Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 64 * वामध्वजकृता सृङ्केत्तटीका त्वेनाभिमतेनेत्यर्थः / विकलेन हीनेनेत्यर्थः / वास्तवं तुल्यबलत्वं निरस्याभिमानिकमुपन्यस्य निराकरोति - तथापीति / अपि साधनदशायामपीत्यत्र बोद्धव्यः / न केवलं सत्प्रतिपक्षदूषणपक्षे साधनदशायामपीत्यर्थः / अद्रव्यद्रव्यत्वादिति / द्रव्यत्वादित्युच्यमाने घटेनानैकान्तो भवेत् तन्निवृत्त्यर्थमद्रव्येति / न विद्यते द्रव्यं समवायि यस्य तदद्रव्यम / एतावन्मात्रे च प्रागभावेनानैकान्तिकमत उभयपदोपादानाम] / अद्रव्यं च तद द्रव्यं चेति कर्मधारयः / परमाणुश्च दृष्टान्तो बोद्धव्यः / हीनबलस्य न प्रतिरोधकत्वं न च साधकत्वमित्याशयवानाह - असिद्धिरिति / विशेषणविशेष्ययोरसिद्धिरित्यर्थः / विशेष्यसिद्धौ प्रमाणमाह - द्रव्यमिति / शब्दो द्रव्यमित्यर्थः / एतदपि द्रव्यत्व[गणत्व]योरन्यतरासिद्धावसिद्धत्वेनाप्रमाणमित्याशयवानाह.- नेति / न च साक्षात् सम्बन्धेन गृह्यमाणत्वमु[56B] भयसिद्धमन्यथाऽपसिद्धान्तप्रसङ्गादिति वाच्यम् / शब्दस्य गुणत्वानभ्युपगमे तस्य प्रत्येतुमशक्यत्वादिति विवक्षितत्वादित्याशयवानाह - न हीति / नन्वस्ति द्रव्यत्वगुणत्वयोरन्यतरसाधक: परिशेष इत्याह - परिशेष इति / सत्तादे(द्य) भेदः सत्तायोगित्वम् / अपरसामान्यवत्त्वं च शब्देन सामान्यतमवत् सत्तायोगित्वार(त) परसामान्यवत्त्वाद वा द्रव्यादिवत् / न कर्म मूर्तद्रव्यासमवायात बुद्धिवदिति / एवमपि बाधितत्वेन द्रव्यत्वेन द्रव्यत्वसाधनमप्रमाणमित्याह - नेति / इतरत्र तन्निषेधे द्रव्यगुणत्वसिद्धौ लिङ्गग्राहकप्रमाणबाध इत्यर्थः / अथ द्रव्यत्वनिवेक(निषेधक)सम्भवेऽपि नाद्रव्यसिद्धिस्तदा तेनैव न्यायेन कर्मत्वनिषेधेऽसिद्धिः पूर्वोक्तैवेत्याशयवानाह - बाधके सत्यपीति / अथैकदेशपरिशेषादेव द्रव्यत्वादिसंभावनेति हृदि निधायोपसंहरति - तस्मादिति / मात्रार्थस्त्वेकदेशपरिशेषो न सर्वत्र / प्रहृतसंदेहवत्त्वेन हेतुरपि / अथ नैकत्र संरो(दे)ह(हः) / यत्र बाधकं तत्र संशयोच्छित्तिना( )न्यत्र, स्वविषयमात्रप्रवृत्तत्वाद् बाधकस्येत्यर्थ / द्रव्यत्वे किमपि न बाधकमस्तीत्याशयवान् पृच्छति - अथेति / अस्तीहापि बाधकमित्याशयवानाह - उच्यत इति / ननु द्रव्यत्वस्यासिद्धौ [57A] किं नश्छिन्नमित्यत आह - न चेति / अभिमतं सत्प्रतिपक्षत्वमनित्यत्वानुमानस्य न स्यादिति छिन्नमित्यर्थः / उपलक्षणं चैतत् / न सत्प्रतिपक्षत्वं साधनत्वमप्यसिद्धे भवतीत्यपि द्रष्टव्यम् / ननु यथा द्रव्यत्वे बाधकसंभवान्न तत्सिद्धिस्तथा गुणत्वे बाधकसंभवान्न गुणत्वसिद्धिः ततो न लिङ्गग्राहकमानबाधक इति मन्वानो गुणत्वेऽपि बाधमाशङ्कते - नन्विति / नन्वेवमपि गुणत्वानभ्युपगमे द्रव्यत्वासिद्धौ च साक्षात्सम्बन्धेन ग्रहणत्वे न किञ्चित् प्रमाणमुक्तं स्यादित्याशयवानाह - ततः किमिति / अद्य प्रमाणस्य विपक्षे बाधकभावेनावगतप्रतिबन्धत्वादित्युक्ते यदि विपक्षबाधकबुद्ध्याभिदध्या[त्] ध्वदि(नि)त्वगुणः स्यात् तदाऽनेन ग्रहणं न स्यादिति हृदि निधायायोग्यत्वोपाधिप्रयुक्तत्वेन तस्य गुणस्याप्रयोजकत्वप्रदर्शनेनोन्मूलितपतिबन्धेनाबाधकत्वाव्यतिरेकव्याप्तौ च तदपाधिप्रयक्तत्वेन प्रतिबन्धो(न्धा)सिद्धत्वमिति परिहरति - न चैतदपीति / तथा चेन्द्रियग्राह्यत्वप्रयुक्तमिन्द्रियागुणत्वमिति / न / किं तर्हि ? अनाश्रिततया अबाधितप्रमाया(याः) प्रतीयमानत्वप्रयुक्तमिति द्रष्टव्यम् / द्वितीयेऽपि प्रयोगेऽयोग्यगुणेन्द्रियत्वप्रयुक्तं स्वगुणाग्राहकत्वम् न त्वीन्द्रियत्वप्रयुक्तमिति द्रष्टव्यमिति / एवमनभ्युपगमे बाधकमप्याह - अन्यथेति / उक्तं सर्वमुपसंहरति - तस्मादिति / 54. अवश्यं च श्रोत्रेण विशेषगुणग्राहिणा भवितव्यम् / इन्द्रियत्वात् / अन्यथा तन्निर्माणवैयर्थ्यात् तदन्यस्येन्द्रियान्तरेणैव ग्रहणात् / न च द्रव्यविशेषग्रहणे तदुपयोगः / विशेषणयोग्यतामाश्रित्यैवेन्द्रियस्य द्रव्यग्राहकत्वात्, न द्रव्यस्वरूपयोग्यतामात्रेण / अन्यथा चान्द्रमसं तेजः स्वरूपेण योग्यमिति तदप्युपलभ्येत / आत्मा वा मनोग्राह्य इति सुषुप्त्यवस्थायामप्युपलभ्येत / अनुद्भूतरूपेऽपि वा चक्षुः प्रवर्तेत, तस्माद् गुणयोग्यतामेव पुरस्कृत्येन्द्रियाणि द्रव्यमुपाददते, नातोऽन्यथेति स्थितिः / अत एव
Loading... Page Navigation 1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210