Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 55 * न्यायकुसुमाञ्जलि स्तबकः 2 नानुभूयते / विनाशस्वभावानुभवस्तु केन वार्यते / श्रुतपूर्वो गकारो विनष्ट इति ज्ञानम् इन्द्रियकारणकम् अनन्यथासिद्धेन्द्रियानुविधायित्वात् घटोऽयमिति ज्ञानवदिति वा प्रयोगो द्रष्टव्यः / नैयायिकैकदेशिमते [49B] मानबाधप्रतिबाधनाभ्यां व्याप्यत्वासिद्धिसत्प्रतिपक्षत्वं दूषणमाह - नैतदेवमिति / यथा वाऽनेन सत्प्रतिपक्षत्वं वेदितव्यम् - शब्दप्रध्वंसो नेन्द्रियग्राह्यः, इन्द्रियासन्निकृष्टत्वात् अनुमीयमानपदार्थवदिति / अभावत्वे सति इन्द्रियाधारत्वात् ब्दप्रध्वंसवदिति / इन्द्रियसन्निकष्टप्रयक्तं प्रत्यक्षत्वं वेन्द्रियाधारत्वप्रयक्तं वा अभावप्रत्यक्षत्वमिति व्यतिरेकेण व्याप्यत्वासिद्धत्वमूहनीयम् / इममेवाभिप्रायं परस्परं विकल्प्य दूषयति / इदमुन्नेयमुपाध्युद्भावनं वा / व्यतिरेकेण व्यापकानुपलब्ध्या प्रत्यक्षत्वव्यापकं न त्विन्द्रियसन्निकृष्टमैन्द्रियकाधारत्वानुपलब्ध्या यथा श्रुतेन सत्प्रतिपक्षत्वम् / प्रथममुपाधि तल्लक्षणविरहेण निराकरोति - न प्रथम इति / स्वरूपयोग्यतां प्रत्यक्षोपहितविषयस्वरूपसम्पत्ति प्रति सहकारियोग्यतायाः सहकारिसम्पत्तेरिन्द्रियसन्निकर्षस्यानपाधित्वात् / कथमनुपाधित्वमित्यत आह - तस्या इति / तस्याः प्रत्यक्षतायाः, तामिन्द्रियसन्निकर्षयोग्यतामित्यर्थः / तथा च पक्षे वर्तमानत्वेनोपन्यस्तसाधनव्यापकत्वेनानुपाधित्वमिति तात्पर्यम् / अन्ये तु स्वरूपयोग्यतालक्षणं साध्यं प्रति सहकारियोग्यता नोपाधिरिति बुद्ध्यमानाः साध्याव्यापकत्वमिति वर्णयन्ति / एवं च परिभाव्यं विपश्चिद्भिर्यदुक्तं तद् ग्राह्यं नेतरम् / [50A] द्वितीयमुपाधिं व्यभिचारेण निरस्यति - नापीति / न त्विन्द्रियसन्निकृष्टत्वं विशिष्टमेतदेवोपाधिरस्त्वित्यत आह - अत एवेति / धर्माद्यभावस्य प्रत्यक्षत्वप्रसङ्गादेवेत्यर्थः / एवमुपाधिपक्षं व्युदस्य सत्प्रतिपक्षत्वमाशङ्कितम् यत् तत् परिहर्तुं प्रथमस्यासिद्धिमाह - नापि द्वितीय इति / नापि सत्प्रतिपक्षत्वमिति पक्ष इत्यर्थः / प्रथमस्येति। इन्द्रियसन्निकृष्टत्वादित्यस्येत्यर्थः / एवमुपाधिपक्षे असिद्धिमेव व्युत्पादयति - अस्ति हीति / एतेन प्रकृतसाधनमिन्द्रियसन्निकर्षमुपपादयता साधनव्यापकत्वमुपाधिपक्षे व्यञ्जितव्यम् / ननु विशेषणत्वमभावस्य, तत् तदा स्यात् यदि शब्दप्रध्वंसज्ञाने श्रोत्रमवभासेत / न त्वेवम् / श्रोत्रस्यातीन्द्रियत्वेन प्रत्यक्षज्ञानविषयत्वविरोधात् / अतो न प्रध्वंसस्य तद्विशेषणत्वम् / स्वसम्बन्धी विशेषः अन्यतो व्यावृत्तबुद्धिजननविरहादन्यतो व्यावृत्तबुद्धिविषयत्वविरहाच्च न श्रोत्रस्य विशेष्यत्वमित्याशयवान् विशेषणविशेष्यभावमसहमानः शङ्कते - विशेष्यस्येति / तथा विशेष्यमितरव्यावृत्तविशेष्यमित्यर्थः / यद्यपि श्रोत्रमतीन्द्रियं तथापि शब्दोपलब्धिलिङ्गादितया श्रोत्रज्ञानसहकारिश्रोत्र(मनः)प्रसूतविशिष्टज्ञानविषयो भवति परमाण्वा(ण्व)नुमितिसहकारिवत् / न प्रस्तुतानुमिति[50B] विषया(यः) परोक्षविशिष्टवेदनविषयपरमाणुवत् / तत्र विशेष्यग्रहणमत(तो) विशेषणग्रहणमिति तु वैधर्म्यमितरग्रहणमात्रस्याविशेषादिति तु व्यक्तमित्याशयवानुपसंहरति - नेति / यत्तूक्तम् - 'तथा विशेष्यमव्यवस्थापयतः' इत्यादि तत्राह - तथेति / यदि तथैव विशेषण(णं) स्यात् तदाऽऽत्माश्रयदोष इति तमि(मे)व [वि]वृणोति - विशेषणत्वमिति / 47. तस्मात् सम्बन्धान्तरमन्तरेण तदुपश्लिष्टस्वभावत्वमेव हि तयोः / सैव च विशिष्टप्रत्ययजननयोग्यता विशेषणतेत्युच्यते / सा चात्र दुर्निवारा, प्रतियोग्यधिकरणेन स्वभावत एवाभावस्य मिलितत्वात् / तथापि तया तथैव प्रतीतिः कर्तव्येति चेत्, न / गृह्यमाणविशेष्यत्वावच्छिन्नत्वाद् व्याप्तेः / अन्यथा संयुक्तसमवायेन रूपादौ विशिष्टविकल्पधीजननदर्शनाद् गन्धादावपि तथात्वप्रसङ्गात् / तथापि नेन्द्रियविशेषणतया कस्यचिद् ग्रहणं दृष्टम्, अपि त्विन्द्रियसम्बद्धविशेषणतया, सा चातो निवर्तत इति चेत्, न / अस्य प्रतिबन्धस्य इन्द्रियसन्निकृष्टार्थप्रतिसम्बन्धिविषयत्वात् / अन्यथा संयुक्तसमवायेन गन्धादावुपलब्धिदर्शनात् समवायेनादर्शनात् शब्दस्याग्रहणप्रसङ्गात् / नाप्यभावत्वे सत्यतीन्द्रि
Loading... Page Navigation 1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210