Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 53 * न्यायकुसुमाञ्जलि स्तबकः 2 प्रवृत्त्यादिकमित्यर्थः / न तु प्रवृत्तेः पूर्वमपि कष्टामि(दृष्टेऽपि) प्रामाण्यमवसीयते / तत्र प्रामाण्यावधारकस्य प्रामाण्यानवधारणे तथापि(तस्यापि) निश्चायकत्वाभावात् / अवधारणे वा अनवस्थानादिति हृदि निधायाह - न चानवस्थापीति / अनवस्था हि फलविज्ञानमाश्रित्य वोच्यते प्रमासाधकतमविज्ञानं वाश्रित्य ? प्रथमेऽपि किमवस्य(श्य)ज्ञेयत्वोपगमेन अन्यथा वा ? द्वितीयेऽपि किं गृहीतप्रामाण्यमेव निश्चायकं पक्षेऽगृहीतप्रामाण्यं वेति ? [47B] तत्र न प्रथम इत्याह - प्रामाण्यस्येति / अभ्युपगमे वा अर्थापत्त्यापि तत्परिच्छेदे अनवस्थायाः दुष्परिहरत्वेन विषयान्तरसञ्चारो न स्यात् / अस्ति च विषयान्तरसञ्चारः सर्वजनसिद्धस्तेन जानीमो नावश्यं ज्ञेयमिति / अन्यथा वेति पक्षेऽनवस्थावकाशः / द्वितीयम[त]स्थाप्य समानदोषतया समानपरिहारतया च परिहरति - लिङ्गमिति / मतमपी[ति] / लक्षणसहचरितलक्ष्यविज्ञानजातीयत्वं हि प्रवृत्तेः प्राक्कालभाविप्रामाण्यावधारणलिङ्ग तथाप्रवृत्तस्य फलनिर्भासविजातीयत्वं वा तदुभयमपि मनसि व(न) वेद्यत इत्यर्थः / लिङ्गेऽप्येवमिति / स्वस्थावस्थस्य फलनिर्भासिज्ञानजातीयं गन्धसहचरितपृथिवीजातीयं वा कदाचिद् व्यभिचरतीति (ङ)या वाभिभयते स्वकरचरणादिज्ञानवत / विप्रतिपत्तौ तु तत्प्रामाण्यमपि संशयमध्याहार्य परत एव प्रतिपाद्यत इत्यास्तामतिविस्तरः / उक्तम् विशेषसमर्थनार्थमेव बाधितबाधकव्यवहारसमर्थनपरैरभ्युपगतं प्रपे(त्य)क्षपूर्वकमादर्शयति - यदनुपलम्भ इति / यस्य विशेषस्य शुक्तित्वादेरनुपलम्भे लोके विभ्रमो [मि]थ्याज्ञानं 'शुक्तौ रजतम्' इति भवति / यादृगुपलम्भे इति शुक्तिकात्वादेरुपलम्भे / तद्वाधव्यवस्था तस्य विभ्रमस्य बाधा व्यवतिष्ठते लोके सविशेष इति / अयमाशयः / 'नेदं रजतम्' इति बाधकप्रत्ययस्य संशयादिभिः विधुरीकृतस्य प्रत्ययान्तरव्यावृत्तः कश्चिद् बाधो यैः परैरपि / तस्मात् दृष्टं यदुत्पन्नमित्यादिभि: वचोभिरु(य)त् कीर्त्यते सो अस्ति न वा ? नास्ति चेत् कथं प्रथमस्य बाधकमिदमविशेषात् / अस्ति चेत् स न तावज्जातिकृतो विशेषः कश्चित् अनुभूयते नाप्येकाकारकृतस्ततो गत्यन्तराभावाद् विषयविशेषादेव चेष्टव्यः / स च 'विभ्रमविरोधिस्वभावः' इत्यादिशब्दैरेव निगद्यते / एवमनभ्युपगमे लोकव्यवहारविलोप इत्याह - अन्यथेति साऽपीति / साऽपि बाधकव्यवस्थापि [48A] न स्यादिति / कथम् ? बाधकस्य व्यभिचारिजातीयत्वेन बाध्यबाधकयोरविशेषात् बाधकत्वमेव न स्यादित्यर्थः / भिन्नलोकमर्यादस्तत्त्वमप्रतिपद्यमानः शङ्कते - मा भूदिति / बाधकव्यवच्छेदकैरित्यनुषज्यते / लोकमर्यादातिक्रमे साधनदूषणनियतप्रयोगानुपपत्तौ वा न किञ्चित् दुष्टं वा विवाद्यत इत्याशयवान् परिहरति - नेति / बाध[व्य]वस्था मा भूदिति वक्तव्यं हियत्ये (हीयते) / भवितव्यं सकललोकसिद्धेन तथातत्त्वव्यवस्थाविभागेन / न त विना बाधकव्यवस्थां तत्त्वेतरव्यवस्था भविष्यत्यत आह - अन्यथेति / बाधकव्यवस्थां विना तत्त्वातत्त्वविभागव्याघातः / न तत्त्वमतत्त्वं हि योग्यबाधाबाधाभ्यां [विना] व्यवस्थितं लोके / विशेषानुपलम्भे विभ्रमावकाशो न त्वन्यथेति दर्शयति - कथं तीति / अयमाशयः / यदि हि नियामकविशेषोपलम्भेऽपि विपरीतारोप: स्यात् तदा तस्य विपरीतरूपत्वं बाधकं विना वा निश्चेतव्यम् बाधकेन वा ? नाद्यः सर्वस्यारोपत्वप्रसङ्गात् / न द्वितीयः बाधकाभिमतस्य बाधकत्वेऽबाधकत्वप्रसङ्गो बाधितत्वेऽत्र कथमशेषविशेषानुपलम्भे समारोपसंभव इति रहस्यम् / एवं प्रामाण्यं परतो ज्ञायते / स्वतस्त्वे उपपद्यमानबाधकत्वसंभवे सति जायमानत्वाद् वा अप्रमावदिति / न चेदमसिद्धम् / प्रामाण्यसंशयविरहरूपप्रसङ्गस्य बाधकस्योपदर्शितत्वादिति / [48B] 46. स्यादेतत् / परतः प्रामाण्येऽपि नित्यत्वाद् वेदानामनपेक्षत्वम्, महाजनपरिग्रहाच्च प्रामाण्यमिति को विरोधः ? न / उभयस्याप्यसिद्धेः / न हि वर्णा एव तावन्नित्याः / तथाहि / इदानीं श्रुतपूर्वो
Loading... Page Navigation 1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210