्यस्यावश्यज्ञेयत्वानभ्युपगमात् / अन्यथा स्वतःपक्षेऽपि सा स्यात् / लिङ्गं निश्चितमेव निश्चायकम्, ततस्तन्निश्चयार्थमवश्यं लिङ्गान्तरापेक्षायामनवस्थेति चेत् / तत् किमनुपपद्यमानोऽर्थोऽनिश्चित एव स्वोपपादकमाक्षिपति, येनानवस्था न स्यात् / प्रत्यक्षेण तस्य निश्चयात् तस्य च सत्तयैव निश्चायकत्वा नैवमिति चेत् / ममापि प्रत्यक्षेण लिङ्गनिश्चयात् तस्य च सत्तयैव निश्चायकत्वान्नैवमिति तुल्यम् / लिङ्गज्ञानस्य प्रामाण्यानिश्चये कथं तन्निश्चयः स्यादिति चेत् / अनुपपद्यमानार्थज्ञानस्य प्रामाण्यानिश्चये कथं तन्निश्चय इति तुल्यम् / न हि निश्चयेन स्वप्रामाण्यनिश्चयेन वा विषयं निश्चाययति प्रत्यक्षम्, अपि तु स्वसत्तयेत्युक्तमिति चेत् / तुल्यम् / तथापि यदि तल्लिङ्गाभासः स्यात् तदा का वार्तेति चेत् / अनुपपद्यमानोऽप्यर्थो यद्याभासः स्यात् तदा का वार्तेति तुल्यम् / सोऽपि प्रामाण्यमाक्षिपतीत्युत्सर्गः / स च क्वचिद् बाधकेनापोद्यत इति चेत् / लिङ्गेऽप्येवमिति तुल्यम् / तर्हि प्रामाण्यानुमानेऽपि शङ्का तदवस्थैवेति निष्फलः प्रयास इति चेत् / एतदपि तादृगेव / अनुपपद्यमानोऽर्थ एवासौ तथाविधः कश्चिद् यः स्वप्नेऽपि नाभासः स्यात् ततो नाशङ्केति चेत् / लिङ्गेऽप्येवमिति समः समाधिः / कः पुनरसावर्थो यः स्वप्नेऽपि नाभासः स्यात् यदनुपलम्भे विभ्रमावकाशो यादृगुपलम्भे च तद्बाधव्यवस्था / अन्यथा हि तथाभूतस्यापि व्यभिचारे साऽपि न स्यात् / मा भूदिति चेत्, न, भवितव्यं हि तत्त्वातत्त्वविभागेन / अन्यथा व्याघातात् / कथं हि नियामकनिःशेषविशेषोपलम्भेऽपि विपरीतारोपः ? तथाभावे वा तदतिरिक्तविशेषानुपलम्भे कथं बाधकम् / तदभावे त्वबाधस्य कथं भ्रान्तत्वमिति / 45. स्वदर्शनशक्त्या परोक्तमवधार्य पुनरपि परतस्त्वं शङ्कते - स्यादेतदिति / झटिति प्रवृत्त्यादिकमित्यर्थः / नन्वस्त्वेवं तथापि स्वतस्त्वे किमायात[म्] इत्यत आह - स चेति / सुबोधम् / न तावत् सर्वत्र प्रामाण्यग्रह उपयुज्यते / संदेहादपि समर्थप्रवृत्त्युपपत्तेदृष्टे विषय इत्याह - नेति सर्वस्येति / दृष्टे झटिति
Loading... Page Navigation 1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210